अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 156, कुल 540 में से
संदर्भ में पढ़ें| ७४ | अभिज्ञानशाकुन्तलम् |
|---|
**राजा—**मन्दोत्सुकोऽस्मि नगरगमनं प्रति। यावदनुयात्रिकान् समेत्य नातिदूरे तपोवनस्य निवेशयामि। न खलु शक्नोमि शकुन्तलाव्यापारादात्मानं निवर्त्तयितुम्। मम हि—
गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥ ३३ ॥
( निष्क्रान्ताः सर्वे )
इति प्रथमोऽङ्कः
**राजा—**अथात्मनि निश्चितशकुन्तलानुरागो राजा तस्यामत्यन्तासक्तः सन् स्वावस्थां परामृशति-मन्दोत्सुकोऽस्मीति । नगरगमनं प्रति = भूयो राजधान्यां प्रत्यावर्त्तनविषये मन्दं = शिथिलभूतम् औत्सुक्यम् = उत्कण्ठा यस्यासौ मन्दौत्सुक्यः यावत्, प्रथमं अनुयात्रा-प्रयोजनं, शीलं येषां तेऽनुयात्रिका तान् अनुयात्रिकान् = मदङ्गरक्षकान् अनुगामिनः सैनिकान् समेत्य = सम्भूय नातिदूरे = अनतिदूरे, समीपे एव निवेशयामि = स्थापयामि। यद्यतिदूरे तथा प्रभुत्वस्य शैथिल्यं स्यात्, समीपे चेत् आश्रमस्य पीडा स्यात् इति भावः।
इत्थं विचिन्त्य पुनः प्रगाढप्रेमप्रकर्षशालिनीमात्मनो मनोवृत्तिमनुसन्दधाति—न खल्विति। न खलु = निश्चयेन शकुन्तलायां यो व्यापारः = अङ्गप्रत्यङ्गचङ्क्रमणस्वरूपः तस्मात् यद्वा शकुन्तलया यो व्यापारः = अनुरागद्योतकः स्निग्धवीक्षणादिः तस्मात् शकुन्तलाव्यापारात् = शकुन्तलामुखावलोकनव्यापारात् आत्मानं = मनो निवर्त्तयितुं = निवृत्तं कर्तुं अवरोद्धुं मम हि = यतः।
**अन्वयः—**प्रतिवातं नीयमानस्य केतोः इव मम शरीरं पुरो गच्छति चीनांशुकम् इव असंस्तुतं चेतः पश्चात् धावति।
नत्वहमितो यामि, किन्तु कर्त्तव्यबुद्धिर्मां नयतीत्याह—गच्छतीति । वायोः प्रतिकूलं प्रतिघातम् = वायुप्रतिकूलम्, नीयमानस्य उह्यमानस्य, केनापि चाल्यमानस्य केतोः = ध्वजदण्डस्य चीनांशुकं = चीनदेशोद्भववस्त्रकृतपताका इव मम शरीरं = देहः पुरः = अग्रे, संमुखम्, (सैन्यं प्रति) गच्छति = याति असंस्तुतं = अपरिचितम् चेतः = चित्तं पश्चात् शकुन्तलाभिमुखं धावति = जवेन प्रतिकूलं गच्छति। अकाण्डविजृम्भितेन प्रतिवातेनेव अतर्कितोपनतेन तदभिलाषेण पुनः पुनः प्रेर्यमाणं ध्वजदुकूलमिव मदीयं चेतः पश्चाद् व्रजति, शरीरं च ध्वजवत् पुरो मन्दं मन्दं गच्छतीति भावः। एतेन स्वचेतसश्चाञ्चल्यं, वपुषश्च हृदयशून्यत्वात् काष्ठतुल्यत्वं ध्वनितम्।
राजा—(ऊँची साँस लेकर) ये सब तो गईं, अच्छा, मैं भी चलूँ। शकुन्तला को देखकर तो मेरी अब नगर = राजधानी की ओर जाने की इच्छा एवं उत्सुकता नहीं हो रही है। अच्छा, पहले तो अपने साथ के सैनिकों को तपोवन से दूर कहीं ठहरा दूँ। क्या करूँ, मैं तो अपने मन को शकुन्तला को देखने के इस व्यापार से हटा ही नहीं रहा हूँ। मेरा मन तो बार-बार शकुन्तला को देखने के निमित्त व्याकुल हो रहा है। अतः राजधानी भी जाने की इच्छा नहीं हो रही है। क्या करूँ—
मेरा तो शरीर यद्यपि आगे को चल रहा है, किन्तु बेवश हुआ मेरा मन पीछे शकुन्तला की ओर उसी प्रकार दौड़ रहा है जिस प्रकार वायु से विपरीत दिशा में ले जाई जाने वाली ध्वजा का