भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 255, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 255

चतुर्थोऽङ्कः १७३

^१विष्कम्भः ।
( ततः प्रविशति सुप्तोत्थितः शिष्यः )
शिष्यः--वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति । (परिक्रम्यावलोक्य च) हन्त प्रभातम् । तथा हि—

यात्येकतोऽस्तशिखरं पतिरोषधीना-
माविष्कृतोऽरुणपुरःसर एकतोऽर्कः ।


उष्णोदकेन नवमालिकायाः सेचनमिव शकुन्तलाया एतद्वृत्तान्तनिवेदनमिति को वा सचेता तत् कुर्यात् । एतेन तां प्रति शापकथनमत्यन्तममुचितमिति आविष्कृतः । अतस्त्वया न भेत्तव्यम् । इति भावः ।

अथ कुलपतेः कण्वस्य प्रवासात् प्रत्यागमनं सूचयितुं शिष्यस्य प्रवेशमाह—( ततः = सखीद्वयनिर्गमनानन्तरं सुप्तं = स्वापः तस्मादुत्थितः सुप्तोत्थितः यद्वा आदौ सुप्तः पश्चादुत्थित इति सुप्तोत्थितः = स्वापानन्तरं प्रबुद्धः गुरुशुश्रूषां निर्वत्यं तदादेशेन नक्षत्रनिरीक्षणाय निर्गतः निद्रा निर्घूर्णितलोचनः शिष्यः = कण्वस्यान्तेवासी प्रविशति = रङ्गमञ्चे दृश्यते ) ।

शिष्यः--प्रविशत्यस्मिन्निति प्रवासो विदेशः तस्मात् प्रवासात् = यात्रतः प्रतिनिवृत्तेन = उपावृत्तेन सोमतीर्थात् आगतेन तत्रभवता = पूज्येन काश्यपेन = कश्यपगोत्रोत्पन्नेन कुलपतिना वेलायाः = समयस्य उपलक्षणार्थं = नक्षत्रैरुपलक्ष्यज्ञानार्थं = समयपरिज्ञानार्थम् आदिष्टः = आज्ञापितोऽस्मि । प्रकाशं = वृक्षादिना अनावृतं निरावरणं प्रदेशं निर्गतः = निष्क्रान्तः आवरणरहिते स्थाने स्थितः तावत् अवलोकयामि = अवगच्छामि, पश्यामि यत् रजन्याः = रात्र्याः कियत् = किंपरिमाणम् अवशिष्टं = निशाया कियान् भागः अवशिष्टः, इति ( परिक्रम्य = किञ्चिच्चलित्वा अवलोक्य = दृष्ट्वा ) हन्त = खेदे अहो, प्रभातं-प्रकृष्टं मातम् = अवलोको यस्मिन्निति प्रभातम् = प्रातर्जातम् ।

अन्वयः—एकतः ओषधीनां पतिः अस्तशिखरं याति एकतः अरुणपुरःसरः अर्कः आविष्कृतः : लोकः तेजोद्वयस्य युगपत् व्यसनोदयाभ्याम् आत्मदशान्तरेषु नियम्यते इव ।

सोमतीर्थयात्रतः प्रतिनिवृत्य समयज्ञानार्थमादिष्टः कुलपते कण्वस्य शिष्यः गगन-


दोनों बराबर है, क्योंकि नेवारी अत्यन्त कोमल होती है। अतः उसके पौधे में गरम पानी से सींचने मे वह तत्काल मुर्झा जाती है। इसी प्रकार स्वभावतः सुकुमारी शकुन्तला भी शाप की बात को सुनकर व्याकुल हो जायेगी तथा संभवतः प्राणत्याग भी कर सकती हैं। इसलिए दोनों सखियों ने शाप की बात को अपने तक ही सीमित रखा ।

विष्कम्भ = इधर-उधर की बातों की आवश्यक सूचना देना भूत शकुन्तला परिणय और भावी दुर्वासा के शाप की सूचना देने के कारण यह विष्कम्भ नानार्थोपेक्षेपक तथा शुद्ध है ।

( इसके बाद सोकर उठे हुए कण्व के शिष्य का प्रवेश )

शिष्य—प्रवास = यात्रा से लौटकर आये हुए कुलपति गुरुवर जी मुझे समय जानने के लिए आज्ञा दी है ? अतः बाहर निकल कर देखूँ कि रात कितनी बाकी है ? ( कुछ चल कर आकाश की ओर देख कर ) ओह, रात तो बीत चुकी है, अब सबेरा होना ही चाहता हैं, क्योंकि देखो—

एक ओर पश्चिम में तो ओषधियों के पोषक स्वामी भगवान् चन्द्रमा अस्ताचल पर जा रहे हैं


पाठ०—१. प्रवेशकः ।