भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 181, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 181

द्वितीयोऽङ्कः ९९

राजा—इदं च मे मनसि वर्त्तते।

अनाघ्रातं पुष्पं किसलयमलूनं कररुहै- $^१$रनाविद्धं रत्नं मधु नवमनास्वादितरसम्। अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति $^२$विधिः ॥ १० ॥

राजा—अथ राजा तस्या रूपसम्पदा यौवनेन च सन्धुक्षिताभिलाषः तल्लाभविषये स्वमनोव्यापारं प्रकटयन्नाह—इदं = एतदतिरिक्तं च = अपि मे = मम मनसि = हृदये वर्तते = अस्ति।

अन्वयः—अनाघ्रातं पुष्पम् (इव) कररुहैः अलूनं किसलयम् (इव) अनाविद्धं रत्नम्, (इव) अनास्वादितरसं नवं मधु (इव) अखण्डं पुण्यानां फलम् इव च अनघं तद्रूपम्, विधिः इह कं भोक्तारं समुपस्थास्यति (इति) न जाने।

शकुन्तलाया लोकोत्तरं लावण्यं सञ्चिन्त्य तल्लाभे सन्दिहानो राजा दुष्यन्तो नर्मसचिवं विदूषकं ब्रवीति—अनाघ्रातमिति। अनाघ्रातं-न आघ्रातं = नासिकाविषयीकृतमिति अनाघ्रातं = अकृतआघ्राणम्, अकृतसुरभिगन्धोपभोगम्, पुष्पं = कुसुमं (इव) (अनेन मकरन्दसौरभपूर्णत्वं द्योत्यते) कररुहैः = नखैः अलूनं = अच्छिन्नम्, अत्रोटितम्, किसलयं = पल्लवः, अशोकादिनवदलम् (इव), (अनेनाम्नात्वं ध्वन्यते) अनाविद्धं = आसमन्ताद्वेधरहितम् रत्नं = हीरकादिविशिष्टमुक्तादानादि (अनेन धारणार्थं गात्रसम्पर्काभावादौज्वल्यातिशयः सूच्यते) न आस्वादितः = रसनाविषयीकृतः रसः = आनन्दानुभवः यस्य तत् अनास्वादितरसम् = अगृहीतास्वादमनुच्छिष्टं च नवं = प्रत्यग्रं-मधु=पुष्परसात्मकं क्षौद्रम् (इव) (अनेन पतिशेषत्वादिदोषराहित्यं सूचितम्) अखण्डं = न खण्डो विभागो यस्य तत् अखण्डं = परिपूर्णं, पुण्यानां = अनेकजन्मार्जितानां सुकृतानां फलं = परिणामः इव सुदुर्लभम् न अघं यस्मिन् तत् अनघं = निष्पापम्, निर्मलं निष्कलङ्कं तद्रूपं-तस्याः शकुन्तलायाः रूपं = सौन्दर्यादिकं लावण्यं विधिः = ब्रह्मा, इह = अत्र जगति, शकुन्तला-रूपस्य विषयं वा क भाग्यवन्तं पुरुषं भोक्तारं = उपभोगकर्तारम् उपस्थास्यति = उपस्थापयिष्यति, उपसंक्रमिष्यति। तत् अहं न जाने = नाहं वेद्मि, एतद्रूपानुरूपतरुणसृष्टेरभावादिति भावः।

इदमस्य तात्पर्यम्—मित्र माढव्य ! तां मुनिकुमारीमनुध्यायन्नहं शोचामि यत् क्रीडोद्यानपूर्णविकसितमपि केनाप्यनघ्रातत्वात् सौरभसम्भारं सुमनमिव नखाग्रैर्वृन्तात्

राजा—हाँ, मित्र ! मेरे मन में तो यहां तक बात उठ रही है कि—

विधाता शकुन्तला का यह निर्दोष रूप-लावण्य जिस भाग्यशाली के उपयोग में लायेंगे, क्योंकि इसका मनोहर सौन्दर्य बे-सूँघा हुआ पुष्प, नाखूनों से न नोंचे गये कोमल पल्लव, बिना वेंधा हुआ = अखण्डित रत्न तथा जिसका रस नहीं चखा गया है उस अभिनव मधु के समान तथा पुष्पों के अखण्डित फल का तरह है। अर्थात् यह किस भाग्यशाली पुरुष की अर्द्धांगिनी बनेगी मैं यही बार-बार विचार कर रहा हूँ ॥ १० ॥

विशेष—यहां कवि ने निसर्ग सुन्दरी शकुन्तला के मनोहर रूप का चित्रण करते हुए उसे अनाघ्रात पुष्प, नखों से अलून किसलय, अनाविद्ध रत्न, अनास्वादित मधु तथा पुष्पों का अखण्ड


पाठा०—१. रनाभुक्तं। २. भुवि।