अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 242, कुल 540 में से
संदर्भ में पढ़ें| १६० | अभिज्ञानशाकुन्तलम् |
|---|
शकुन्तला— ( आत्मगतम् ) हिअअ पढमं एव्व सुहोवणदे मणोरहे कादरभावं ण मुंचसि। साणुसअविहडिअस्स कहं दे संपदं संदावो। ( पदान्तरे स्थित्वा प्रकाशम् ) लदावलअ संदावहारअ आमंतेमि तुमं भूओ वि परिभोअस्स [ हृदय ! प्रथममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि। सानुशयविघटितस्य कथं ते सांप्रतं संतापः ? लतावलय ! संतापहारक ! आमन्त्रये त्वां भूयोऽपि परिभोगाय ]। ( इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः )।
राजा— ( पूर्वस्थानमुपेत्य सनिःश्वासम् ) अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः। मया हि—
शकुन्तलामस्तके कूर्चेन जलविन्दून् अभिषिञ्च्य संगमथ्य ) वत्से ! = पुत्रि ! परिणतः = अस्तं गतः दिवसः = दिनम्, एहि = मया सह आगच्छ उटजं = पर्णशालामेव गच्छामः = यामः इति = एतत्कथनानन्तरम् प्रस्थिताः ताः प्रचलिताः।
शकुन्तला—( आत्मगतं = स्वगतम् ) अथ गौतम्या सखीभ्यां च सह प्रस्थिता शकुन्तला प्रियविरहातुरा तदाख्ये परिचुम्बनादौ आत्मनः प्रतिकूलाचरणं स्मरन्ती सोत्कण्ठा पश्चात्तापपरवशा च सती स्वगतं स्वहृदयमुपालभते — हृदय इति। हृदये ! प्रथममेव गौतम्यागमनात् पूर्वमेव सुखेन उपनते सुखोपनते = अनायासप्राप्ते मनोरथे = अभिलाषे मनोरथविषये प्रियतमं तत्कर्तृ चुम्बनादौ साध्वसं न मुञ्चसि = न त्यजसि। सानुशयविघटितस्य-सानुशयस्य = पश्चात्तापसहितस्य अत एव विघटितस्य = वियोजितस्य कथं = किमर्थं व्यर्थं साम्प्रतं = इदानीम् ते = तव सन्तापः = पीडा ( पदान्तरे स्थित्वा प्रकाशम् ) अथ विरहविधुरा शकुन्तला पुनरपि प्रियतममावर्जयन्ती प्रच्छन्नं तं प्रियतमं सन्तापहारकुलतापदेशेन ब्रवीति-सन्तापहारक ! लतावलय ! इति। लतावलय !—लतानां = वल्लरीणां वलयः = मण्डलः तत्सम्बुद्धौ हे लतावलय ! लतागृहसन्निहितप्रियतम ! संतापहारक। = संतापमयं हरतीति संतापहारकः तत्सम्बुद्धौ हे संतापहारक ! = कामसन्तापहारिन् ! त्वां = भवन्तं भूयः = पुनरपि परिभोगाय सुखाय आमन्त्रये = संभोगार्थं प्रार्थये त्वया मम कामजसन्तापहरणार्थं पुनरप्यत्रागन्तव्यमिति भावः। इति = एवमुक्त्वा दुःखेन = क्लेशेन इतराभिः = अन्याभिः गौतमीप्रियंवदानसूयाभिः साकं निष्क्रान्ता = निर्गता।
**राजा—**अथ नायकस्य राज्ञो दुष्यन्तस्य पूर्वप्रसक्तं विप्रलम्भमवतारयति—पूर्वस्थानमिति— ( पूर्वस्थानं = पूर्वं = प्रथमं मिलनकालिकं च तत् स्थानं = भूमिम् प्रियया शकुन्तलया परिभुक्तं लतामण्डपं उपेत्य उपगम्य विश्वासेन सह सनिःश्वासं दीर्घं निश्वस्य ) अहो, हन्त ! विघ्नवत्यः = विघ्नबहुलाः गौतमीप्राप्त्या प्रियाविप्रलम्भात् सान्तरायाः
शकुन्तला—( मन ही मन ) हृदय, मनोरथ, दुष्यन्त के आसानी से मिल जाने पर पहली बार भी डर नहीं छोड़ा, अब पश्चाताप सहित अलग हुए तुम्हारा संताप कैसा ( अगले कदम पर ठहर कर, प्रगट में ) सन्ताप दूर करने वाले लता मण्डप ! पुनः सुख भोग के लिए तुम से विदा लेती हूँ। ( शकुन्तला दुःखपूर्वक उन स्त्रियों के साथ बाहर चली जाती है )
**विशेष—**यह बात लतापरक और दुष्यन्तपरक है।
राजा—( पूर्व स्थान पर पहुँच लम्बी साँस लेकर ) हाय, मनोरथ की सिद्धियाँ भी विघ्न से भरी हुई होती हैं क्योंकि देखो --