अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 209, कुल 540 में से
संदर्भ में पढ़ेंतृतीयोग्ङ्कः १२७
शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ ४ ॥
( परिक्रम्यावलोक्य च ) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया तथा भवितव्यम् । तथा हि ( अधो विलोक्य )
बेलां = समयमिति उग्रातपवेलाम् = प्रखरातपवद् मध्यंदिनम्, प्रायेण लतावलयवत्सु = लतामण्डलमण्डितेषु मालिनीतीरेषु = मालिनीनदीतटभागेषु ससखीजना = आलिजन-सहिता शकुन्तला = गमयति = कृच्छ्रेणातिवाहयति । तत्रैव = तस्मिन्नेव स्थाने तावद् गच्छामि = व्रजामि ( परिक्रम्य = प्रदक्षिणं कृत्वा संस्पर्शं = स्पर्शसुखम् रूपयित्वा = नाटयित्वा ) अहो = आश्चर्यम् प्रकृष्टः = श्रेष्ठश्चासौ वातः = वायुः प्रवातः यद्वा प्रकृष्टे वातः यत्र स प्रवातः तेन सुभगः = रम्यः प्रवातसुभगः अयं = एषः उद्देशः = स्थानम् ।
अन्वयः—अरविन्दसुरभिः मालिनीतरङ्गाणां कणवाही पवनः अनङ्गतप्तैः अङ्गैः अविरलम् आलिङ्गितुं शक्यम्।
वायुस्पर्शसुखमनुभूय तस्य प्रदेशस्य वातसुभगत्वमुपपादयति—शक्यमिति। अरविन्दस्य = कमलस्य सुरभिः = गन्ध इव गन्धो यस्य सः यद्वा अरविन्दवत् सुरभिः अरविन्दसुरभिः = कमलसुगन्धिः, मालिन्याः नद्याः तरङ्गाणां = लहरीणां कणवाही—कणान् = लेशान् शीकरान् वहति तच्छीलः कणवाही पवनः = वायुः अनङ्गेन = कामेन तप्ताऽपि अनङ्गतप्ताः तैः अनङ्गतप्तैः = मदनसञ्जातसन्तापैः अङ्गैः = शरीरावयवैः अविरलम् = अवच्छिन्नं, निरन्तरम् आलिङ्गितुं = मया आश्लेषं कर्तुम् उपगूहितुम्, शक्यम् = योग्यम् । एतेनास्य प्रदेशस्य कामिजनसेवनयोग्यत्वं पवनस्य सुरभित्वं, मन्दत्वं, शीतलत्वं च ध्वनितम् ।
अयं भावः—विकसितसरोजसौरभं समादाय सुगन्धपरिपूर्णमालिनीतरङ्गजलकणं वहन् मन्दसञ्चारी पवनः अनङ्गतप्तानि ममाङ्गानि क्षणं सुखयतीति मया नूनं चलितुं योग्यः । अत्र समाहित-समासोक्ति-वृत्त्यनुप्रास-छेकानुप्रास-सङ्करालङ्काराः जातिश्चार्या ॥ ४ ॥
( परिक्रम्य = ईषद गत्वा, अवलोक्य दृष्ट्वा च ) अस्मिन् = अत्र वेतसैः = वानीरैः परिक्षिप्ते—आवृते लतानां = वल्लरीणां मण्डपे = विताने वेलबल्लीविरचितमण्डपे तया =
शीतल और सुगन्धित यह वन का पवन मुझे बहुत ही सुहावना लग रहा है। तथा इनके सेवन से काम सन्ताप सन्तप्त मेरे शरीर को एवं मन को भी यहाँ बड़ी शान्ति मिल रही है ॥ ४ ॥
विशेष—दुष्यन्त यह सोचकर कि यज्ञ रक्षा कार्य सम्भव हो जाने पर मुनियों की अनुमति पाकर परिश्रम से थके शरीर का क्लेश कहाँ दूर करूँ ? दीर्घ श्वास भर कर शकुन्तला के सिवा मेरा क्या शरण है ? जरा इसे ढूँढूँ, सूर्य को देखकर इस धूप के समय वह मालिनी तट पर लता-मण्डप में होगी। वहीं चलूँ। कामतापों से सन्तप्त पुरुषों के लिए शीतल, मन्द और सुगन्ध वायु अधिक सुखद प्रतीत होता है। यहाँ मालिनी तरंगों के सम्पर्क से वायु का शीतल कणवाही से मन्द तथा अरविन्द के स्पर्श से सुगन्धित प्रतीत होतो है। यद्यपि ऐसी हवा कामियों का उद्दीपक है, पर दुष्यन्त को यह सुखद प्रतीत हो रही है। इसलिए अपने मनोविनोद के लिए जाकर देखता है और अपनी भावना व्यक्त करता है।
पाठ०—१. तप्तैर्निर्दयमालिङ्गितुं ।