अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 284, कुल 540 में से
संदर्भ में पढ़ें| २०२ | अभिज्ञानशाकुन्तलम् |
|---|
शकुन्तला— वच्छ किं सहवासपरिच्चाइणिं मं अणुसरसि अचिरप्पसूदाए जणणीए विणा वड्ढिदो एव्व। दाणिं वि मए विरहिदं तुमं तादो चिंतइस्सिदि। णिवत्तेहि दाव [ वत्स किं सहवासपरित्यागिनीं मामनुसरसि अचिरप्रसूतया जनन्या विना वर्धित एव। इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति। निवर्तस्व तावत् ]।
( इति रुदती प्रस्थिता )
कण्वः—
उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया ^१विहतानुबन्धम्।
अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥ १४॥
परिवर्द्धितकः = वर्द्धित एव वर्द्धितकः = पालितः श्यामाकस्य = मुन्यन्नस्य वीराक्स्य मुष्टिभिः = मुष्टिपरिमितैः श्यामाकैः परिवर्द्धितक इति श्यामाकमुष्टिपरिवर्द्धितकः, स्वयमत्तुमसमर्थस्य श्यामाकान् मुष्टौ गृहीत्वा तन्मुखेऽर्पित्वा वर्द्धित इत्यर्थः। कृत्रिमः पुत्रः पुत्रकृतकः = कृत्रिमपुत्रः पुत्रस्थानीयः मृगः = मृगशावकः ते = तव पदवीं = पन्थानं ,न जहाति = त्यजति।
अयम्भावः— दयार्द्रहृदया त्वया दर्भाङ्कुरमक्षणक्षतमुखस्य यस्य मृगशावकस्य मखाभ्यन्तरे इङ्गुदीतैलं निक्षिप्य व्रणः शोषितः स्वयमत्तुमसमर्थस्य तन्मुखे मुष्टिपरिमितं श्यामकं प्रक्षिप्य पुत्रवत्पालितश्च सोऽयं मृगशिशुः त्वद्विरहदुखितः ते वसनं न त्यजति, क्षणं लालयित्वा एवमाश्वसयस्व
अत्र स्वभावोक्तिः काव्यलिङ्गञ्चालङ्कारो वसन्ततिलकाछन्दश्च ॥ १३ ॥
शकुन्तला— स्नेहपरवशा शकुन्तला तमौरसपुत्रवत् लालयन्तो सेविषादमाह—वत्स ! किं = किमर्थम् सहवासपरित्यागिनीं = तवाश्रमवासिनं च सहवासं विहाय पतिगेहं गच्छन्तीं माम् अनुसरसि = अनुगच्छसि, वृथैव किं स्नेहबन्धनमनुबध्नासि। अचिरप्रसूतोपरतया— अचिरं प्रसूता उपरता चेति अचिरप्रसूतोपरता तया अचिरप्रसूतोपरतया = त्वां प्रसूता चिरादेव मृतया = जनन्या = मात्रा विना वर्धितः— यथावत् परिपोषित एवासि। इदानीं = मद्वियोगकाले मया विरहितं यद्विपुत्रं त्वां = भवन्तम् ततः = पिता कण्वः चिन्तयिष्यति = पालयिष्यति तावत् त्वं निवर्तस्व = परावर्तस्व = आश्रमपदं गच्छ। अतस्तव निवर्तनमेव श्रेयः नेतः परं गन्तव्यमिति भावः।
( इति = एवमुक्त्वा रुदती = विलपन्ती प्रस्थिता प्रचलिता )
कण्वः— शकुन्तलारोदनं न केवलममङ्गलमेव प्रत्युत् मार्गगमनावरोधीत्युत्प्रेक्ष्य महर्षिः कण्वः कथयति —उत्पक्ष्मणोरिति।
शकुन्तला— हे वत्स ! तुम लोगों के सहवास सुख को छोड़कर जाने वाली मेरे साथ तू क्यों इस प्रकार प्रेम प्रदर्शित कर रहा है? मेरे साथ क्यों आ रहा है ? तुझे जन्म देकर तेरी माता के तत्काल मर जाने पर तेरी माता के अभाव में जिस तरह मैंने माता की तरह तेरा आज तक पालन-पोषण किया है तथा इतना बड़ा किया है, उसी प्रकार मेरे अभाव में तेरा पालन-पोषण पिताजी करते रहेंगे, अब तू लौट जा, मेरे साथ मत चल।
( यह कहकर रोती हुई शकुन्तला प्रस्थान करती है )
कण्व— पुत्रि ! तू रो मत, धैर्य धारण कर और चित्त को स्थिर कर इस रास्ते को देखो।
पाठा०—१. शिथिलानुबन्धम्।