भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 180, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 180

९८ अभिज्ञानशाकुन्तलम्

स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ ९ ॥

विदूषकः—जइ एव्वं पच्चादेसो दाणिं रूववदीणं [ यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् ] ।

स्रष्टुः ब्रह्मदेवस्य विभुत्वं = सामर्थ्यं, निर्माणकौशलं तस्याः शकुन्तलायाः वपुः = लोकोत्तरसौन्दर्यशालि अतुलसौन्दर्यसारसमुज्ज्वलं शरीरं च अनुचिन्त्य = मुहुर्मुहुरनु-सन्धाय स्थितस्य मे = देवेन्द्रसाहाय्याय स्वर्गगमनसमये प्रागुर्वशीरम्भादि-दिव्यस्त्री-रत्नानि दृष्टवतो मम सा मन्नेत्रकुमुदविकाशराकाशशाङ्कायमाना । शकुन्तला—विधिना = ब्रह्मणा चित्रे = आलेख्ये = फलकादौ निवेश्य, विभाव्य आकृतिसमर्पणप्रकारेण विलिख्य परिकल्पितः = प्रतिष्ठापितः, कृता सत्वस्य = प्राणस्य, जीवस्य योगः सम्बन्धो यस्याः सा परिकल्पितसत्वयोगा रूपोच्चयेन—रूपस्य = सौन्दर्यस्य उच्चयः = उच्चयनं = चन्द्रपद्मादिसुन्दरपदार्थजाता तत्सौन्दर्यस्य सारग्रहणं तेन रूपोच्चयेन मनसा = तदेकता-नेन चेतसा कृता = सङ्कल्पेन प्रादुर्भूता । नु वितर्के अपरा = पूर्वकृतदिव्यादिव्यसकल-स्त्रीरत्नेभ्यो व्यतिरिक्ता, अनन्यसाधारणी स्त्रीरत्नस्य सृष्टिः स्त्रीरत्नसृष्टिः = उत्कृष्टस्त्री-रत्नत्वेन सृष्टा प्रतिभाति = मम मनसीदृशो वितर्कः समुल्लसति ।

शकुन्तलाया अङ्गप्रत्यङ्गवर्णनं तु कठिनमेव, परमेतावदेव वक्तुं शक्यते यद यथा कश्चित् कुशलः शिल्पी सर्वतोऽनुभूतैः आत्मनः सिद्धिप्रयोगैः महता कौशलेन विशिष्टसामग्री सम्भारसारमाकृत्य पूर्वकन्ल्पितशिल्पसमूहात् उत्कृष्ट वस्तु सम्पादयति तथैव प्रजापति-रपि सकललोकसृष्टिलब्धानुभवविशेषबलात् महता बुद्धियोगेन करस्पर्शक्लेशमन्तरा केवलं मनसैव सोन्दर्यसारेणैवोपादानेन एषा कापि परमादर्शभूता ललनाललामा निर्ममे । कथमन्यथा जगदतिशायिरूपसम्पदस्तस्याः सृष्टिः ब्रह्मणा कर्तुं शक्येत । अत्र यावदीदृश-सृष्टेस्तेनाकल्पनादिति शकुन्तलायाः सौन्दर्यं वर्णनातीतं लोकोत्तरं वैशिष्ट्यं बिभर्तीति तत्त्वम् । अत्रोत्प्रेक्षातिशयोक्तिकাব্যलिङ्गालङ्कारः । वृत्तं च वसन्ततिलका ॥ ९ ॥

विदूषकः—राजोक्तिमनुवदन् विदूषकः कथयति—यदि = चेत् एवं = इत्थम् भवदुक्तं सत्यं तदा इदानीं = साम्प्रतं रूपवतीनां = रूपाभिमानिनीनां सुन्दरीणां स्त्रीणाम्। प्रत्यादेशः = प्रत्याख्यानं, निराकरणम्, अनन्यसाधारणसौन्दर्यशालिनी सेति भावः ।


मालूम पड़ता है कि ब्रह्माजी ने आज तक जितने भी सृष्टि के उत्पादन के उत्तम-उत्तम योग जाने और सीखे हैं। उन सब योगों को चित्त में रखकर और अपनी सम्पूर्ण कारीगरी खर्च करके रूप और सौन्दर्य की राशि के व्यय से इस कृशाङ्गी शकुन्तला को बनाया है। अतः ब्रह्माजी की वर्तमान सभी स्त्री सृष्टियाँ अलगं, यह तो कोई अपूर्व अद्भुत स्त्री सृष्टि ही है ॥ ९ ॥

विशेष—राजा दुष्यन्त को ब्रह्मदेव की सामर्थ्य का स्मरणकर तथा शकुन्तला का अद्भुत सौन्दर्य देखकर मालूम पड़ता है कि यह स्त्री रत्न की एक अपूर्व सृष्टि है । प्रतीत होता है कि उन्होंने पहले चित्र बनाकर बड़े मनोयोग से इसे बनाया है, अतः इसका सौन्दर्य इस प्रकार लोकोत्तरवर्णनातीत है ।

विदूषक—तो, फिर यह शकुन्तला सभी = देवाङ्गना, मनुष्य आदि रूपवती स्त्रियों का प्रत्याख्यान = मान तथा गर्व का मर्दन करने वाली है, यही समझना चाहिए ।