अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 245, कुल 540 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । १६३
सायंतने सवनकर्मणि संप्रवृत्ते वेदीं हुताशनवतीं परितः प्रयस्ताः।
छायाश्चरन्ति बहुधा भयमादधानाः संध्यापयोदकपिशाः पिशिताशनानाम् ॥२४॥
राजा— ( आकर्ण्य सावष्टम्भम् ) भो भोस्तपस्विनः ! मा भैष्ट मा भैष्ट, अयमयमागच्छामि । ( इति निष्क्रान्तः )
इति तृतीयोऽङ्कः ।
**अन्वयः—**सायंतने सवनकर्मणि संप्रवृत्ते ( सति ) हुताशनवतीं वेदीं परितः प्रयस्ताः भयमादधानाः सन्ध्यापयोदकपिशाः पिशिताशनानां छाया बहुधा चरन्ति ।
मुनीनां यज्ञशालासु सायङ्कालीनोमवावसरे हव्यद्रव्यगन्धमाघ्राय समागतानां राक्षसानां बद्धपङ्क्तीश्छाया अवलोक्य मुनयः ससम्भ्रमराजानं निवेदयन्ति—सायन्तने इति । सायंभवे सायन्तने = सायं निवर्तनीये सन्ध्याकालीने सवनकर्मणि = यज्ञकार्ये संप्रवृत्ते = अस्माकं रक्षको राजा दुष्यन्तः सन्निहितोऽस्तीति बुद्ध्या निर्भयं सम्यगारब्धे हुतं = हव्यम् अशनं = भोजनं यस्यासौ हुताशनोऽग्निः सोऽस्तीति हुताशनवती तां हुताशनवतीम् = वैश्वानरवतीम् वेदीं = यज्ञवेदीम् परितः = सर्वतः, वेद्याः समन्तात् प्रयस्ताः इतस्तत विक्षिप्ताः भयं = साध्वसं आदधानाः = आमीक्ष्ण्येनोत्पादयन्त्यः पिशितं = रुधिरं अशनं भोजनं येषां ते तेषां पिशिताशनानां = मांसाशिनां राक्षसां सन्ध्यायाः = सायं-कालस्य पयोदाः = वारिदाः तद्वत् कपिशाः = आरक्ताः धूम्रवर्णा इति सन्ध्यापयोदकपिशाः सायङ्कालिकमेघपुञ्जवद्दधूम्रवर्णा छायाः = पङ्क्तयः बहुधा = बहुप्रकारः नैकविधाः वारं बारं चरन्ति = भ्रमन्ति, गतागतं कुर्वन्ति ।
**अयं भावः—**राजन् ! अस्माकं संरक्षको भवान् सन्निहित एवास्तीति मत्वा अस्माभिः सान्ध्यकालीनो होमः समारब्धः तत्र हुताज्यचारुगन्धमाघ्राय उपस्थिता भयङ्कराकारा रक्तश्मश्रुकेशा अस्मान् भीषयन्तो बद्धश्रेणयो राक्षसाः यज्ञवेदीः समन्तात् गतागतं कुर्वन्ति । अतः शीघ्रतरं भवता तत्प्रतिकारः करणीयः, नो चेद्विलम्बे यज्ञहान्या राजधर्म-विलोपो भवेत् । अत्रोपमा-काव्यलिङ्ग-छेकानुप्रासवृत्यनुप्रासालङ्काराः वसन्ततिलका-छन्दश्च ॥ २४ ॥
**राजा—**राजा दुष्यन्तो नेपथ्ये यज्ञकर्मणि राक्षसानां भयावहं वृत्तमाकर्ण्य सावष्टम्भं संवेगमाह—भो भो तपस्विनो मा भैष्ट = युष्माभिः भय न कार्यम् अयमहमागच्छामि, अयं = एषोऽहं महेन्द्रादीनामपि साहाय्यकारी दुष्यन्तः अहम् = इदानीमेव भवतां यज्ञरक्षायै द्रागेव आगच्छामि, आगच्छामीत्यनेन ममागमनमेव प्रतिविधानो विलम्बः मय्युपस्थिते
( आकाश में ) अहो राजन् ! सावधान सावधान देखो देखो हमारे यज्ञ के सायंकालिक हवन का अनुष्ठान प्रारम्भ होते ही यज्ञाग्नि से सुशोभित वेदी के चारों ओर फैली हुई भय देने वाली सायंकालिक मेघों की घटा के समान काली-पीली मांसभोजी राक्षसों की ये छाया दिखाई पड़ रही हैं ॥ २४ ॥
राजा—( सुनकर बड़े गर्व और धैर्य के साथ ) अरे तपस्वियों, डरो मत, डरो मत, आपके यज्ञ की रक्षा के निमित्त मैं यह आया, ( यह कहकर बाहर निकल जाते हैं ) ।
**विशेष—**राक्षसों का भय विशेष कर रात में ही होता है । इसलिए सन्ध्या होते ही यज्ञ के