भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 211, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 211

तृतीयोऽङ्कः

१२९

( ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला )

सख्यौ—( उपवीज्य सस्नेहम् ) हला सउंदले अवि सुहेदि दे णलिणीपत्तवादो।

[ हला शकुन्तले अपि सुखयति ते नलिनीपत्रवातः ]।

**शकुन्तला—**किं वीअअंति मं सहीओ [ किं वीजयतो मां सख्यौ ]।

( सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः )


नेत्रनिर्वाणं = लोचनसुखम् नयनानन्दः लब्ध= प्राप्तम्। एषा = पुरःस्थिता मे = मम मनोरथ-प्रियतमा = सङ्कल्पप्रिया, कुसुमैः = पुष्पैः सह सकुसुमां सकुसुमम् आस्तरणं यत्र तत् सकुसुमास्तरणं यद्वा कुसुमानामास्तरणेन = उत्तरच्छदेन सहितं सकुसुमास्तरणं = पुष्पास्तीर्णम् कल्पिता पुष्पशय्या शिलायाः पदमिति शिलापदम् प्रशस्तां शिलां = शिलाफलकम् अधिशयाना = अधितिष्ठन्ती सखीभ्यां प्रियम्वदानसूयाभ्यां द्वाभ्यामालिभ्याम् अन्वास्यते = उपचर्यते = सेव्यते। भवतु = अस्तु लताव्यवहिता = लतामिव्यंवहित एव आसां = तिसृणां शकुन्तलानसूयाप्रियम्वदानाम्, विश्रम्भे = विश्वासे कथितानि = प्रोक्तानि भणितानि इति विश्रम्भकथितानि = निःशङ्कालापान् रहस्यवार्ताः शृणोमि = आकणर्यामि। ( इति = इत्थम् मनसि अभिधाय, विलोकयन् = अवलोकयन् स्थितः = उपविष्टः ) ।

अथ दुष्यन्तविषयकानुरागेण पीडयमानाया निदाघव्यपदेशेन मालिनीतटमण्डपोपविष्टायाः ससखीजनायाः शकुन्तलायाः प्रवेशमाह—तत इति।

( ततः = तदनन्तरं यथोक्तव्यापारा यथोक्तः = पूर्वोक्तः व्यापारः = कार्यं यस्याः सा यथोक्तव्यापारा = मदनबाधया शिलाफलकमधिशयाना शकुन्तला सखिभ्यां द्वाभ्यामालिभ्यामनसूयाप्रियम्बदाभ्याम् सह = साकं प्रविशति = रङ्गभूमौ दृश्यते )

सख्यौ—( उपवीज्य = व्यजनं दोलयित्वा स्नेहेन सहितं सस्नेहं = सप्रेम ) हे सखि। = शकुन्तले ! अपि = किम् नलिनीपत्रवातः = नलिन्याः = कमलिन्याः पत्रस्य = दलस्य वातः = पवनः ते = तव सुखयति = सुखमुत्पादयति।

शकुन्तला—हे सख्यौ = आली किं मां शकुन्तलां भवत्यौ वीजयतः = पवनं कुरुतः। किमर्थं मां वीजयतः, तापशान्तेरभावेन निष्फलमेतत्।

( सख्यौ = आली, प्रियम्वदानसूये विषादं = क्लेशानुभूति नाटयित्वा अभिनयेन प्रदर्श्य परस्परम् = अन्योन्यम् [ अनसूयाप्रियम्वदां प्रियम्वदां चानसूयाम् ] अवलोकयतः = पश्यतः )


दोनों सखियाँ इसके पास बैठी हुई हैं। अच्छा, मैं इस लता की आड़ में होकर इनके आपसी विश्वसनीय बातचीत को सुनूँ। ( उनकी ओर देखते हुये ठहर जाते हैं)।

( इसके पश्चात्, पूर्वोक्त अवस्था में दोनों सहेलियों के साथ शकुन्तला प्रवेश करती है )

दोनों सखियाँ—( कमल के पत्तों से हवा करके ) सखि शकुन्तले ! कमलिनी के पत्तों की हवा तुम्हें आराम तो दे रही है न ?

**शकुन्तला—**सखियों ! तुम लोग व्यर्थ इस कमलिनी के पत्ते से मुझे क्यों हवा कर रही हो, मुझे तो इससे कुछ भी शान्ति नहीं मालूम हो रही है।

( दोनों सखियाँ बड़े खेद के साथ निराशा भाव से परस्पर भाव से देखती हैं )

9 ९ शाकु०