भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 215, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 215

तृतीयोऽङ्कः १३३

राजा—अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वाभिप्रायेण मे दर्शनम् ।
शकुन्तला—( आत्मगतम् ) बलव खु मे अहिणिवेसो, दाणिं वि सहसा एदाणं ण सक्कणोमि णिवेदितुं [ बलवान्खलु मेऽभिनिवेशः । इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् । ]
प्रियंवदा—सहि सउंदले सुट्ठु एसा भणादि । किं अत्तणो आतंकं उवेक्खसि । अणुदिअह खु परिहीअसि अंगेहि । केवलं लावण्णमई छाआ तुमं ण मुचेदि [ सखि शकुन्तले, सुष्ठ्वेषा भणति । किमात्मन आतङ्कमुपेक्षसे । अनुदिवसं खलु परिहीयसे अङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति ।


प्रत्यक्षतो दृष्टः इति किमिदमिति निश्चेतुमावां न पारयाव इति भावः । तादृशीं कामिजनावस्थासदृशीं तव = भवत्या दशां पश्यामि = अवलोकयामि, कथय = वद किं निमित्तं = किं निदानं ते = तव सन्तापः = पीडा । खलु = यतः परमार्थतः = वस्तुतः विकारं = रोगकारणं अज्ञातवा = अविदित्वा प्रतीकारस्य = उपायस्य चिकित्सायाः अनारम्भः = उपक्रमो न सम्भवति । तदुक्तं 'व्याधेस्तत्त्वपरिज्ञानम्'

राजा— अनसूयोक्तं श्रुत्वा सन्तुष्यन् राजा स्वगतमाह—मदीयः तर्कः काममूलक एवायं सन्ताप इति विकल्पः, मम युक्तिः अनसूयामपि अनुगतः = अनुसरति । अनसूयाऽप्येवमेव तर्कयतीत्यर्थः । स्वाभिप्रायेण = स्वाभिप्रायनुसारि मे = मम कामिनः दर्शनं = ज्ञानं तर्क इति यावत् । कामिनामेवविधतर्कसम्भवेऽपि अकामिना जनेनापि एवमेव सम्भावनेति भावः । अनेन स्वतर्कस्य प्रामाणिकत्वावगमेन राज्ञो हर्षो द्योत्यते ।

शकुन्तला—(आत्मगतं = स्वगतम्) बलवान् = दृढः खलु = निश्चयेन मे = मम अभिनिवेशः = आग्रहः यत् इदानीम् = अस्मिन् काले, एतस्यामवस्थायामपि सहसा = अकस्मात् एतयोः = एताभ्यां निवेदयितुं = सूचयितुं न शक्नोमि = न पारयामि ।

प्रियम्बदा— अथ शकुन्तला लज्जमानां सम्भाव्य तस्या लज्जामपनेतुं तन्मुखाच्च कृत्स्नं वृत्तान्तं ज्ञातुं प्रयतमाना प्रियम्बदा प्राह—सखि = शकुन्तले ! एषा = अनसूया सुष्ठु भणति = सयुक्तिकं वदति किम् = केन कारणेन आत्मनः = स्वस्य आतङ्कं = रोगम् पीडाम् उपेक्षसे = उपेक्षां कुरुषे, अनुदिवसं = प्रतिदिनम् खलु = निश्चयेन अङ्गैः = अवयवैः परिहीयसे = प्रतिक्षणं क्षीणा भवसि, केवलं लावण्यमयी = लावण्ययुक्ता छाया = कान्तिः त्वां = भवतीं न मुञ्चति = न परित्यजति । उक्तं च कामकृतसन्तापेषु एव खलु ईदृशी दशा भवति नातपलङ्घने, तत्र लावण्यस्यापि विलयादिति भावः । लावण्यलक्षणं च —

'मुक्ताफलेषु छायायास्तरत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥'


राजा— अनसूया ने भी मेरा तर्क समझ लिया है। निश्चय ही मेरा अनुमान व्यक्तिगत अभिप्राय से प्रेरित नहीं है।

शकुन्तला—( मन ही मन ) सखि, यह सन्ताप बहुत बड़ा और गूढ़ है। अतः इसके कारण को सहसा मैं कहने में असमर्थ हूँ।

प्रियम्बदा— सखि शकुन्तले ! यह अनसूया ठीक कह रही है। अपने इस कष्ट के कारण को क्यों छिपा रही हो। देखो, प्रतिदिन तुम क्षीण होती जा रही हो। तुम्हारे शरीर में अब केवल लावण्य की छाया सौन्दर्यता ही अवशिष्ट है।