भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 244, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 244

१६२ | अभिज्ञानशाकुन्तलम्

तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः । हस्ताद् भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥ २३ ॥

( आकाशे ) राजन् !


अन्वयः—शिलायां पुष्पमयी शरीरलुलिता इयं तस्याः शय्या ( अस्ति ) नलिनीपत्रे नखैः अर्पितः क्लान्तः एषः ( तस्याः ) मदनलेखः । हस्ताद् भ्रष्टम् इदं ( तस्या एव ) विसाभरणं इति आसज्जमानेक्षणः ( अहम् ) शून्यादपि वेतसगृहात् सहसा निर्गन्तुं न शक्नोमि ।

प्रियापरिभुक्तमुक्ते लतामण्डपे परितो दत्तदृष्टिः राजा दुष्यन्तः स्वमनसि विमृशति— तस्या इति । शिलायां = शिलाफलके पुष्पमयी = सुमनप्रचुरा, कुसुमनिर्मिता, ननु पल्लवमयी तस्याः ततोऽपि मृदुलत्वात् शरीरलुलिता = देहपरिवर्तनेन मृदिता इयं = एषा पुरोदृश्यमाना तस्याः = शकुन्तलायाः शय्या = तल्पम् अस्ति । नलिनीपत्रे = पद्मिनीदले नखैः = नखरैः अर्पितः = लिखितः, तदनुरागसूचकः अङ्कितः, क्लान्तः = मलिनः एषः = अयम् तस्या एव मन्मथलेखः = स्वप्रणयसूचकः कामलेखः हस्तात् = कामाग्निसन्तापशोषेण क्षामात् = करात् भ्रष्टं = गलितं, च्युतम्, इदम् = एतत् तस्या एव विसाभरणं मृणालवलयं कमलऩालभूषणम् दृश्यते इति, एवं कृत्वा आसज्जमानेक्षणः = आसज्यमाने सम्बध्यमाने ईक्षणे = नेत्रे यस्य स आवध्यमानेक्षणः = संसक्तलोचनयुगलः अहम् शून्यात् प्रियाविरहितात् वेतसगृहात् = वेतसलतामण्डपात् सहसा = सद्यः निर्गन्तुं = बहिः प्रयातुं न शक्नोमि = न पारयामि-प्रियापरिधानि आभरणादीनि निरीक्षमाणोऽहं नास्माद्वानीरकुञ्जाद्बहिर्गन्तुं समर्थोऽस्मीति भावः ।

**अयं भावः—**शिलाफलके मदनानलसन्तप्तशरीरस्य परिवर्त्तनेन मृदितेयं पुष्पमयी शय्या दृश्यते, तया शकुन्तलया मामुद्दिश्य स्वप्रेमप्रकाशनाय पद्मिनीदले नखैः शोभनाक्षरैः अङ्कितः करस्पर्शात् म्लानो मदनलेखश्च मन्नयने समाकर्षति, अपि च कामकृतया बाधया दुर्बलाङ्ग्याः तस्या हस्ताच्च्युतं मृणालवलयं च विद्यते । एतेन सर्वेणाकृष्यमाणहृदयोऽहं साम्प्रतं प्रियाविरहितात् तस्मात् लतामण्डपात् बहिर्निर्यातुं न शक्नोमि । अत्र विभावना-सन्देहसङ्कर-काव्यलिङ्गालङ्कारा शार्दूलविक्रीडितं च छन्दः ॥ २३ ॥

नाटकनायकस्य राज्ञो दुष्यन्तस्य गमनावसरसम्पादनार्थं रसान्तरप्रवेशमवतारयितुमुपक्रमते कविः—आकाशे = व्योम्नि क्वचन नेपथ्ये इति पाठे तु यवनिकायामिति बोध्यम् । हे राजन् ! इति पात्रप्रवेशार्थं सम्बोधनं मुनिशिष्योक्तिर्बोद्धव्या ।


इधर तो इस शिला-फलक पर यह मेरी प्रिया के शरीर से दबी हुई परिम्लान पुष्पों की शय्या दीख रही है और इधर कमलिनी के पत्ते पर लिखा काम बाधा सूचक उसका प्रेमपत्र पड़ा है, उधर उसके हाथ से खिसक कर गिरा हुआ यह मृणालवलय = कमलकङ्कण पड़ा है। इस प्रकार यहाँ चारों तरफ मेरी दृष्टि आकृष्ट होकर अटक रही है। इसलिए प्रियारहित इस वेतसलतागृह से भी सहसा अन्यत्र जाने में सर्वथा असमर्थ हो रहा हूँ ॥ २३ ॥

**विशेष—**यहाँ कवि ने कामियों के मानसिक भाव को व्यक्त किया है ।