अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 186, कुल 540 में से
संदर्भ में पढ़ें१०४ || अभिज्ञानशाकुन्तलम्
विदूषकः—तेण हि गहीदपाहेओ होहि। किदं तुए उववणं तवोवणं त्ति पेक्खामि [ तेन हि गृहीतपाथेयो भव। कृतं त्वयोपवनं तपोवनमिति पश्यामि ] ।
राजा—सखे, तपस्विभिः कैश्चित् परिज्ञातोऽस्मि। चिन्तय तावत् केनापदेशेन सकृदप्याश्रमे वसामः।
विदूषकः—राजोक्तं निशम्य विदूषकः अनन्तरकर्तव्यमुपदिशति—तेन = तस्मात् कारणात् हि = निश्चयेन गृहीतं = प्राप्तं पाथेयं = मार्गोपयोगि धनादिकं येन स गृहीतपाथेयः स्वीकृत-शम्बलः (यथा विदेशं जिगमिषुं प्रति कश्चिद्वदति-पाथेयं गृहाणेति तद्वत् पथि साधु पाथेयं भवति यद्वा पाथेयपदेन आश्वासनसाधनं प्रेम लक्ष्यते।) कृतं = रचितं, त्वया = भवता उप-वनम् = उद्यानं तपोवनं—तपसः = तपस्याः वनं = विपिनं इति तपोवनम् इति = एवं पश्यामि = विलोकयामि। तपोवनमिदं त्वया शकुन्तलाविषयप्रेमव्यापारेण उपवनमिव कामिजन-विहारयोग्यं कृतमिति भावः। यद्वा त्वया दुष्यन्तेन इदं शान्ताश्रमपदम् उपवनं क्रीडा-काननमिव निष्पादितम्। परस्परानुरागोत्पत्तेरनुरूपमुपवनमेव न तपोवनमिति तादृशानु-रागचर्चाविष्करणादिभिराश्रममुपवनानां नीतम्। श्रमप्रधानस्य तपोवनस्येदानीमनुरा-प्रधानता जातेत्याशयः।
राजा—कण्वाश्रमे निवासमिच्छन् राजा विदूषकमुपायं पृच्छति—सखे ! = मित्र ! कैश्चित् = कैरपि तपस्विभिः = तापसैः परिज्ञातः = मृगयार्थमागतो राजा दुष्यन्तः तपोवन-मागत इति रूपेण ज्ञातोऽस्मि अत एव नेपथ्ये सन्निहितो मृगयाविहारी राजा दुष्यन्त इत्यादि तपस्विभिरुद्घोषितम्। अतो राजभावगोपनपूर्वकं तत्रोषितुं न शक्यते। न वा प्रयोजनमनन्तरा तत्र गमनं संभाव्यते राजस्थानानौचित्यात्। राजभावेन वासश्चानुचितः। अतो हि त्वं चिन्तय = विचारय केन अपदेशेन = व्याजेन, निमित्तेन सकृत् = एकवारमपि आश्रमे = तपोवने वसामः = तिष्ठामः सोऽपि महान् लाभ इति भावः। चिन्तयेत्यनेन विदूषकस्य प्रतिभाकौशलमात्मनश्च तथाविधोपायाप्रतिभानं सूचितम्।
विदूषक—वाह, तब तो उसने आपको प्रेम मार्ग के लिए पाथेय को ही प्रदान कर दिया है। इस प्रकार प्रेम लीला से तो आपने इस तपोवन को अपने अन्तःपुर का उपवन (विलास स्थान) ही बना लिया है।
विशेष—परदेश जाते समय आत्मीय बन्धुजन अपने बन्धुओं को मार्ग में जलपान, भोजन आदि के लिए जो कुछ देते हैं उस पाथेय कहते हैं। पाथेय शब्द की व्युत्पत्ति है, 'पथि साधु पाथेयम्'—अर्थात् रास्ते में उपयोग की वस्तु। प्रेम पथ पर चलने वालों के लिए नायिका विषयक चिन्तन ही पाथेय है। विदूषक के कहने का तात्पर्य है कि प्रेम-लीला तपोवन में नहीं हो सकती, उपवन में सर्वथा सम्भव है। मित्र! तपोवन जैसे अनुपयुक्त स्थान में भी तुमने प्रेम के उपयुक्त स्थान उपवन जैसी स्थिति उत्पन्न कर दी है।
राजा—सखे! इस आश्रम के कुछ तपस्वियों ने मुझे पहचान लिया है। जरा ऐसा सोचो कि जिससे मैं पुनः इस आश्रम में एक बार और जा सकूँ तथा अपनी प्राणप्रिया शकुन्तला को भली भाँति देख सकूँ।