अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 218, कुल 540 में से
संदर्भ में पढ़ें| १३६ | अभिज्ञानशाकुन्तलम् |
|---|
शकुन्तला—सहि जदो पहुदि मम दंसणपहं आअदो सो तवोवणरक्खिदा रायसी तदो आरहिअ तग्गदेण अहिलासेण एतदवत्थम्हि संवृत्ता [ सखि, यतः प्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता ] ।
राजा—( सहर्षम् ) श्रुतं १श्रोतव्यम् ।
दुःखं सुखं यस्य तेन दुःखेषु सुखेषु च तुल्यमेव दुःखं सुख चानुभवता जनेन—सखीजनेन पृष्टा = अनुयुक्ता सती मनोगतं = हृदयकोणनिगूहितम् आधिहेतुं = मानसिकक्लेशकारणं न वक्ष्यति न = अवश्यमभिधास्यत्येव ( नञ् द्वौ प्रकृतार्थदार्ढ्यं बोधयतः ) अनया = शकुन्तलया बहुशः = अनेकवारम् भृशं विवृत्य = परावृत्य सतृष्णं = सामिलाषं दृष्टोऽपि = प्रेक्षितोऽपि कृतदर्शनोऽपि अहम् अत्रान्तरे = अस्मिन् अवकाशो सखीजनप्रश्न-शकुन्तला-प्रतिवचनयोर्मध्ये श्रवणकातरतां—श्रवणे = शकुन्तलोत्तरश्रवणे कातरतां = भीरुतां गतः = प्राप्तः अस्मि = भवामि । किमियमभिधास्यति = किंनिमित्तान्या पीडेति श्रवणे कातरोऽस्मीति भावः ।
अस्याः शकुन्तलाया आतङ्कनिमित्तमुद्दिश्य सखीभ्यां पृष्टा सतीयं किं कारणमभिधास्यतीति शङ्कया वाढमहं कातरः सञ्जातोऽस्मीति तात्पर्यम् । अत्र—काव्यलिङ्गवृत्त्यानुप्रासावलङ्कारौ वृत्तं च वसन्ततिलका ॥ ८ ॥
शकुन्तला—सखीभ्यामातङ्कहेतुं पृष्टा शकुन्तला उत्तरयति-सखि ! = हे सखि ! यतः प्रभृति = यत आरभ्य यस्मिन् क्षणे तपोवनस्य रक्षिता तपोवनरक्षिता आश्रमरक्षकः सः-वृक्षसेचनकाले मया दृष्टः राजर्षिः = दुष्यन्तः मम = मे शकुन्तलायाः दर्शनस्य पन्थाः दर्शनपथः तं दर्शनपथं = लोचनगोचरम् आगतः = प्राप्तः । तत आरभ्य = ततः प्रभृति तं गतः तद्गत, यद्वा स गतः = विषयो यस्य स तद्गतेन = दुष्यन्तविषयकेण अभिलाषेण मनोरथेन एषा = इयम् अवस्था = दशा यस्याः सा एतदवस्था = ईदृक्कामदशाविकला अहं संवृता जाताऽस्मि ।
राजा—शकुन्तलाया उत्तरमाकर्ण्य आत्मानं कृतार्थं मन्यमानो राजा दुष्यन्तः (सहर्षं-सानन्दम् ) श्रोतव्यं = श्रवणयोग्यं मदभिलषणीयं श्रुतम् = आकर्णितम् ।
क्या है ? यह ठीक है । परन्तु इसने मुझे बार-बार घूम-घूम कर बड़े ही अनुराग से अपने प्रेमपूर्ण सतृष्ण नेत्रों से देखा है । अतः मैं इसके उत्तर को सुनने के लिए उतावला इसलिए हो रहा हूँ कि देखें यह अपने सन्ताप का क्या कारण बताती है ? ॥ ८ ॥
शकुन्तला—जब से तपोवन के रक्षक वे राजर्षि मेरी दृष्टि में आ गये तभी से मैं उनपर आसक्त हो गई हूँ और उनके ही विरह में मेरी आज यह अवस्था हो रही है ।
राजा—( हर्षपूर्वक ) अहा, जिस बात को सुनने की मेरी इतनी व्याकुलता थी वही बात मैने आज सुन ली । ठीक है,
पाठा०—१. यच्छ्रोतव्यम् ।