अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 243, कुल 540 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः १६१
मुहरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविकलवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ २२ ॥
क्व नु खलु संप्रति गच्छामि । अथवा इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि । ( सर्वतोऽवलोक्य )
प्रार्थितानां = मनोरथविषयीभूतानामर्थानां सिद्धयः = लाभा इति प्रार्थितार्थसिद्धयः अभिलषितार्थसम्पत्तयः, मया = अनेन हि = यतः । उक्तमर्थं स्ववृत्तान्तेन समर्थयति-मुहुरिति ।
अन्वयः—पक्ष्मलाक्ष्या अङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविकलवाभिरामं मुहरंशविवर्ति मुखं मया हि कथमपि उन्नमितं न तु चुम्बितम् ।
गौतम्यागमनेन विघ्नितमनोरथायाः शकुन्तलायाः ताभिः सह प्रस्थाने कृते भूयोऽपि तमेव शकुन्तलापरिभुक्तमुक्तं लतामण्डपमुपेत्य दीर्घं निःश्वस्य राजा दुष्यन्तः ब्रवीति—मुहुरिति । पक्ष्मले = प्रशस्तर रोमवती अक्षिणी = नयने यस्याः सा तस्याः पक्ष्मलाक्ष्याः = चारुनेत्रलोमललितलोचनायाः अङ्गुल्या = तर्जनीरूपया संवृतः = आच्छादितः अधरोष्ठः = अधरो यत्र तत् अङ्गुलिसंवृताधरोष्ठम् = तर्जनीसमाच्छादिताधरोष्ठम् प्रतिषेधाक्षराणि = निषेधबोधकानि = मा मा अलमित्यादीनि तेषां प्रतिषेधाक्षराणां विक्लवेन = वैक्लव्येन स्फुटमनुच्चारणेन अभिरामं = सुन्दरमिति प्रतिषेधाक्षरविकलवाभिरामम् = नहि नहि-मा-मा अलमित्याद्याक्षरस्फुटोच्चारणमनोरमम् मुहुः = वारं वारम् अंसविवर्ति = अंसयोः = स्कन्धयोः विवर्तितुं = निर्वातितुं शीलं यस्य तत् अंसविवर्ति स्कन्धापरावर्तनशीलम्, मुखम् = आननम् । मया = दुष्यन्तेन कथमपि = अतिकृच्छ्रेण, बलात्कारद्यात्मकेन प्रयत्नातिरेकेण उन्नमितं = चुम्बनार्थमूर्ध्वीकृतम्, तु = किन्तु यथेच्छं न चुम्बितं = गौतमोसमा-गमादेव अधरस्वादो न लब्धः ।
अर्थ भावः—कथञ्चित् सौभाग्योग्दयेन स्वभावमोरुः एषा प्रिया शकुन्तला रहसि समधिगता बहुभिः प्रयत्नैपि लज्जापसारणं विधाय तदधररसं परिपातुकामस्य ममाभिप्रायं विज्ञाय तर्जन्या स्वाधरोष्ठमाच्छाद्य मा-मा-नहि-नहि-अलमलमिति प्रतिषेधयन्त्याः तस्या विवर्तनशीलं मुखमुत्थाप्य चुम्बितुमारब्धं, परं गौतम्या आगमनेन तस्य रसास्वादावसरो न लब्धः । अत्र स्वभावोक्ति-काव्यलिङ्ग-श्रुतिवृत्यनुप्रासा अलङ्कारा मालमरिणी वृत्तं च ।२२।
इत्थं विरहोत्कण्ठितो राजा स्वमनोविनोदोपायं विमृशन्नाह—क्व = कुत्र नु खलु सम्प्रति = प्रियाविरहितः सन् अधुना गच्छामि = यामि, भूयः स्वकर्तव्यं निश्चिन्वानो राजा प्राह—अथवा = यद्वा इहैव = अत्रैव आदौ प्रियया परिभुक्तः = सेवितश्च पश्चात् = तदनन्तरं प्रियापरिभुक्तमुक्ते = प्रियया शकुन्तलया परिभुक्ते मुक्ते च लतावलये—वल्लरीमण्डपे मुहूर्तं क्षणं स्थास्यामि = उपवेक्ष्यामि ( सर्वतः = सर्वत्र, अवलोक्य = दृष्ट्वा )।
सुन्दर नेत्र वाली अपनी प्यारी की अंगुलियों से ढके नहीं, नहीं, बस, बस रहने दो, जाने दो इत्यादि मधुर अक्षरों से और घबराहट से युक्त पीछे की ओर घुमाए मुख को किसी तरह उठाकर भी मैं वारम्बार चुम्बन नहीं कर सका ॥ २२ ॥
अब मैं क्या करूँ ? या अपनी प्रिया के संभोग संपर्क से मनोहर सुखद लता-गृह में ही थोड़ी देर बैठूँ ( चारों ओर देखकर ) ।
११ शाकु०