भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 275, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 275

चतुर्थोऽङ्कः | १९३

प्रतिष्ठस्वेदानीम् । ( सहदृष्टिक्षेपम् ) क्व ते शार्ङ्गरवशारद्वतमिश्राः ?
( प्रविश्य )
शिष्यः—भगवन् इमे स्मः ।
कण्वः—भगिन्यास्ते मार्गमादेशय ।
शार्ङ्गरवः—इत इतो भवती ( सर्वे परिक्रामन्ति )


पत्युः गेहं गच्छन्तीं शकुन्तलां यज्ञाग्निप्रदक्षिणीकरणे नियुज्य तदभीष्टसिद्धये शुभाशंसनं कुरुते—अमीति । वेदिं = वेदिकाम्, परितः = सर्वतः, यज्ञवेद्याः समन्तात् क्लृप्तधिष्ण्या क्लृप्तानि रचितानि धिष्ण्यानि स्थानानि येषां ते क्लृप्तधिष्ण्याः = रचितनिवासाः प्रथमाधानसमये एव त्रिधाकल्पितस्थानाः अथवा प्रतिदिनं होमान्तरमेकीभूताः पुनर्होमसमये पृथक् कल्पिताः समिद्वन्तः—समिधः = यज्ञकाष्ठानि सन्ति येषां ते समिद्वन्तः = ज्वलितसमिधः प्रान्तेषु = पार्श्वेषु संस्तीर्णाः = आस्तृता दर्भाः = कुशा येषां ते प्रान्तसंस्तीर्णदर्भाः = पर्यन्तनिविष्टकुशाः हव्यस्य = हुतद्रव्यस्य गन्धैः परिमलैः हव्यगन्धैः = दन्दह्यमानसमिदाज्यचर्वा दिसुरभिगन्धैः दुरितं = पापम् अपघ्नतः = नाशयन्तः अमी = इमे पुरतो दृश्यमानाः वितानस्य इमे वैतानाः = यज्ञसम्बन्धिनः वह्नयः = दक्षिणाग्निगार्हपत्याहवनीयाख्याः त्रयोऽग्नयः त्वां = भवतीं शकुन्तलां पावयन्तु = पवित्राशया कुर्वन्तु ।

अयम्भावः—पतिगेहं गच्छन्तीं शकुन्तलां सम्बोध्य महर्षिः कण्वोऽभिधत्ते—प्रज्वलितसमिधः प्रकाशमाना हुताज्यादिसुगन्धि जिघ्रतां पुंसां पापानि दूरयन्तः एते त्रयोऽग्नयः मनोवृत्तिशोधनद्वारा त्वां पुनन्तु = पालयन्तु च ।

इदानीं = सांप्रतं प्रतिष्ठस्व मुहूर्तोऽतिक्रामति, विलम्बो न कार्य इत्यर्थः ( सहदृष्टिक्षेपं = तस्मिन् प्रदेशे शिष्योपस्थितिसंभावनया तानवलोकयितुं चतुर्दिक्षु दृष्टिप्रदक्षिणं कृत्वा ) कृते = पूर्वमादिष्टाः शार्ङ्गरवमिश्राः = श्रेष्ठाः शार्ङ्गरवाः क्व = कुत्र सन्ति ?

( प्रविश्य = उपस्थाय )

शिष्यः—भगवन् ! = श्रीमन् ! इमे स्मः = अत्र उपस्थिताः स्मः ।

काश्यपः—कुलपतिः कण्व आदिशति—ते = तव भगिन्याः धर्मभगिन्याः स्वसुः शकुन्तलायाः मार्गं = पन्थानं, आदेशय = अनेन पथा भवती आगच्छत्विति निर्दिश, दर्शयेति भावः ।

शार्ङ्गरवः—इतः इतो भवती = हे भवति = हे श्रीमत्ति ! इतः इतः = अनेन पथा त्वमायाहि । ( सर्वे = सकलाः परिक्रामन्ति = परिभ्रमन्ति )


ऐसे हवनीय द्रव्य आज्यादि के गन्धों से युक्त अपनी सुगन्ध से पापों को नष्ट करने वाले तीनों अग्नयाँ तुम्हारे विघ्नों को दूर करें ॥ ७ ॥

( शकुन्तला तीनों अग्नियों की प्रदक्षिणा करती है )

पुत्रि ! अब तू मङ्गल प्रस्थान कर ( इधर-उधर देखकर ) वैदिक विद्वान् शार्ङ्गरवमिश्र तथा शारद्वतमिश्र कहाँ हैं।

शिष्य—( प्रवेश कर ) हे भगवन ! हमलोग उपस्थित हैं।
कण्व—वत्स, तुम दोनों अपनी बहन शकुन्तला को मार्ग दिखा कर हस्तिनापुर ले जाओ।
शार्ङ्गरव—हे भगवति ! इधर से आओ, इधर से ( सभी घूमते हैं )


13
१३ शाकु०
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित) · पृष्ठ 275, कुल 540 में से · BharatKosha