अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 283, कुल 540 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः / २०१
कण्वः—नेदं विस्मरिष्यामः।
शकुन्तला—( गतिभङ्गं रूपयित्वा ) को णु खु एसो णिवसणे मे सज्जइ [ को नु खल्वेष निवसेने मे सज्जते ] ( इति परावर्तते )
कण्वः—वत्से !
यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसूचिविद्धे।
श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥१३॥
उटजपर्यन्तचारिणी, उटजपर्यन्ते = पर्णशालासंगीथे चरति तच्छीलेति उटजपर्यन्तचारिणी कुटीप्रान्ते एव संचरणशीला गर्भेण मन्थरा = मन्दगमना गर्भमन्थरा = गर्भभारमन्दगमना = मृगवधूः हरिणी यदा = यस्मिन् काले अनघः = सकुशलः = प्रसवः = सन्तानोत्पत्तिः यस्या सा अनघप्रसवा = सुखप्रसूतिः तदा = तस्मिन् काले मह्यं = मम प्रति कोऽपि-कश्चन प्रियनिवेदयितृकं सन्तानजन्मशुभवृत्तान्तसूचकः जनः विसर्जयिष्यथ = यूयं प्रेषयिष्यथ।
कण्वः—काश्यपः कथयति—न इदम् = एतत् तदुक्तं विस्मरिष्यामि = नूनं प्रेषयिष्यामि।
शकुन्तला—( गतिभङ्गं रूपयित्वा = गत्या = चलनस्य भङ्गं = बाधां गमनरोधं रूपयित्वा = सूचयित्वा मृगसङ्गेन गतिस्खलनमभिनीय ) कः नु खलु = वितर्के एषः = अयं मे निवसेने = वस्त्रे सज्जते-संसक्तो भवति वसनमाकर्षतीत्यर्थः। ( इति = एवमुक्त्वा परावर्तते = निवर्तते।
कण्वः—अनन्तरं महर्षिः कण्वः शकुन्तलामनुसरन्तं मृगपोतकमवलोक्य सकरुणं तस्य प्रवृत्तिं वर्णयति—वत्से ! यस्येति।
अन्वयः—त्वया कुशसूचिविद्धे यस्य मुखे व्रणविरोपणं इङ्गुदीनां तैलं न्यषिच्यत स अयं श्यामाकमुष्टिपरिवर्द्धितकः पुत्रकृतकः मृगः ते पदवीं न जहाति।
पतिगेहं प्रस्थितायाः शकुन्तलाया वसनाञ्चलं गृहीत्वाऽऽकर्षयन्तं मृगशिशुमवलोक्य महर्षिः कण्वः कथयति—वत्से यस्येति। त्वया = भक्त्या कुशानां = दर्भाणां सूचीभिः = सूचीतीक्ष्णैरग्रैः विद्धे = क्षते यस्य = मृगस्य मुखे = वदनाभ्यन्तरे व्रणस्य = क्षतस्य विरोपणं = शोषकं व्रणविरोपणम् इङ्गुदीनां = तापसतरूणां तैलं = तत्फलस्नेहं न्याषिच्यत = नितरां सिक्तम्। सः = तद्वात्सल्यविषयः अयं = एषः = त्वद्विरहेण त्वामनुसरन् श्यामाकमुष्टि-
कण्व—वत्से ! नहीं, नहीं, इसे मैं नहीं भूलूँगा।
शकुन्तला—( अपनी गति का अवरोध कर अभिनय करती हुई ) अरी, मैया री मैया ! यह मेरे पैरों में बार-बार आता हुआ कौन मेरे कपड़ों में लिपट रहा है? ( घूमकर देखती है )।
कण्व—हे पुत्रि ! जिसके मुख के तीक्ष्ण अग्रभाग से विक्षत हो जाने पर मैंने घाव को भरने वाला इङ्गुदी का तेल लगा-लगाकर जिसका व्रण ठीक किया है तथा श्यामक की मुट्ठियाँ दे-देकर जिसका तूने आज तक पालन किया है, वह बच्चे की तरह पाला हुआ यह हिरण का बच्चा तेरे मार्ग को नहीं छोड़ रहा है ॥ १३ ॥
विशेष—छोटे बच्चों के मुख में कुश के तीक्ष्ण अग्रभाग से घाव हो जाता है, जिससे उनका खाना बन्द हो जाता है, मुख में घाव हो जाने के कारण वे स्वयं नहीं खा सकते हैं। अतः शकुन्तला मुट्ठी में कोमल घास लेकर धीरे-धीरे उनके घाव को बचाकर खिलाती थी।