अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 179, कुल 540 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ९७
कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिन्तिण्यामभिलाषो भवेत् तथा स्त्रीरत्नपरिभाविनो भवत इयमभ्यर्थना । ]
राजा—न तावदेनां पश्यसि १येनैवमवादोः ।
विदूषकः—तं खु रमणिज्जं भवदो वि विम्हअं उप्पादेदि [ तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति । ]
राजा—वयस्य, किं बहुना,
२चित्रे निवेश्य परिकल्पित३सत्त्वयोगा रूपोच्चयेन ४मनसा विधिना कृता नु ।
प्रापितस्य तिन्तिण्यां = अम्लत्वात् चिञ्चायां अभिलाषो लालसा भवेत् = स्यात् तथा = तेन प्रकारेण स्त्रीरत्नपरिभाविनः—स्त्रीरत्नानां = नारीवर्याणां परिभाविनः = तिरस्कर्तुः भवतः = तव दुष्यन्तस्य इयमेषा = शकुन्तलाविषयिणी अभ्यर्थना = इच्छा । यथा मधुरेणोद्विग्नो लोको हृद्यमम्लं चिञ्चाफलं बहु मन्यते तथैव त्वयापि अन्तःपुरस्थायां वर-वर्णिनीनां चिरपरिचयवशात्तां अवज्ञाय वनवासिनीयं तपस्विकन्या प्रशस्यते इति भावः । विदूषकस्येयं परिहासोक्तिः ।
राजा—प्रियायां तस्यामतिसुन्दर्यां शकुन्तलायामारोपितं दौर्भाग्यमसहमानो न तावत् एनां शकुन्तलां पश्यसि = अवलोकयसि येन = कारणेन एवं = तथा त्वम् अवादीः = अकथयः ।
विदूषकः—भूयो भूय उच्चमानराजवचनेन शकुन्तलासौन्दर्यमङ्गीकुर्वन् माधव्यः अभिधत्ते—तत् वस्तु खलु = निश्चयेन रमणीयं = अतिमनोरमं यत् = वस्तु भवतः—तव अपि विस्मयं = आश्चर्यं कौतुकम् उत्पादयति = जनयति । सा रमणीयैवेति तर्कयामि, यतस्त-वाश्चर्यं जनयतीति भावः । तस्मात्त्वत्कौतुकादेवाहुं सौन्दर्यशालिनीमनुमिनोमीत्यर्थः ।
राजा—वयस्य ! = मित्र ! किं बहुना—अलम् आधिक्येन, अङ्गप्रत्यङ्गवर्णनरूपेण स किमपि फलम्, बहूक्तेनापि यथावद्वर्णनस्याशक्यतया तेन न प्रयोजनसिद्धिरिति भावः ।
अन्वयः—धातुः विभुत्वं तस्याः वपुश्च अनुचिन्त्य मे सा विधिना चित्रे निवेश्य परि-कल्पितसत्त्वयोगा रूपोच्चयेन मनसा कृता नु अपररत्नसृष्टिः प्रतिभाति ।
शकुन्तलानिर्माणस्य लोकोत्तरत्वमाह—चित्रेति । धातुः=चतुर्दशभुवननिर्मातुः सिद्ध-
पड़ता है अन्तःपुर की सुन्दर-सुन्दर स्त्री-रत्नों को उपभोग करने वाले आपकी भी वैसे ही इस जंगली कन्या के ऊपर इच्छा हो रही है ।
राजा—मित्र ! तुमने उसे देखा नहीं है इसीलिए तुम ऐसा कह रहे हो ।
विदूषक—तो वह अवश्य ही अत्यन्त सुन्दरी होगी, जो आपके मन में भी इतना विस्मय, औत्सुक्य और आश्चर्य उत्पन्न कर रही है !
राजा—मित्र !—ज्यादा क्या कहूँ,
ब्रह्माजी की सब कृतियों को तथा उस अतिसुन्दरी शकुन्तला के सुन्दर शरीर के देखने से यही
पाठा०—१. येन त्वमेवंवादी । २. चित्ते । ३. सर्वयोगान् । ४. महता मनसा ।
७ शाकु०