भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 188, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 188

१०६ | अभिज्ञानशाकुन्तलम्

( नेपथ्ये )

हन्त सिद्धार्थौ स्वः ।


विवृण्वन् राजा दुष्यन्तः प्राह—यदुत्तिष्ठतीति । वर्णेभ्यः = ब्राह्मणादिभ्यश्चतुर्वर्णेभ्यः नृपाणां = रक्षयितॄणां राज्ञां कृते यत् धान्यषड्भागहिरण्यदशभागादि-मन्वादिस्मृतिकार-निर्दिष्टं फलं = राजग्राह्यो भागः उपतिष्ठति = उत्पद्यते लभ्यते, तत् = फलं क्षयि = उपभोगादिना क्षयशीलं विनाशि, हि = निश्चयेन आरण्यकाः = वनवासिनः तपस्विनः नः = अस्माकं कृते छेत्तुं शक्यं क्षयं न क्षयम् छेत्तुमशक्यम् अक्षयं = अविनाशि = अशक्यक्षयम् तपःषड्भागं = तपसः षष्ठं भागं भोगाय वर्गप्रदं सुकृतं ददति = वितरन्ति । अतः तपस्विनां मुनिजनानां संरक्षणं राज्ञोऽवश्यं कर्तव्यमिति भावः ।

अयं भावः—अरे माधव्य ! एते हि तपस्विनः मह्यं यादृशं कररूपं राजभागं वितरन्ति स हि रत्नौघादप्युत्तमोऽस्ति । पश्य वयं स्मः राजानः चतुर्णां वर्णानां संरक्षणेन तेभ्यो यः राजग्राह्यं भागं गृह्णीमः स खलु भोगेन क्षीयते परमेते वनवासिनः तपस्विनः मुनयो मम पराक्रमरक्षिते तपोवने निरुपद्रवं तपोऽनुतिष्ठन्तः यं तपः षड्भागं मह्यं स्वतो ददति स खलु न कथमपि विनाशशीलो भवितुमर्हति अपि तु इहामुत्र शुभफलप्रदत्वेना-त्यन्तमुपकरी । अतस्तेभ्यो मुनिभ्यो नीवारषड्भागाहरणं मन्मते सर्वथाऽनुचितमेव प्रतिभाति ॥ १३ ॥

अथ मुनिप्रवेशं सूचयन्नाह--( नेपथ्ये = प्रसाधनकक्षे ) हस्त ! = हर्षे सिद्धार्थौ सिद्ध सयत्नः अर्थः = प्रयोजनं प्रायोऽस्तीति तौ सिद्धार्थौ राजदर्शनात् निष्पन्नप्रयोजनौ = कृत-कृत्यौ स्वः = भवावः ।


कर जैसी छोटी वस्तु नहीं ली जा सकती, भले ही वे राजदेय कर के रूप में कहीं कुछ वस्तु रखें। उनसे जब कर से भी उत्तम वस्तु तपस्या का पुण्य अपने आप प्राप्त हो जाता है, तो कर के लिए उनसे कहना मूर्खता के अतिरिक्त कुछ नहीं है । अर्थात् धर्मात्मा राजा प्रतिदिन जो धर्म का करता है, उससे राजा की आयु धन और राष्ट्र की अभिवृद्धि होती हैं, तथा ब्राह्मण, क्षत्रिय, वैश्य और शूद्र इन चारों वर्णों से जो राजा को कर के रूप में मिलता है, वह राज्यव्यवस्था में उपयोग होकर नष्ट हो जाता है, किन्तु उस राज्य-व्यवस्था से सुरक्षित रहकर वनवासी ऋषि-मुनि तो तप के द्वारा जो पुण्य अर्जित करते हैं, उसका छठा भाग धर्मात्मा राजा को मिलता है, जो कभी नष्ट नहीं होता—

‘संरक्ष्यमाणो राजा यं कुरुते धर्ममन्वहम् ।
तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च ॥’ ७।१३६
‘यदधीते यद् यजते यद्ददाति यदर्चति ।
तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ॥’ ८।३०५

महाभारत के शान्ति पर्व के अन्तर्गत राजधर्म-व्यवस्था प्रकरण में भी लिखा है कि राजा को प्रजा की रक्षा के लिए प्रजा से छठा भाग कर के रूप में लेना चाहिए—

‘आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन ।
षड्भागमविता प्राज्ञः तासामेवाभिगुप्तये ॥’ ६८।२७

( नेपथ्य में ) अहो, इस राजा के दर्शन से हमलोग कृतार्थ हो गये ।