भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 185, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 185

द्वितीयोऽङ्कः १०३

दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा । आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ १२ ॥

रहसि ( सहोपविश्य मदभिप्रायं च ज्ञात्वा ) प्रस्थाने = सखीभ्यां साकं गमनारम्भे पुनः = पश्चात् शालीनतया = अधृष्टतयापि कामम् = अत्यर्थं भावः = अनुरागरूपश्चित्ताभिप्रायः आविष्कृतः = प्रकटितः तत्रभवत्या = मान्यया, शकुन्तलया ।

अन्वयः—तन्वी कतिचिदेव पदानि गत्वा अकाण्डे दर्भाङ्कुरेण चरणः क्षतः इति विवृत्तवदना द्रुमाणां शाखासु असक्तमपि वल्कलं विमोचयन्ती स्थिता आसीत् ।

शकुन्तलाया भावाविष्करणप्रकारं वर्णयन् राजा दुष्यन्तो विदूषकं कथयति—दर्भाङ्कुरेति। तन्वी = स्वभावतः कृशाङ्गी शकुन्तला कतिचित् = कानिचित् एव द्वित्राण्येव पदानि = पदप्राप्यस्थानानि गत्वा = चलित्वा अकाण्डे = अनवसरे एव दर्भस्य = कुशस्य अङ्कुरेण = अग्रभागसूच्या कुशाग्रसूचिकया चरणः = मम पादः क्षतः = सव्रणः विद्ध इत्युक्त्वा = इति हेतुमभिनीय वा विवृत्तवदना = विवृतं = प्रत्यावृतं वदनं = मुखं यया सा विवृत्तवदना = वदनं विवृत्य विलोकयन्ती मत्सन्मुखीना द्रुमाणां = वृक्षाणां शाखासु = स्कन्धेषु, विटपेषु असक्तं = अलग्नम्, असंबद्धमपि वल्कलं = परिधानीयं वल्कलवस्त्रं विमोचयन्ती = मन्दं मन्दं मोचनव्यापारमभिनयन्ती स्थिता = अवस्थिता आसीत् । कुशाग्रभागपादव्यधनाभावेऽपि तद्व्याजेन वल्कलस्य शाखास्वनासक्तस्यापि विमोचनछलेन निरुद्धगमना स्वाशयं स्पष्टमेव प्रकटितवतीति भावः ।

मित्र ! स्वसखीभ्यां सार्द्धं स्वाश्रमे गच्छन्ती सा शकुन्तला द्वित्राणि पदानि गत्वा मार्गमध्ये कुशाग्रेण मम पादौ क्षतौ इति दुःखातिशयं प्रदर्शयन्ती पार्श्वस्थतरुशाखायामनासक्तमपि स्वकीयं वस्त्रं मोचयितुं प्रयतमाना सा मुखं विवृत्य मामेव विलोकयन्ती किञ्चित्कालं तस्थौ। एतेनानुमीयते यत् सा मद्विषयकानुरागातिशयादेवेदृशं व्यापारं कृतवतीत्यर्थः ।

अत्र विरोधाभासविभावना-हेतु-व्याजोक्ति-स्वभावोक्ति-वृत्तिश्रुति-छेकानुप्रासा अलङ्कारा वसन्ततिलकावृत्तं च ॥ १२ ॥

जाते समय उसने बड़े ही हाव-भाव एवं कटाक्षपूर्वक मेरे प्रति अपना प्रेम भाव व्यक्त किया है। जैसे—

सखियों ! मेरा पैर कुश के तीखे अग्रभाग से बिंध गया है। इस बहाने वह कृशाङ्गी शकुन्तला मेरे ही वास्ते कुछ देर तक ठहर गई तथा शाखाओं में न अटके हुए भी अपने वल्कलवस्त्र को झूठे ही छुड़ाने के बहाने से वह मेरी तरफ घूम-घूम कर अनुराग सहित प्रेम भाव से मुझे बार-बार देख रही थी ॥ १२ ॥

विशेष—नायिकागत अनुराग के संकेत का नाम विलम्ब है, जिसमें प्रेमिका रास्ते में किसी बहाने से मुँह मोड़कर नायक को देखती है—'विलम्बस्तु पथि व्याजात् परिवृत्यापि दर्शनम्।' एकाएक दर्भाङ्कुर से चरण क्षत का बहाना अत्युपकारक है। अन्यथा ब्याज नहीं बन सकता था। सूक्ष्म दर्भ के अंकुर के चूबने में उसके निकालने में भी विलम्ब सम्भव है जिससे अधिक समय तक नायिका का नायक को देख सकने का अवसर मिल जाता है।

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित) · पृष्ठ 185, कुल 540 में से · BharatKosha