भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 178, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 178

९६ अभिज्ञानशाकुन्तलम्

राजा--सखे, न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते ।

सुरयुवतिसंभवं किल मुनेरपत्यं तदुज्झिताधिगतम्।
अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥ ८ ॥

विदूषकः---( विहस्य ) जह कस्स वि पिण्डखज्जूरैहिं उव्वेजिदस्स तित्तिणीए अहिलासो भवे, तह इत्थिआरअणपरिभाविणो भवदो इमं अब्भत्थणा। [ यथा


राजा—अथ राजा स्वात्मनि आरोपितं धर्मलोपभयमस्रहमान आह—सखे ! = मित्र ! दुर्मार्गप्रवृत्तिनिवारणं सुहृदो धर्मः, किन्तु चिरपरिचितेन त्वया कथमयमनुचितारम्भो मयि सम्भावितः ? अपरिहार्ये वस्तुनि = अगम्यागम्यादौ पौरवाणां=पुरुवंशजानां मनः=चित्तम् न प्रवर्तते=नानुधावति, तदादित्सा तु दूरेऽपास्ता। अतः पुरुवंशोत्पन्नस्य मम मनः परिहार्यं पदार्थं नाभिलषतीति भावः।

अन्वयः—शिथिलम् अर्कस्य उपरि च्युतं नवमल्लिकाकुसुमं इव उज्झिताधिगतं सुरयुवतिसंभवं मुनेः अपत्यं तत् किल ( अस्ति )।

शकुन्तलां ब्राह्मणकन्यां मन्यमान विदूषकस्य सन्देहं दूरीकुर्वाणो राजा दुष्यन्त-स्तद्वृत्तान्तमुपस्थापति—सुरयुवतीति । शिथिलं = वृन्ताद् विश्लथीभूतं, अर्कस्य = मन्दारस्य उपरि = ऊर्ध्वं च्युतं = पतितं नवमल्लिकापुष्पम्=नवमल्लिकायाः=तल्लतायाः कुसुमं = पुष्पमिव = यथा आदौ उज्झितं = मेनकया परित्यक्तं पश्चादधिगतं कण्वेन प्राप्त-मिति उज्झितागमं सुरयुवतिः = देवाङ्गना मेनका संभवः कारणं, जन्म यस्य तत् सुर-युवतिसंभवम् = मेनकोत्पन्नम् तत् किल = निश्चयेन तत् तथाविधमित्यर्थः।

अयं भावः—यथा मन्दारनवमल्लिकाकुसुमयोर्न परस्पर जन्यजनकयोर्भावः, अपितु काकतालीयं एव कश्चन सम्बन्धः संभवति तथैव कण्वेन मुनिना पालितेयं शकुन्तला। नास्या मुनिनाऽन्यः कोऽपि सम्बन्धः । नेयं तदात्मजा, अतः पालितत्वादेव कण्वस्य शकुन्त-लापितृत्वं अप्सरसि मेनकायां राजर्षिणा विश्वामित्रेण जनितेयं मत्परिग्रहयोग्यैवम्। मित्र ! पौरवस्य वयं न खलु अस्माकं परिहार्यं वस्तुनि मनो निवेशः। यथा मन्दारोपरि-दैवात् पतितं नवमालिकापुष्पं = मन्दारपुष्पं भवितुमर्हति तथैवेयमपि शकुन्तला न कण्वस्योरसी पुत्री, किन्तु कौशिकेने मुनिना मेनकायामुत्पन्नाऽरण्ये परित्यक्ता महर्षिणा कण्वेन परिपालिता चेति सर्वथैवेयं मम विवाहयोग्येत्यत्र न सन्देहः कार्यः ॥ ८ ॥

विदूषकः—वर्णमूलके गम्यत्वे राज्ञा परिष्कृतेऽपि सांसर्गिकं तत् साधयन् विदूषकः ( विहस्य = मन्दहास्यं कृत्वा ) यथा = येन प्रकारेण कस्यापि = कस्यचित् पुरुषस्य पिण्ड-खजूरैः = खर्जूरारव्यफलविशेषैः उद्वेजितस्य विरक्तस्य, जिह्वाजाड्यं तन्मूलामरुचिं च


राजा—मित्र ! निषेधयोग्य वस्तु की ओर पुरुवंशियों का मन चलता ही नहीं। यह शकुन्तला किसी सुन्दरी अप्सरा से उत्पन्न हुई है। अतः यह ब्राह्मण की कन्या नहीं। कण्वमुनि को तो यह उस अप्सरा से छोड़ी हुई मिली, अतः उन्होंने इसका केवल पालन-पोषण किया है। इसलिए यह उनकी कन्या कहलाती है। इस प्रकार कण्वमुनि के पास तो यह उसी प्रकार आ गई जैसे मदार के पौधे के ऊपर नेवारी का सुन्दर कोमल फूल आकर टपक पड़े ॥ ८ ॥

विदूषक—(हँसकर) हे मित्र ! मीठे-मीठे पेड़ा और खजूरों को खाते-खाते जब मनुष्य का मन भर जाता है तब उसको खट्टी चीज इमली, नीबू आदि खाने की भी इच्छा होती है। मध्यम

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित) · पृष्ठ 178, कुल 540 में से · BharatKosha