अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 219, कुल 540 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः १३७
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः ।
दिवस ^१इवार्धश्यामस्तपात्यये जीवलोकस्य ॥ ९ ॥
शकुन्तला—तं जइ वो अणुमदं ता तह वट्टह जह तस्स राएसिणो अनुकंपणिज्जा होमि ; अण्णहा अवस्सं सिंचध मे तिलोदअं । [ तद्यदि वामनुमतं तदा तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि अन्यथाऽवश्यं सिञ्चतं मे तिलोदकम् ] ।
अन्वयः—तपात्यये जीवलोकस्य अर्धश्यामः दिवस इव मे स्मर एव तापहेतुः स एव निर्वापयिता जातः ।
अथ राजा दुष्यन्तो हर्षातिरेकाद् मदनमभिनन्दयन्नभिधत्ते—स्मर एव तापहेतुरिति । तापस्य = ग्रीष्मस्य अत्ययः = अवसानं यस्मिन् स तस्मिन् तपात्यये = निदाघावसाने प्रावृडारम्भे जीवलोकस्य = प्राणिवर्गस्य सम्बन्धे अर्धे = अपरार्धे श्यामः = कृष्णवर्णः सच्छायः इति अर्धश्यामः दिवसः = दिनम् इव यथा मे = मम दुष्यन्तस्य स्मरः = काम एव तापस्य = एतावत्पर्यन्तमनुभूतस्य आतङ्कस्य हेतुः = कारणमिति तापहेतुः शकुन्तलायामनुरागोत्पादनेनेत्यर्थः, स एव = स्मर एव निर्वापयिता = निर्वृतेः कारयिता, शकुन्तलाया अपि मयि अनुरागमुत्पाद्य तन्मुखात्तच्छ्रवणे शान्तिदायकः जातः = संवृत्तः । अहो मे सौभाग्यं यत् पूर्वं सन्तापकस्वभावोऽपि स्मरः प्रियानुरागप्रापणेन सम्प्रति मे सुखप्रदः सम्पन्नः । एवं च शकुन्तलाविषये पूर्वं ममानुरागमुत्पाद्य अत्यन्तमुद्वेजकोऽप्यसौ स्मरः इदानीं शकुन्तलामुखादेव तस्याः मय्यनुरागं मां श्रावयन् मयाह्लादजनको जात इत्याशयः ।
अयं भावः—शकुन्तलाविषये पूर्वं ममानुरागमुत्पाद्य मदनः पुनः तन्मुखादेव तस्या मयि अनुरागं संश्राव्य ममाह्लादको जातः । तस्मादस्यावस्था मदनकृतैव ।
अत्र पद्ये विरोधाभास-काव्यलिङ्ग-उपमा-वृत्त्यनुप्रासा अलङ्कारा आर्यावृत्तञ्च ॥९॥
शकुन्तला—ततः शकुन्तलास्वाभिलाषं दुष्पूरं सम्भावयन्ती अपि तत्तापप्रतिकाराय सखीजनं प्रार्थयते-तत् = तर्हि दुष्यन्तविषयकोऽभिलाषः यदि = चेत् वां = युवयोः अनुमतम् = अभीष्टम् तदा = तर्हि तथा = तेन प्रकारेण वर्तेथाः = प्रवर्तेथाः कुरुतम् यथा = येन प्रकारेण तस्य राजर्षेः = राज्ञो दुष्यन्तस्य अनुकम्पनीया = दयनीया, कृपापात्रं भवामि=
जिस कामदेव ने प्रिया के विरह में मुझे इतना सन्ताप पहुँचाया वही कामदेव अब मेरे सन्ताप को दूर करने वाला भी वैसा ही हो गया है जैसे ग्रीष्म ऋतु में गर्मी का सन्ताप देने वाला भी दिन ग्रीष्म के चले जाने पर वर्षा ऋतु में मेघों से आच्छन्न होकर प्राणियों के सन्ताप को दूर करने वाला हो जाता है ॥ ९ ॥
**विशेष—**अर्धश्याम का तात्पर्य है कि कुछ धूप और कुछ छाँह या दिनके पूर्व भाग में धूप और उत्तर भाग में छाँह । ग्रीष्म ऋतु में धूप होने से ताप होता है और पुनः बदली होने पर शान्ति मिलती है । वस्तुतः शकुन्तला और दुष्यन्त को भी ताप हेतु है ।
**शकुन्तला—**अतः हे सखियों, यदि तुम लोगों को भी जँचे तो ऐसा कोई उपाय करो जिससे मैं उस राजर्षि की दया-पात्र हो सकूँ । नहीं तो मैं अब उनके विरह में बच नहीं सकूँगी । मेरे मरने के बाद तुम लोग मुझे तिलाञ्जलि देना और मेरे लिए रोना, यही कार्य तुम्हारे लिए रह जायेगा ।
**विशेष—**शकुन्तला के कहने का तात्पर्य है कि मैं काम से इतनी सन्तप्त हो गई हूँ कि यदि वे
पाठा०--१. इवार्धश्यामस्तपस्यते ।