भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 217, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 217

तृतीयोऽङ्कः १३५

शकुन्तला—सहि कस्स वा अण्णस्स कहइस्सं । आआसइत्तिआ दाणिं वो भविस्सं [ सखि, कस्य वाऽन्यस्य कथयिष्यामि । आयासयित्रीदानीं वां भविष्यामि ] । उभे—अदो एव्व खु णिब्बंधो । सिणिद्धिजणसंविभत्तं हि दुक्खं सज्ज्वेयणं होदि [ अत एव खलु निर्बन्धः स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति ] । राजा

पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् । दृष्टो निवृत्य बहुशोऽप्यनया सतृष्ण- मत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥ ८ ॥


शकुन्तला—अथ लज्जमानापि शकुन्तला सख्योरनुरोधेन स्वस्यातङ्कहेतुं कथयितुमुपक्रमते—सखि ! = हे आलि ! कस्य वा अन्यस्य = युवाभ्यामपरस्य कथयिष्यामि = स्नेहविश्वासवत्योर्युवयोरावश्यमाख्यास्यामि यदि युवाभ्यां न कथयिष्यामि तर्हि कस्यै अन्यस्यै कथयिष्यामि, युष्मद्भिन्ना का मेऽन्तरङ्गभूतेत्याशयः इदानीं = मदातङ्कनिमित्तकथनकाले वां = युवयोः आयासयित्री = क्लेशदायिनी भविष्यामि = समसुखदुःखयोर्युवयोर्मत्पीडाश्रवणेन दुःखमेव भविष्यतीति भावः ।

उभेअत एव आवयोरायासः स्यादिति हेतोः खलु = निश्चयेन निबंधः = कारणकथनाग्रहः, हठः । स्निग्धजनेषु = स्नेहास्पदेषु सखीप्रभृतिषु संविभक्तं = विभागेन समर्पितम सह्यवेदनं = सह्या = सहनीया = वेदना = अनुभूतिः यस्य तत् सह्यवेदनं = मर्षणीयाघातम्, शिथिलं भवति = जायते । यथा कस्यापि भारवाहकस्य भारे तन्मित्रेणांशतो गृहीते तस्य भारोद्वहनदुःखं लघु भवति तथेति भावः ।

राजा—मन्निमित्त एवास्या अवस्थेति निश्चिन्वानो राजा दुष्यन्तः शङ्काकातरः सन् स्वयं विमृशति—पृष्टा जनेनेति ।

अन्वयः—इयं बाला समदुःखसुखेन जनेन पृष्टा ( सती ) मनोगतम् आधिहेतुं न वक्ष्यति न । अनया बहुशः निवृत्य सतृष्णं दृष्टोऽपि अत्रान्तरे श्रवणकातरतां गतः अस्मि ।

शकुन्तलाया आतङ्कनिमित्तमुद्दिश्य सख्योः प्रश्नमाकर्ण्य किमयमुत्तरयतीति शङ्कमानो राजा दुष्यन्तः स्वयमेव विमृशति—पृष्टा जनेनेति । इयं=एषा सखीभ्यामातङ्कहेतुं पृच्छ्यमाना बाला = षोडशवार्षिकी शकुन्तला दुःखं = क्लेशः सुखं = हर्षश्चेति समदुःखसुखे समे = तुल्ये दुःखसुखे = प्रतिकूलानुकूलवेदने यस्य तेन समदुःखसुखेन यद्वा समं तुल्यं


शकुन्तला—( लम्बी साँस लेकर ) हे सखियों ! तुम्हारे सिवाय मैं अपना कष्ट किससे कहूँगी, किन्तु इस सन्ताप के कारण को तुम लोगों से कहकर मैं तुम लोगों के कष्ट का ही कारण बनूँगी।

दोनों सखियाँ—हे सखि ! इसीलिये तो हम तुमसे पूरी पूरी बात करने का आग्रह कर रही हैं क्योंकि अपने स्नेही जनों को सुनाकर उनमें बाँट दिये जाने से दुःख भी कुछ सह्य हो जाता है और उसकी पीड़ा भी कुछ कम हो जाती है ।

राजा—यद्यपि अपने सुख और दुःख के साथी प्रियजनों से अनुरोध पूर्वक पूछे जाने पर यह बाला अपने मन की आधि = मानसी व्यथा को अवश्य बतायेगी । अतः इसमें मुझे आतुरता ही


पाठा०—१. विवृत्य ।