अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 269, कुल 540 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः १८७
प्रियंवदा—( शकुन्तलां विलोक्य ) हला इमाए अब्भुववत्तीए सुइया दे भत्तुणो गेहे अणुहोदव्वा राअलच्छित्ति [ हला अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीरिति ] । ( शकुन्तला व्रीडां रूपयति ) ।
पाण्डु इन्दुवत = चन्द्रवत् पाण्डु श्वेतं चन्द्रधवलम् माङ्गल्यं मङ्गले = मङ्गलकर्मणि साधु मङ्गलप्रयोजकम् शुभकर्मयोग्यं क्षौमं = अंशुकम् आविष्कृतम् = प्रकटीकृतं, दत्तम् केनचित् = केनापि तरुणा च चरणोपमोगसुलभः-चरणयोः पादयोः उपभोगे = रञ्जनादौ सुलभः = योग्य इति चरणोपमोगसुलभः = चरणलेपनमनोहरः लाक्षारसः = आलक्तकद्रवः निष्छ्यूतः = उद्गीर्णः आविष्कृतो दत्तः । अन्येभ्यः = अन्यतरुभ्यः वनदेवताधिष्ठितेभ्यो वृक्षान्तरेभ्यः सकाशात् तेषां किसलयाः पल्लवा इति तत्किसलयाः तेषामुद्भेदा तत्किस-लयोद्भेदा तेषां प्रतिद्वन्द्विभिः प्रतिस्पर्धिभिरिति तत्किसलयोद्भेदप्रतिद्वन्द्विभिः = तत्पल्लव-शोभानुकारिभिः पर्वणः करमूलस्य भागः = अंशः पर्वभागप्रदेशः तं मर्यादीकृत्य आपर्वभागम् उत्थितैः = उच्छ्रितैरिति आपर्वभागोत्थितैः = मणिबन्धपर्यन्तं बहिर्निःसृतैः वनदेवताधिष्ठात्रीणां करतलैः उत्तानैरालोहितैर्हस्तैरिति वनदेवताकरतलैः = वनदेवता-पाणितलैः आभरणानि = मुक्तारत्नाद्यलङ्काराणि दत्तानि = आवयोर्हस्ते समर्पितानि न तु भूमौ पतितानि तेषां परिधानायोग्यत्वात् ।
अयं भावः—महर्षेः कण्वस्य निदेशवर्तिना केनचिद् वृक्षेण चन्द्रधवलं पदांशुकं दत्तम् । केनचिद् स्त्रीणां चरणरञ्जनोपयुक्तं लाक्षाद्रव उद्गीर्णः तथा अपरेभ्यो पल्लव-रागाताम्रेभ्यः वनदेवताकरतलेभ्यः विभिन्नानि महर्घाणि रत्नानि अस्मद्धस्ते समागतानि, तस्मादाचिन्त्यः खलु गुरोः कुलपतेः तपःप्रभावातिशयः ।
अत्रोपमानुप्रासार्थापत्ति-स्वभावोक्ति हेत्वलङ्काराः शार्दूलविक्रीडितं छन्दश्च ॥ ४ ॥
प्रियंवदा—शकुन्तलां विलोक्य समुचिताभरणलाभे खेदं परिहरन्ती सहर्षमाह—हे सखि शकुन्तले ! अनया = एतया पूर्वोक्त्या अभ्युपपत्त्या = वनदेवताभ्यो वृक्षेभ्यश्च स्वतः प्राप्त्या अनुग्रहेण ते = तव भर्तुः = पत्युः गेहे = गृहे अनुभवितव्या = भोक्तव्या राजलक्ष्मीः = महाराज्ञीपदप्रतिष्ठं महादेवीपदप्राप्तिरूपा वा सूचिता भवति ।
( शकुन्तला व्रीडां = लज्जां रूपयति = नाटयति )
पैरों में लगाने के निमित्त महावर दिया और किसी वृक्ष से वनदेवताओं ने कलाई तक पल्लवों के समान कोमल हाथ बाहर निकाल कर हमे नाना प्रकार के वे आभूषण भी दिये हैं ॥ ४ ॥
विशेष—माङ्गलिक रेशमीवस्त्र, विवाह, विदाई आदि के अवसर पर धारण किये जाते हैं। ब्रह्मचारी लोग शकुन्तला के लिए तपोवन के वृक्षों से गहने माँगने गये थे, किन्तु वनदेवियों ने भी शकुन्तला के प्रेम तथा महर्षिकण्व के प्रभाव से प्रसन्न होकर स्वयं ही गहने देने लगीं । वनदेवियाँ तो नहीं दीख पड़ीं, परन्तु कलाई से हथेली तक नये-नये पल्लवों के समान लाल लाल उनके हाथ दिखाई पड़े। इस प्रकार उस तपोवन के वृक्षों ने तो शकुन्तला के निमित्त तत्तत् वस्तुएँ तो दीं ही, पर वनदेवियों ने भी शकुन्तला के स्नेहवश रत्नजटित अमूल्य विभिन्न आभूषण दिये ।
प्रियम्बदा—( शकुन्तला को देखकर ) हे सखि ! इस कृपा से तुम्हारे द्वारा ससुराल में राजलक्ष्मी का उपयोग करने की सूचना मिलती है। ( शकुन्तला लज्जा का अभिनय करती है)