अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 189, कुल 540 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः
१०७
राजा—( कर्णं दत्त्वा ) अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।
( प्रविश्य )
दौवारिकः—जेदु भट्टा। एदे दुवे इसिकुमारआ पडिहारभूमिं उवट्ठिदा [ जयतु भर्ता । एतौ द्वौ ऋषिकुमारकौ प्रतीहारभूमिमुपस्थितौ ] ।
राजा—तेन ह्यविलम्बितं प्रवेशय तौ ।
दौवारिकः—एसो पवेसेमि [ एष प्रवेशयामि ] ( इति निष्क्रम्य, ऋषिकुमाराभ्यां सह प्रविश्य ) इदो इदो भवंतो । [ इत इतो भवन्तौ ]
( उभौ राजानं विलोकयतः )
प्रथमः—अहो दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः । अथवोपपन्नमेतदृषिभ्यो नातिभिन्ने राजनि । कुतः—
राजा—( कर्णं दत्वा = श्रुत्वा–श्रवणस्याभिनयं विधाय ) अये = अहो धीरः = गम्भीरः प्रशान्तः = अतिशान्तः स्वरः = शब्दः येषां ते तै धीरप्रशान्तस्वरैः = शान्तमधुरस्वरैः तपस्विभिः = तापसैः भवितव्यम्। धैर्यव्यञ्जकस्वराः तपस्विनः समागता इत्यनुमीयते इत्यर्थः ।
दौवारिकः—जयतु भर्ता = सर्वोत्कर्षण वर्ततां स्वामी । एतौ = पुरो दृश्यमानौ द्वौ = द्विसंख्याकौ ऋषिकुमारकौ = मुनिबालकौ प्रतीहारभूमिं = प्रतिहारस्य द्वारस्य भूमिं = स्थानम् द्वारदेशम्, उपस्थितौ = प्राप्तौ स्तः ।
राजा—तेन = प्रोक्तेन कारणेन हि निश्चयेन तौ = ऋषिकुमारकौ अविलम्बितं = न विलम्बितमविलम्बितं = सत्वरं प्रवेशय = अन्तरागमय ।
दौवारिकः—एषः = अहं अथ नैव प्रवेशयामि = अन्तः आनयामि ( इति = इत्युक्त्वा निष्क्रम्य = रङ्गमञ्चाद्वहिर्गत्वा ऋषिकुमाराभ्यां = मुनिबालकाभ्यां सह = साकं पुनः प्रविश्य = रङ्गमञ्चे उपस्थाय ) इतः, इतः = अनेन मार्गेण, अनेन मार्गेण आगच्छतां भवन्तौ = युवाम् ।
( उभौ = द्वौ ऋषिकुमारकौ राजानं = भूपतिं दुष्यन्तं विलोकतः = पश्यतः )
प्रथमः—प्रथमः = द्वयोरन्यतरः ऋषिकुमारः अहो = आश्चर्यं परेरनभिभवनीयः
राजा—( कान लगाकर ) यह प्रशान्त, गम्भीर स्वर तो तपस्वियों का सा प्रतीत होता है ।
( प्रवेश कर )
**दौवारिक—**महाराज की जय हो, जय हो, महाराज ! ये दो ऋषिकुमार दरवाजे पर उपस्थित हैं। उनके लिए महाराज की आज्ञा है ?
**राजा—**बिना विलम्ब उन्हें शीघ्र अन्दर लाओ ।
**दौवारिक—**महाराज की जो आज्ञा बस, यह मैं अन्दर लाया ( बाहर निकल जाता है तथा मुनि बालकों के साथ पुनः अन्दर जाकर ) आप लोग इस मार्ग से अन्दर पधारिए, इधर से पधारिए ।
( दोनों ऋषिकुमार राजा को देखते हैं )
**प्रथम ऋषिकुमार—**तेजस्वी होते हुए भी इस राजा की आकृति से ही विश्वसनीयता =
पाठा०—१. दृष्टिकल्पं राजनि ।