भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ
२०२अभिज्ञानशाकुन्तलम्

शकुन्तला— वच्छ किं सहवासपरिच्चाइणिं मं अणुसरसि अचिरप्पसूदाए जणणीए विणा वड्ढिदो एव्व। दाणिं वि मए विरहिदं तुमं तादो चिंतइस्सिदि। णिवत्तेहि दाव [ वत्स किं सहवासपरित्यागिनीं मामनुसरसि अचिरप्रसूतया जनन्या विना वर्धित एव। इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति। निवर्तस्व तावत् ]।

( इति रुदती प्रस्थिता )

कण्वः—

उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया ^१विहतानुबन्धम्।
अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥ १४॥

परिवर्द्धितकः = वर्द्धित एव वर्द्धितकः = पालितः श्यामाकस्य = मुन्यन्नस्य वीराक्स्य मुष्टिभिः = मुष्टिपरिमितैः श्यामाकैः परिवर्द्धितक इति श्यामाकमुष्टिपरिवर्द्धितकः, स्वयमत्तुमसमर्थस्य श्यामाकान् मुष्टौ गृहीत्वा तन्मुखेऽर्पित्वा वर्द्धित इत्यर्थः। कृत्रिमः पुत्रः पुत्रकृतकः = कृत्रिमपुत्रः पुत्रस्थानीयः मृगः = मृगशावकः ते = तव पदवीं = पन्थानं ,न जहाति = त्यजति।

अयम्भावः— दयार्द्रहृदया त्वया दर्भाङ्कुरमक्षणक्षतमुखस्य यस्य मृगशावकस्य मखाभ्यन्तरे इङ्गुदीतैलं निक्षिप्य व्रणः शोषितः स्वयमत्तुमसमर्थस्य तन्मुखे मुष्टिपरिमितं श्यामकं प्रक्षिप्य पुत्रवत्पालितश्च सोऽयं मृगशिशुः त्वद्विरहदुखितः ते वसनं न त्यजति, क्षणं लालयित्वा एवमाश्वसयस्व

अत्र स्वभावोक्तिः काव्यलिङ्गञ्चालङ्कारो वसन्ततिलकाछन्दश्च ॥ १३ ॥

शकुन्तला— स्नेहपरवशा शकुन्तला तमौरसपुत्रवत् लालयन्तो सेविषादमाह—वत्स ! किं = किमर्थम् सहवासपरित्यागिनीं = तवाश्रमवासिनं च सहवासं विहाय पतिगेहं गच्छन्तीं माम् अनुसरसि = अनुगच्छसि, वृथैव किं स्नेहबन्धनमनुबध्नासि। अचिरप्रसूतोपरतया— अचिरं प्रसूता उपरता चेति अचिरप्रसूतोपरता तया अचिरप्रसूतोपरतया = त्वां प्रसूता चिरादेव मृतया = जनन्या = मात्रा विना वर्धितः— यथावत् परिपोषित एवासि। इदानीं = मद्वियोगकाले मया विरहितं यद्विपुत्रं त्वां = भवन्तम् ततः = पिता कण्वः चिन्तयिष्यति = पालयिष्यति तावत् त्वं निवर्तस्व = परावर्तस्व = आश्रमपदं गच्छ। अतस्तव निवर्तनमेव श्रेयः नेतः परं गन्तव्यमिति भावः।

( इति = एवमुक्त्वा रुदती = विलपन्ती प्रस्थिता प्रचलिता )

कण्वः— शकुन्तलारोदनं न केवलममङ्गलमेव प्रत्युत् मार्गगमनावरोधीत्युत्प्रेक्ष्य महर्षिः कण्वः कथयति —उत्पक्ष्मणोरिति।


शकुन्तला— हे वत्स ! तुम लोगों के सहवास सुख को छोड़कर जाने वाली मेरे साथ तू क्यों इस प्रकार प्रेम प्रदर्शित कर रहा है? मेरे साथ क्यों आ रहा है ? तुझे जन्म देकर तेरी माता के तत्काल मर जाने पर तेरी माता के अभाव में जिस तरह मैंने माता की तरह तेरा आज तक पालन-पोषण किया है तथा इतना बड़ा किया है, उसी प्रकार मेरे अभाव में तेरा पालन-पोषण पिताजी करते रहेंगे, अब तू लौट जा, मेरे साथ मत चल।

( यह कहकर रोती हुई शकुन्तला प्रस्थान करती है )

कण्व— पुत्रि ! तू रो मत, धैर्य धारण कर और चित्त को स्थिर कर इस रास्ते को देखो।

पाठा०—१. शिथिलानुबन्धम्।

चतुर्थोऽङ्कः | २०३

शार्ङ्गरवः—भगवन् ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते। तदिदं सरस्तीरम् अत्र संदिश्य प्रतिगन्तुमर्हसि।

कण्वः—तेन हीमां क्षीरवृक्षच्छायामाश्रयामः।


अन्वयः—उत्पक्ष्मणोः नयनयोः उपरुद्धवृत्तिं वाष्पं स्थितया विहितानुबन्धं कुरु। अलक्षितनतोन्नतभूमिभागे अस्मिन् मार्गे ते पदानि विषमीभवन्ति।

यात्राकाले स्नेहानुबन्धमवलोक्य रुदत्याः शकुन्तलाया अश्रुमोचनं न केवलममङ्गलमेवापितु मार्गगमनविरोधीत्याशङ्क्य महर्षिः कण्वः तां रोदनात् निवर्तयितुं प्राह—उत्पक्ष्मणोरिति। उत् = ऊर्ध्वं पक्ष्मणी ययोः ते तयोः उत्पक्ष्मणोः = उद्गतनेत्ररोमयोः नयनयोः = नेत्रयोः उपरुद्धवृत्ति = उपरुद्धा = व्याहृता वृत्तिः = दर्शनव्यापारो येन तं उपरुद्धवृत्तिं = प्रतिहतदर्शनशक्तिं वाष्पं = अश्रुजलम् स्थिरतया धैर्येण विहितः = दूरीकृतः अनुबन्धः = पुनः पुनरुत्पत्तिर्यस्य स तं विहितानुबन्धं = निरुद्धाविच्छिन्नप्रसरणं कुरु, धैर्यमवलम्ब्य नेत्रजलं निवर्तयेति भावः। अलक्षितः = अनाकलित नतः = निम्नः= उन्नतः = उच्चश्च भूमिभागः = भूप्रदेशः यस्मिन् स तस्मिन् अलक्षितनतोन्नतभूमिभागे मार्गे = गन्तव्ये पथि ते = तव पदानि = चरणन्यासाः विषमीभवन्ति = स्खलन्ति, उच्चावचेषु निपतन्तीत्यर्थः !

अयंभावः—वत्से ! धैर्यमवलम्ब्य वाष्पं रोधय मार्गस्योच्चावचत्वात्ते पादौ इतस्ततः स्खलतः। अत आश्रमस्नेहवैकलव्यजन्यदुःखेन प्रसरन्तमश्रुप्रवाहमवरोधय येन गन्तव्यमार्गस्ते स्पष्टं दृश्येत।

अत्र परिकर-काव्यलिङ्गालङ्कारौ वसन्ततिलका वृत्तं च ॥ १४ ॥

शार्ङ्गरवः—शकुन्तलास्नेहवशतया तन्मार्गानुसारिणं महर्षिकण्वं तच्छिष्यः शार्ङ्गरवः तात्कालिकं कर्तव्यं स्मारयति—भगवन् ! = गुरुवर ! स्निग्धो जनः = स्नेहपालः आ उदकान्तामोदकान्तम् = उदकान्तपर्यन्तम् अनुगन्तव्यः = बन्धुभिः **अनुसरणीयः इति वृद्धैः श्रूयते। तत्=**तस्मादिदं सरस्तीरं = जलाशय तटम् अस्ति। अत्र = अस्मिन् स्थाने सन्दिश्य = वाचिकमादिश्य प्रतिगन्तुमर्हसि = भवान् आश्रमं प्रति निवर्तताम्।

कण्वः—शिष्योक्तिमनुमोदमानः कण्वमहर्षिः कथयति--तेन हि = तस्मात् भवदुक्तस्य सर्वथाकरणीयत्वात् इमां = पुरस्थितां क्षीरप्रधानो वृक्षः क्षीरवृक्षः तस्य छायायां = अनातपप्रदेशे आश्रयामः = शरणं कुर्मः।


हे वत्से ! उन्नत बरौनो से सुशोभित तेरे नेत्रों की दृष्टि शक्ति को रोकने वाले आंसुओं को धैर्य से तथा चित्त को स्थिर कर हटा क्योंकि ऊँचे-नीचे भू-भाग वाले मार्ग पर तेरे पैर लड़खड़ा रहे हैं। अतः रोना बन्द कर मार्ग में देखकर चल ॥ १४ ॥

शार्ङ्गरव—गुरु जी, परदेश जाते समय अपने स्नेही बन्धुजनों का जलाशयपर्यन्त ही अनुगमन करना चाहिए ऐसा सुना जाता है। अब सरोवर का तट आ गया है। अतः हमलोगों को आवश्यक सन्देश देकर आप आश्रम को लौट जायें।

विशेष—शास्त्रों में लिखा है कि जब अपना स्नेही बन्धुजन परदेश जाय तो उसको जलाशय तक ही पहुँचाना चाहिए। इसलिए शकुन्तला को सरोवर तक ही पहुँचाने के लिए कहा गया है।

कण्व—ठीक है, हमलोग इस दूध वाले वृक्ष की छाया में खड़े हो जायें।

२०४ अभिज्ञानशाकुन्तलम्

( सर्वे परिक्रम्य स्थिताः )

कण्वः—( आत्मगतम् ) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम् । ( इति चिन्तयति ) ।

शकुन्तला—( जनान्तिकम् ) हला पेक्ख णलिणीपत्तंतरिदं वि सहअरं अदेखंती आउरा चक्कवाई आरडदि दुक्करं अहं करोमि त्ति तक्केमि [ हला पश्य । नलिनी-पत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्या रौति दुष्करमहं करोमीति तर्कयामि । ]

**अनसूया—**सहि मा एव्वं मंतेहि । [ सखि मैवं मन्त्रय । ]

एषा वि पिएण विणा गमेइ रअणिं विसाअदीहअरं ।
गरुअं वि विरहदुक्खं आसाबंधो सहावेदि ॥ १५ ॥

( सर्वे = सकलाः परिक्रम्य = परिभ्रम्य स्थिताः = उपविष्टाः )

**कण्वः—**महर्षिः कण्वः दुष्यन्ताय सन्देष्टव्यमर्थं मनसि विमृशन्नाह—किं नु खलु तत्रभवतः = आदरणीयस्य दुष्यन्तस्य = राजर्षेः दुष्यन्तस्य युक्तरूपं = प्रशस्तं युक्तं योग्यतमं **अस्माभिः-**मया कण्वेन सन्देष्टव्यं = सन्देशरूपेण प्रेषणीयम् ( इति = एवं चिन्तयति विचारयति ) **इदमस्य तात्पर्यम्-**हि राजर्षिः ममानुपस्थितौ मृगयाव्याजेनेदं धर्मारण्यं प्रविश्य मुग्धामेनां शकुन्तलां प्रलोभ्य गान्धर्वविधिना विवाह्य गृहं गतः, अन्तःसत्वामेनां धर्मपत्नीं न स्मरति = नापि कञ्चननेतारं जनं प्रेषयति । तत्र राजकार्याधिक्यं वनवासिनो मे लाघवमूलकमौदासीन्यं वा हेतुः । तस्मान्मया मुनिजनोचितकर्त्तव्योपदेशप्रदानमुचितमिति विमृशति ।

**शकुन्तला—**सरसस्तीरे समुपस्थिता शकुन्तला सहचरखिन्नां कामपि चक्रवाकीं विलोकयन्ती स्वभर्तृविरहदुःखमाकलयित्वा स्वप्रियसखीमाह—हला हे सखि ! पश्य = वीक्षस्व, नलिनीपत्रेण = कमलिनीदलेन अन्तरितं = व्यवहितं, न तु दूरदेशं गतमिति नलिनीपत्रान्तरितम् अपि सहचरं = प्रियम अपश्यन्ती = अनवलोकयन्ती आतुरा = विह्वला चक्रवाकी = चक्रवाकवधूः आरोति = क्रन्दति, क्रोशति इति = एवं चिन्तयित्वा अहं दुष्करं = कठोरं करोमि = आचरामि इति = एवं **तर्कयामि-**जाने । अहं पुनः दूरवर्तिनि प्रिये यद् जीवामि तन्मे कठिनं हृदयमिति भावः ।

**अनसूया—**चक्रवाकवधूहदर्शनसन्धुक्षितं शकुन्तलाया विरहदुःखमुपपत्त्या शमयन्ती अनसूया प्राह—हे सखि ! शकुन्तले एवं = इत्थं मा मन्त्रय = न कथय, एवं न वक्तव्यं, सुकरमेव त्वया क्रियते इति भावः । सखि ! एवं मन्त्रय—


( सभी क्षीरी वृक्ष की छाया में खड़े होते हैं )

कण्व—( मन ही मन ) मैं माननीय राजा दुष्यन्त को उनके अनुरूप क्या सन्देश दूँ। ( विचार करते हैं )

शकुन्तला—( अलग से ) सखि अनसूये ! देखो तो, कमलिनी के पत्तों की ओट में छिपे हुए अपने सहचर चक्रवाक को नहीं देखकर भी यह चक्रवाकी आतुर हो बोल रही है । अपने प्रिय के वियोग में मैं भी जो जी रही हूँ यह मैं अति कठिन कार्य कर रही हूँ ।

**अनसूया—**हे सखि ! ऐसा मत सोचें, क्योंकि—

चतुर्थोऽङ्कः

[ एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् ।
गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥ ]

कण्वः—शार्ङ्गरव इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः ।
शार्ङ्गरवः—आज्ञापयतु भवान् ।


अन्वयः—एषा अपि प्रियेण विना विषाददीर्घतराम् रजनीम् गमयति । आशाबन्धः गुरु अपि विरहदुःखं साहयति ।

पत्रे विरहितमपि प्रियमपश्यन्तीं दुःखितां चक्रवाकवधूं विलोक्य दुःखितां शकुन्तलां सान्त्वयन्ती अनसूया प्राह—एषेति । एषापि = चक्रवाकवधूरपि प्रियं विना क्षणमपि मात्रं न तिष्ठन्ती, तद्विरहमसहमाना प्रियेण = सहचरेण चक्रवाकेन विना विरहिता विषाददीर्घतराम् = विषादेन = प्रियविरहजन्यदुःखेन दीर्घतरां = दीर्घत्वेनानुमितां रजनीं रागिणो जना अस्यामिति रजनी तां रजनीं = रात्रिम् गमयति = यापयति । आशाबन्धः= आशा = कदापि सम्बन्धो भवेदिति सम्भावना एव बन्धः = बन्धनमिति आशाबन्धः = सङ्गमाशातन्तुः गुरु अपि = दुर्वहमपि विरहदुःखं = विरहपीडाम् साहयति सहनयोग्यं करोति । त्वयापि मर्तृप्राप्तिपर्यन्तमेव दुःखं सोढव्यमिति भावः ।

अयं भावः—सखि शकुन्तले ! मैवं वक्तुमुचितम्, एषा वराकी चक्रवाकवधूः प्रत्यहं प्रियविरहिता निशां गमयत्येव, पुनः प्रियसंगमो भविष्यतीत्याशया सा जीवति न म्रियते, यथेयं प्रातःकाले पत्या पुनर्मिलति तथैव त्वमपि पत्या दुष्यन्तेन मिलिष्यसि । अतो मर्तृमिलनाशया तावदिदं विरहदुःखं सोढव्यमेव । अत्रान्तरन्यासोऽलङ्कारः गाथाछन्दश्च ॥ १५ ॥

कण्वः—अथ शकुन्तलाविषये दुष्यन्तेन क्रियमाणा या उपेक्षाया निवृत्त्यर्थं तद्योग्यता-विचारपूर्वकं तस्याः स्वीकारं सन्दिशन्राह कुलपतिः—शार्ङ्गरव ! त्वया सावधानतया श्रोतव्यं, यतो मम शिष्येषु त्वमेवासि योग्यतमो भाषणकुशलः । इति त्वया, न त्वन्येन शकुन्तलां पुरस्कृत्य = अग्रतः कृत्वा शकुन्तलाविषये तामुद्दिश्य मद्वचसा = मम वचनात् सः = प्रक्रान्तो राजा दुष्यन्तः वक्तव्यः = सन्देष्टव्यः ।

शार्ङ्गरवःभवान् = कुलगुरु आज्ञापयतु = आदिशतु सावधानोऽस्मि ।


चक्रवाकी तो अपने प्रिय के बिना उसके वियोग में भी विषाद और शोक से अधिक लम्बी होने वाली रात को केवल भावी पति मिलन की आशा से बिता देती है, क्योंकि गुरुतर दुःसह विरह के दुःख को भी आशातन्तु ही सहन करा देता है। इसलिए हे सखि ! तू भी मिलने की आशा से इस विरह के काल को बिता दे, घबड़ा मत । शीघ्र ही तेरा भी तेरे पति के साथ मिलन होगा। उस विरहिणी की चकवी के समान तुम्हारा भी दुःख दूर हो जायेगा ॥ १५ ॥

विशेष—कवि प्रसिद्धि के अनुसार चकवा-चकवी पक्षी प्रायः जलाशयों के तट पर रहते हैं और वे दोनों स्त्री पुरुष दिन भर तो एक साथ ही रहते हैं, किन्तु रात में दोनों का विरह हो जाता है । चकवी इस तट पर आती है तो चकवा उस तट पर चला जाता है, इसी प्रकार चकवा इस तट पर आता है तो चकवी उस तट पर चली जाती है । रात भर वे इसी प्रकार विरह में बिताते हैं पुनः सुबह होने पर वे पूर्ववत् मिलकर साथ-साथ प्रेम से रहते हैं । यह उनका नैसर्गिक नियम है।

कण्व—शार्ङ्गरव शकुन्तला को सामने कर राजा दुष्यन्त से मेरा यह सन्देश कहना ।
शार्ङ्गरव—हाँ, आप कहें मैं सावधान हूँ, राजा को क्या कहूँ ।

२०६ अभिज्ञानशाकुन्तलम्

कण्वः—

अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन- स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ १६ ॥


**कण्वः—**मद्वचनात्–इत्यादिनोक्तं विवृण्वन् महर्षिः कण्वो ब्रवीति--अस्मानिति ।

**अन्वयः—**अस्मान् संयमधनान् अस्मान् आत्मनः उच्चैः कुलं च, त्वयि अस्याः कथ-मपि अबान्धवकृतां तां स्नेहवृत्तिं च साधु विचिन्त्य इयं दारेषु सामान्यप्रतिपत्तिपूर्वकं दृश्या । अतः परं भाग्यायत्तम्, तत् बन्धुभिः न वाच्यं खलु ।

राज्ञे दुष्यन्ताय सन्देष्टव्यमर्थं विवृण्वन् महर्षिः कण्वः कथयति--अस्मानिति । अस्मान् = नः संयमः = आत्मदमनात्मकं तपः एव धनं = सर्वस्वं येषां ते तान् संयमधनान् = तपोधनान् अस्याः शकुन्तलाया पितृत्वेन सम्बन्धिनं मां = कण्वम् साधु = सम्यक् विचिन्त्य = विचार्य आत्मनः = स्वस्य उच्चैः = आभिजात्यविभूत्यादिभिः श्रेष्ठम्, उन्नतं सततोदितं कुलं = पौरवान्वयं च साधु विचिन्त्य तादृशकुलोत्पन्नस्य तवालीकप्रतारणं न योग्य-मित्यर्थः, त्वयि = भवति सर्वदा = सर्वप्रकारेण कमनीये राजनि अस्याः = त्वयैकशरणा-याः शकुन्तलायाः कथमपि = केनापि प्रकारेण साक्षात् परम्परया परोक्षं वा अबान्धवकृताम् बान्धवैः कन्यादानाधिकारिभिरस्माभिर्विनाकृतां विहिताम् प्रक्रान्ताम् = अतिशयितां स्वाभाविकीं स्नेहवृत्तिं = रागाधिक्यं च साधु विचिन्त्य त्वया = भवता, त्वं स्वकर्तव्यं स्वय-मेव जानासि तथापि मदुपदेशोऽयं दुहितृवात्सल्यादिति भावः । इयं = अस्मद्धर्मदुहिता तव धर्मदाराः शकुन्तला दारेषु पूर्वगृहीतपुरन्ध्रीषु, भार्यासु सामान्यप्रतिपत्तिपूर्वकं-सामान्या = इतरदारसाधारणी या प्रतिपत्तिः बहुमानः तत्पूर्वकं = तत्पुरस्कारेण दृश्या दर्शनीया, गणनीया अन्यतमत्वेनावेक्षणीया । अर्थात्त्वामात्मनः सत्कुलसंभूतत्वम् अस्माकं महत्त्वम्, अस्यां स्नेहप्रवाहस्याकृत्रिमत्वं साधु विचार्य बहुमानपुरःसरमियं शकुन्तला पालनीयेत्यर्थः । विशेषः कुतो नाभ्यर्थ्यते इत्यत आह—अतः परं = उक्तादतिरिक्तं भाग्यायत्तम् वध्वाः सौभाग्याधीनम्, अतः तत् वधूवन्धुभिः = पितृभ्रातृप्रभृतिभिः कन्यापक्षीयैः आप्तजनैः न वाच्यं = न वक्तव्यम् प्रधानमहिषीपदं तु भाग्यायत्तम् वात्सल्यमीप्सितमपि प्रार्थना-मात्रेणालभ्यत्वान्नैव प्रार्थनीयम् । अतो नोच्यते इति भावः ।

**अर्थ भावः—**राजन् ! पूर्वोक्तं सर्वं साधु विचार्य मुग्धाया अस्याः शकुन्तलाया


**कण्व—**हे राजन् ! संयम धन = इन्द्रिय निग्रही और तपस्यापरायण हमारी प्रतिष्ठा एवं मान-मर्यादा को भली-भांति ध्यान में रखते हुए तथा अपने उच्चकुल पौरववंश की ओर देखते हुए तथा अपने में शकुन्तला की बन्धु-बान्धवों से न कराई हुई स्वाभाविक इस अनिर्वचनीय विशिष्ट प्रेम प्रवृत्ति को भी देखते हुए इस शकुन्तला को अपनी और स्त्रियों के बराबर ही समझना, यही हमारा कहना है । इससे अधिक = इसे ही महारानी बनाना, यह मैं नहीं कहना चाहता हूँ, क्योंकि पति के विशेष स्नेह, अनुराग और महारानी पद की प्राप्ति तो अपने भाग्य और गुणों के ही अधीन है । अतः उसके लिए हमारा कुछ भी कहना व्यर्थ ही है ॥ १६ ॥

विशेष—चतुर्थ अङ्क के उत्तम श्लोकों में यह तीसरा श्लोक है । अपनी कन्या के कल्याण

चतुर्थोऽङ्कः २०७

शाङ्गंरवः—गृहीतः सन्देशः। कण्वः—वत्से त्वमिदानीमनुशासनीयासि। वनौकसोऽपि सन्तो लौकिकज्ञा वयम्। शाङ्गंरवः—न खलु धीमतां कश्चिदविषयो नाम।

दारसामान्यप्रतिपत्त्या नूनं परिपालनं कार्यं, नो चेत् अस्माकं प्रतिकूलेषु शाप एवा- स्त्रम् । अस्मच्छापास्त्रं न केवलं त्वामेव दण्डयेत्, अपितु सर्वमेव त्वत्कुलं प्रदहेत् । अतः सम्यग् विचार्य कार्यमिति भावः । अत्र सामान्यनिबन्धनाऽप्रस्तुतप्रशंसा काव्यलिङ्गं चालङ्कारः, शार्दूलविक्रीडितं च छन्दः ॥ १६ ॥

शाङ्ङ्गरवः—गृहीतः = अवधृतः, सन्देशः = वक्तव्योऽर्थः । इत्थं भवदुक्तमर्थं राज्ञे बोधयिष्यामीति भावः ।

कण्वः—महर्षिः कण्वो हि दुष्यन्ताय सन्देष्टव्यमर्थं शाङ्ङ्गरवाय निर्दिश्य शकुन्तलायै अपि पतिगृहे प्रवर्त्तनप्रकारमुपदेष्टुमारभते—वत्से ! त्वं भवती इदानीं = साम्प्रतम् अनुशासनीया = शिक्षणीया असि = वर्त्तसे वनमोकः वनम् = अरण्यं ओकः = गृहं येषां ते वनौकसः = वनवासिनोऽपि अपरिचितनागरिकलोका अपि सन्तः = वर्त्तमानाः वयं लौकिकज्ञाः = लोकव्यवहाराभिज्ञाः । गृहस्थलोकवृत्तज्ञाः लोकाचारपाटवा स्मः । अतो लोकाचारं त्वां शिक्षयामः ।

शाङ्ङ्गरवः—संबहुमानं गुरुक्तं सामान्यमुखेनानुवदन् शाङ्ङ्गरवः कथयति धीमतां = प्रशस्तबुद्धिशालिनां न खलु कश्चिद विषयः, न किञ्चिदपि अज्ञातमस्ति । धीमन्तो हि सर्वं विषयं करतलामलकवत् पश्यन्तीति भावः । तदुक्तं—'सतां प्रज्ञोन्मेषः पुनरयमसीमो विजयते ।'


के निमित्त इसमें सन्देश दिये गये हैं। राजाओं को अपने उच्चकुल की प्रतिष्ठा और तपस्वियों के प्रति सम्मान की बात कहकर उत्तम कर्त्तव्य का पालन आवश्यक बतलाया गया है और अनेक पत्नी वाले पुरुषों को पक्षपातहीन होकर सबमें समान व्यवहार करने का उपदेश देकर सामाजिक कलह को शान्त करने का प्रयास है। इसमें यह विशेषकर बताया गया है कि शकुन्तला ने अपने बन्धु-बान्धवों की अनुमति के बिना ही राजा दुष्यन्त में स्वाभाविक प्रेम के कारण उनको आत्मसमर्पण कर दिया है। इसलिए उनका कभी अनादर नहीं करना चाहिए, सर्वदा स्नेह भाव से इसमें अनुराग रखना उचित है। जो लोग अपने अभिभावकों की अनुमति से विवाह करते हैं उसमें वधू का वैसा उत्तम अनुराग नहीं रहता, पर शकुन्तला ने अपने स्वाभाविक अनुरागसे ब्याह किया। अतः इसका अनादर नहीं होना चाहिए। इससे अधिक पति का विशेष अनुराग, या महारानी आदि पद की प्राप्ति तो कन्याओं के भाग्य पर ही निर्भर है। कन्यापक्ष वालों का इससे अधिक कहना उचित नहीं।

शाङ्ङ्गरव—पिता जी, मैंने सन्देश भलीभाँति समझ लिया। जाकर उन्हें इसी प्रकार कहूँगा।

कण्व—वत्से ! अब तुम्हें कुछ शिक्षा देनी है। यद्यपि हम लोग वनवासी तापस हैं, फिर भी हम लौकिक व्यवहार को जानते हैं।

शाङ्ङ्गरव—भगवन् ! बुद्धिमानों की दृष्टि से कोई भी विषय ओझल नहीं है, आप तो सर्वज्ञ हैं। भला, आपसे कौन सी बात अज्ञात है ?

२०८ अभिज्ञानशाकुन्तलम्

कण्वः—सा त्वमितः पतिकुलं प्राप्य—

शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः। भूयिष्ठं भव दक्षिणा परिजने १भाग्येध्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ १७ ॥

कण्वः—सा आश्रमाचारमात्रज्ञा त्वम् इतः मत्सकाशात् = अस्मात् पितृकुलात् धर्मारण्याच्च पतिकुलं = स्वामिवंशं प्राप्य = आसाद्य पतिकुलेऽनुष्ठेयान्याह—शुश्रूषस्वेति ।

अन्वयः—गुरून् शुश्रूषष्व, सपत्नीजने प्रियसखीवृत्तिं कुरु, विप्रकृतापि रोषणतया भर्तुः, समीपं मास्म गमः, परिजने भूयिष्ठं दक्षिणा भव, भाग्येषु अनुत्सेकिनी ( भव ) एवं युवतयः गृहिणीपदं यान्ति, वामाः (तु) कुलस्य आधयः भवन्ति।

पतिगृहे वर्तनप्रकारमुपदिशन् महर्षिः कण्वः शकुन्तलामुपदिशति—शुश्रूषस्वेति । गुरून् = पत्युर्गुरुभूतान् श्वश्रू श्वसुरादीन् शुश्रूषस्व स्वयममन्दिता सती तेषां पादसेवनादिरूपां परिचर्यां कुर्वित्यर्थः। गुरोः शुश्रूषाया लोकद्वयकल्याणकरत्वेन प्रतिपादनात्। तथा चोक्तं—

‘भर्तृशुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया । तद्बन्धूनां च कल्याणि ! प्रजानां चानुपोषणम् ॥’

समानः पतिर्यासां ताः सपत्न्यः ता एव जनः सपत्नीजनस्तस्मिन् सपत्नीजने पत्या परिणीताः परिपोष्यमाणाश्च स्त्रियः सपत्न्यः ततस्नूहे प्रियसखीवृत्तिं प्रियसखो=स्नेहबहुमानविश्वासपात्रभूता वयस्या तद्वृत्तिं = तत्सुल्यं व्यवहारं कुरु = विधेहि सपत्नीषु प्रियसखीव वाङ्मनःकार्यैर्निर्व्याजं प्रवृत्तिं विधेहीत्यर्थः । विप्रकृतापि = अपमानिताऽपि मतंरि पररमणीरमणादिना स्वापमानं कुर्वत्यपि रोषणतया = क्रोधोद्भवया ईर्ष्याया पत्युः = भर्तुः प्रतीपं = प्रातिकूल्यं विरुद्धं मा स्म गम, किन्तु अनुकूलैव भव, परिजने = सेवकवर्गे भूयिष्ठं = नितरां प्रकामं दक्षिणा = अभीष्टसम्पादिना अनुकूला भव, परिजना यथा त्वयि अनुरागिणः सन्तः त्वदाज्ञावशवर्तिनो भवेयुस्तथा तेषु दाक्षिण्यं प्रकाशयेत्यर्थः । भाग्येषु =

कण्व— बेटी, तुम यहां से ससुराल पहुँच कर— ( १ ) सास, ससुर आदि अपने बड़ों की सेवा करना ( २ ) अपनी सौतों से अपनी प्रिय-सखियों के समान व्यवहार करना ( ३ ) पति द्वारा किसी समय किसी कारणवश तिरस्कृत होने पर भी क्रोध के वश में होकर अप्रसन्न न होना और विपरीत आचरण नहीं करना ( ४ ) अपने नौकर, चाकर या पति के बन्धु-बान्धवों के प्रति सदा उदार रहना ( ५ ) राज्योचित सुख-भोगों, को पाकर भी कभी अभिमान न करना। इस प्रकार व्यवहार करने से स्त्रियां गृहस्वामिनी बन जाती हैं और इसके विरुद्ध चलने वाली स्त्रियाँ कुल के लिए विपरीत और मानसी पीड़ा देने वाली होती हैं ॥ १७ ॥

विशेष— चतुर्थ अङ्क के उत्तम चार श्लोकों में यह चतुर्थ श्लोक जिसमें कि उत्तम उपदेश है। ऊपर निर्दिष्ट कर्तव्यों के पालन करने से ससुराल में गई हुई अभिमान रहित बहुएँ सम्मानित होकर स्वयं तो सुखी रहती ही हैं, परिवार को भी निरन्तर सुखी रखती हैं। इसके विपरीत उलटा आचरण


१. भोगेष्वनुत्सेकनी।

चतुर्थोऽङ्कः | २०९

कथं वा गौतमी मन्यते ।
गौतमी—एत्तिओ बहूजणस्स उवदेसो। जादे एवं खु सव्वं ओधारेहि ।
[ एतावान्वधूजनस्योपदेशः । जाते एतत्खलु सर्वमवधारय । ]
कण्वः—वत्से ! एहि परिष्वजस्व मां सखीजनं च ।


भाग्योपनतेषु महादेवीपदलाभादिषु सत्सु अनुत्सेकिनी = अभिमानगर्वाविरहिता ईर्ष्यादि-विरहिता निरभिमाना, अगर्विता च भव । एवं = उक्तप्रकारेण वर्तमाना युवतयः = स्त्री-मात्रम्-गृहिणीपदं = गृहिणीपदाधिकारं यान्ति = प्राप्नुवन्ति, वामाः = प्रतोपवर्तिन्यः इतो विरुद्धा पत्युर्विरुद्धाचरणाः स्त्रियः कुलस्य, पत्युः पित्रोः वंशस्य च आधयः = व्याधिवत् पीडाकारिण्यो भवन्ति ।

अयं भावः—वत्से ! त्वं मत्सकाशात् पतिगेहमुपगता प्रत्यहं श्वश्रू श्वसुरं च पाद-संवहनव्यजनोद्धूलनादिना परिचरन्ती तेषामाश्रवा भव। तस्मिन् पतिगृहे बह्वयः सपत्न्यो भवेयुः तासु प्रियसखीवद् व्यवहर्तव्यम् । भर्त्रा अपमानितापि ईर्ष्यावशात् कथमपि न पत्युर्वि-रुद्धमाचरणीयम्, भृत्यवर्गे चाभीष्टसम्पादनद्वारा उपकारभारं प्रकटयन्ती तत्रानुरागिणी भव, सौभाग्यात् कदापि गर्वं मावह, हर्षविषादयोः चित्तवृत्तेः समत्वं सम्पादनीयम् । इत्थं विद-धाना नार्यः गृहिण्यो भवन्ति । प्रतीपमाचरन्त्यो भर्तृकुलस्य, पितृवंशस्य च दुर्यशो जन-कत्वाद् क्लेशजनिका एव जायन्ते । अतस्त्वं गुरुजनशुश्रूषादिना शीघ्रमेव महादेवीपदं प्राप्स्यसि । अत्राप्रस्तुतप्रशंसा काव्यलिङ्ग-रूपक-कारकदीपकालङ्काराः शार्दूलविक्रीडितं च छन्दः ॥ १७ ॥

स्वोक्तेऽर्थे कुलगौरवाया गौतम्याः सम्मतिमिच्छन्नाह—महर्षिः-कथं = किम्बा गौतमी मन्यते = परामृशति । मदुक्तं गौतमी सम्भाव्यते न वा ?

गौतमी--एतावान् = एतन्मात्रमेव वधूजनस्य = वधूनां कृते उपदेशः = शिक्षा । जाते ! = पुत्रि ! एतत् = इदं खलु निश्चयेन सर्वं = सकलं कण्वोक्तम् अवधारय = गृहाण । उपदेशममूं सावधानतया सर्वदा स्मरेति भावः ।

कण्वः—वत्से ! = पुत्रि शकुन्तले ! मां = कण्वं सखीजनं = आलीवृन्दं च परिष्वजस्व = आलिङ्गयस्व ।


करने वाली वस्तुएँ अभिमान राग, द्वेष, ईर्ष्या आदि दोषों के वशीभूत होकर कुलकलङ्किनी बन जाती हैं और परिवारों के लिए सिरदर्द हो जाती हैं ।

मेरा तो तेरे को यही उपदेश है, गौतमी का क्या परामर्श है ? जैसा गौतमी कहे, वही ठीक है ।

गौतमी—ठीक है, नव-वधुओं के लिए इतना ही उपदेश यथेष्ट है और यही शिक्षा उचित भी है । बेटी, इस उपदेश को सदा याद रखना, इसे मत भूलना, इससे तू सदा सुखी रहेगी अतः इसे गांठ बांध लो ।

कण्व—बेटी, आ, मुझसे और अपनी प्रिय सखियों से गले मिल लो ।

विशेष—पिता से गले मिलने की प्रथा सम्भवतः पहले होगी, पर आज कल कहीं नहीं दीख पड़ती, किन्तु विदाई के अवसर पर या आने-जाने के समय गले मिलने की प्रथा स्त्रियों में आज भी देखी जाती है और वह स्नेहाधिक्य का सूचक है।

14 १४ शाकु०

११० | अभिज्ञानशाकुन्तलम्

शकुन्तला—ताद इदो एव्व किं पिअंवदामिस्साओ सहीओ णियत्तिस्सति ।
[ तात इत एव किं प्रियंवदामिश्राः सख्यौ निवर्तिष्यन्ते । ]
कण्वः—वत्से इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी १यास्यति ।
शकुन्तला—२( पितरसाश्लिष्य ) कहं दाणि तादस्स अंकादो परिब्भट्ठामलय-वडून्मूलिजा चंदणलदा विअ देसंतरे जीविअं धारइस्सं । [ कथमिदानीं तातस्या-ङ्कात्परिभ्रष्टा मलयतटरून्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्ये । ]


शकुन्तला—सखीजनं परिष्वजस्वेति कण्वोक्तौ शकुन्तला कण्वं पृच्छति—तात ! = पितः ! किं = कथम् इत एव = अस्मात् प्रदेशादेव प्रियंवदामिश्राः = प्रियम्वदादयः सख्यः = आल्यः = निवर्तिष्यन्ते = मां विहाय पुनः तपोवनं गमिष्यन्ति ?

कण्वः—शकुन्तलायाः प्रश्ने पुनर्मुनिराह—वत्से=जाते शकुन्तले इमे =एते प्रियम्वदा-ऽनुसूये अपि त्वमिव प्रदेये = विवाहकाले Yogyaay वराय दातव्ये । अतः अनयोः = एतयोः अत्र = तव पतिगृहे दुष्यन्तप्रासादे गन्तुं = गमनं न युक्तम् = न समुचितम् । त्वया सह = भवत्या साकम् गौतमी व्यवहारकुशला मम विश्वस्ता धर्मभगिनी यास्यति = गमिष्यति ।

शकुन्तला—( पितरं = तातं कण्वम् आलिष्य = आलिङ्ग्य ) आसन्नपितृवियोगेन शकुन्तला वदति—कथं = केन प्रकारेण तातस्य = पितुः अङ्कात्=क्रोडात् परिभ्रष्टा=च्युता मलयात् = मलयाचलोत्पन्नात् तरोः=वृक्षात् यद्वा मलयस्य=मलयाचलस्य तरोः=वृक्षात् उन्मूलिता = उत्पादिता चन्दनलतेव = चन्दनवल्लरीव अन्यो देशो देशान्तरस्तस्मिन् देशान्तरे = अन्यस्मिन् स्थाने जीवितं = प्राणान् धारयिष्ये = दधे ।


शकुन्तला—पिता जी, क्या, यहीं से दोनों मेरी सखियाँ मुझे छोड़कर लौट जायेंगी ?

कण्व—बेटी, इन दोनों का भी विवाह करना है । अतः इन दोनों का तो तेरे साथ वहां जाना ठीक नहीं है, तेरे साथ यह गौतमी जायेगी ।

विशेष—अविवाहिता वयस्क कन्याओं को अपने पिता के ही घर रहना चाहिए, इन्हें अपनी सखी या बहन के पति के घर जाना उचित नहीं । अतः उन्हें सखी या बहन के साथ न भेजने की प्रथा पुरानी है । हाँ, छोटी कन्या या वृद्ध नाइन, नौकरानी आदि को भेजने का चलन सम्भ्रान्त परिवारों में अवश्य है । इसी के अनुसार अनसूया और प्रियम्वदा को शकुन्तला के साथ उसके पतिगृह में महर्षि ने नहीं भेजा, किन्तु वृद्धा तपस्विनी गौतमी को भेजा है ।

शकुन्तला—( महर्षि कण्व के गले में लगकर ) अब मैं अपने पिताजी की गोद से हटाई जाकर=दूर होकर मलय पर्वत से उखाड़ी हुई चन्दन की लता की तरह दूसरी जगह कैसे जीवित रहूँगी ।

विशेष—यहाँ पर तात से तरु और शकुन्तला से चन्दनलता की उपमा उचित है । चन्दन की उत्पत्ति मलयाचल पर ही होती है और वहीं वह हरा-भरा और सुगन्धित रहता है । चन्दन का पौधा मलयागिरि से उखाड़ कर अन्यत्र ले जाकर लगाये जाने पर सूख जाता है । इसी भाव को व्यक्त करती हुई शकुन्तला ने कहा है कि पिताजी की गोद से दूर होकर मैं कैसे जीवित रह सकूँगी ?


पाठा०—१. गमिष्यति ।
२. ( पितुरङ्कमाश्लिष्य ) ।

चतुर्थोऽङ्कः | २११

कण्वः—वत्से किमेवं कातरासि।

अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः ^१कृत्यैस्तस्य प्रतिक्षणमाकुला।
तनयमचिरात् प्राचीवार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥ १८ ॥

कण्वः—स्वजनवियोगेन कातरीभूतां धर्मदुहितरं शकुन्तलां महर्षिः = कण्व आश्वासयति—वत्से ! = जाते ! किमेवं कातराऽसि = कथमेवं विह्वला भवसि क्लैब्यमिदानीं नोचितम् धैर्यं धारय।

अन्वयः—वत्से ! त्वम् अभिजनवतः भर्तुः श्लाघ्ये गृहिणीपदे स्थिता (सती) विभवगुरुभिः तस्य कृत्यैः प्रतिक्षणं आकुला (सती) प्राची अर्कमिव पावनं तनयं अचिराद् प्रसूय मम विरहजं शुचं न गणयिष्यसि ।

आत्मनोऽङ्गात् परिभ्रश्य जीवनधारणे सन्दिहानां धर्मसुतां शकुन्तलामभिकातरामालोक्य भर्तृगेहवैभवप्रदर्शनप्रलोभनैः समाश्वासयन् महर्षिः कण्वः कथयति—अभिजनवत इति। वत्से ! त्वं अभिजनवतः—प्रसिद्धकुलसम्भूतस्य महाकुलीनस्य प्रशस्तबहुजनवतः भर्तुः = पत्युः दुष्यन्तस्य श्लाघ्ये = सर्वोत्कृष्टे प्रशंसनीये प्रधाने गृहिणीपदे = महादेवीपदे गृहस्वामिनीस्थाने स्थिता = वर्तमाना लब्धप्रतिष्ठा सती विभवगुरुभिः-विभवैः सकलापेक्षितद्रव्यादि-समृद्धिभिः गुरुणि महान्ति कृत्यानि तैः विभवगुरुभिः = सम्पत्तिमहनीयैः तस्य = भर्तुः कृत्यैः = यज्ञदान-होमादिभिः कर्मभिः प्रतिक्षणम् = प्रतिपलम् अहर्निशम् आकुला = व्याकुला, स्वगृहकार्यप्रत्यवेक्षणविह्वला सती अचिरात् = शीघ्रमेव समर्थत्वात् प्राची = पूर्वािदक् अर्कं = सूर्यमिव पावयतीति पावनः तं पावनं = पवित्रकीर्तिं चक्रवर्तिनं तनयं = पुत्रं प्रसूय = जनयित्वा, उत्पाद्य मम = पितुः विरहजां = मद्विरहोत्थाम् शुचं = शोकव्यथाम् त्वं न गणयिष्यसि = न ज्ञास्यसि मम वियोगः शोकस्तेन भविष्यति ।

अयं भावः—वत्से ! शकुन्तले ! अलं, कातरा मा भव त्वं महाकुलीनस्य स्वामिनो दुष्यन्तस्य गृहस्वामिनीपदे स्थिता प्रत्यहं प्रतिफलं यज्ञदानहवनादिभिः शुभकृत्यैः व्यस्त-

कण्व—बेटी शकुन्तले ! तू इस प्रकार कातर क्यों होती है ? घबड़ाने की बात नहीं, देख, तू ऊंचे कुल में उत्पन्न अपने पति से सम्मानित गृहस्वामिनी पद पर आरूढ होकर धन-सम्पत्ति और राजवैभव के अनुकूल अपने पति के नानाविध गृहकार्यों में प्रतिक्षण व्यग्र रहती हुई जैसे पूर्व दिशा पवित्र भगवान् भास्कर = सूर्य को जन्म देती है वैसे ही तेजस्वी सर्वगुणसम्पन्न पुत्ररत्न को प्रसव करके मेरे विरह से उत्पन्न हुए शोक को तू बिलकुल भूल जायेगी ॥ १८ ॥

विशेष—महर्षि कण्व ने अपने वियोग दुःख से विह्वल शकुन्तला को सान्त्वना देते हुए आशीर्वाद दिया कि तू तेजस्वी चक्रवर्ती पुत्र को शीघ्र उत्पन्न करेगी । कुलीन व्यक्ति स्वजनों से अच्छा व्यवहार करता है, सताता नहीं, क्योंकि उसे अपने उत्तम कुल का ध्यान रहता है । देख, तुम्हारे पति राजा दुष्यन्त महाकुलीन हैं, तुम्हें गृहिणी का पद मिलेगा, अधिक ऐश्वर्य प्राप्त होगा, सूर्य के समान तेजस्वी पुत्र को पाकर उसके लालन-पालन में व्यस्त रहने से तुम्हें पितृ-वियोग का दुःख नहीं सतावेगा । यह स्वाभाविक है कि धनियों के यहाँ कार्य की अधिकता होती है । धर्मराज युधिष्ठिर के राजसूय महायज्ञ के अवसर पर याज्ञसेनी द्रौपदी की व्यस्तता का वर्णन महाभारत में दर्शनीय है ।

पाठ०—१. कृत्यैरहस्य ।

११२अभिज्ञानशाकुन्तलम्

शकुन्तला—( पितुः पादयोः पतित्वा ) तात ! वन्दामि । [ पितस्त्वां वन्दे ! ]
**कण्वः—**यदिच्छामि ते तदस्तु ।
शकुन्तला—( सख्यावुपैत्य ) हला दुवे वि मं समं एव्व परिस्सजह । [ हला द्वे अपि मां सममेव परिष्वजेयाम् । ]
सख्यौ—( तथा कृत्वा ) सहि जइ णाम सो राजा पच्चहिण्णाणमंथरो भवे तदो से इमं अत्तणामहेअअंकिअं अंगुलीअअं दंसेहि । [ सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्येदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय । ]


तया मां सखीजनं च स्मर्तुमवसरमेव न लप्स्यसे । पूर्वांदिक् जगत्पावनमादित्यमिव त्वमपि जगद्विलक्षणतेजस्विनं पवित्रयशस्कं चक्रवर्तिनं सम्राजं तनयं जनयित्वाऽस्माकं मोदमुत्पादय मा च गण्याश्रमवासिनां विरहजं किञ्चिदपि दुःखम् । अत्रोपमा-समुच्चय-काव्यलिङ्गाऽलङ्कारा हरिणी छन्दश्च ॥ १८ ॥

शकुन्तला—( पितुः = तातस्य महर्षेः कण्वस्य पादयोः = चरणयोः पतति नमति )
कण्वः— भवति ! श्रेयसः प्रलोभनेन शकुन्तलाया विरहजन्यां व्यथां शिथिलीकृत्य पतिगृहगमनमनुजानन् कथयति—ते = तव कृते यत् = अभिमतफल लाभादिकमिच्छामि = वाञ्छामि तत् पर्वम् अस्तु = फलतु ।
शकुन्तला—( सख्यौ अनसूयां प्रियम्वदां च उपेत्य = तयोः समीपमुपस्थाय ) हे सख्यौ ! द्वे = उभे अपि सममेव = युगपदेव मां परिष्वजेथाम् = आलिङ्गतम् ।
**सख्यौ—अथावसरं प्राप्य—**महर्षेः दुर्वाससः शापमाशङ्क्य तन्मोक्षोपायमुपदिशतः प्रियम्वदानसूया च ( तथा = शकुन्तलावचनानुसारेण कृत्वा = विधाय युगपदेन आलिङ्ग्य ) यदि = चेत् नाम सः = राजर्षिः दुष्यन्तः प्रत्यभिज्ञानमन्थरः = प्रत्यभिज्ञाने = तव परिचये त्वद्दर्शने सा इयं शकुन्तलेति ज्ञाने मन्थरः = शिथिलः इति प्रत्यभिज्ञानमन्थरः = झटिति एतादृशज्ञानरहितो भवेत् = स्यात् ततः = तदा तस्य = तं प्रति इदं = दर्शितम् आत्मनः = तस्य दुष्यन्तस्य नामधेयाङ्कितं = उत्कीर्णाभिधानम् अङ्गुलीयकम् दर्शय । यदि स राजा त्वां ममेयं भार्येति न परिचिनुयात्तदा त्वया एतदङ्गुलीयकं तस्मै प्रदर्शनीयमित्याशयः ।
सखिभ्यामनेन वाक्येन गूढो दुर्वाससः शापरूपोर्थः तत्परिणामात्मनाऽवबोधितः तन्नों-


अतः महर्षि कण्व का कहना है कि शकुन्तले ! तेरे को घर के बड़े-बड़े कार्यों से, पति की सेवा से, पुत्र के लालन-पालन आदि से क्षणभर की छुट्टी नहीं मिलेगी, तू मुझे शीघ्र भूल जायेगी । अतः तू मत घबड़ा ।

शकुन्तला—( पिता महर्षि कण्व के पैरों पर गिरकर प्रणाम करके ) हे पिताजी, मैं आपको प्रणाम करती हूँ ।
**कण्व—**पुत्रि ! तेरे लिए जो मैं चाहता हूँ, वह हो । अर्थात् तू सम्राट् की महिषी हो और चक्रवर्ती पुत्र की माता बनो ।
शकुन्तला—( दोनों सखियों के पास जाकर ) सखियों ! आओ, तुम दोनों एक ही साथ मेरी छाती से लग जाओ ।
दोनों सखियाँ—( एक साथ शकुन्तला की छाती से लिपटकर ) हे सखी ! यदि वह

चतुर्थोऽङ्कः २१३

शकुन्तला—इमिणा संदेहेण वो आकंपिदम्हि [अनेन संदेहेन वामाकम्पितास्मि । ] सख्यौ—मा भाआहि सिणेहो पावसंकी । [ मा भैषीः स्नेहः पापशङ्की । ] शाङ्ग्रवः—युगान्तरमारूढः सविता । त्वरतामत्रभवती । शकुन्तलाः—$^१$(आश्रममभिमुखी स्थित्वा) ताद कदा णु भूओ तवोवणं पेक्खिस्सं । [ तात कदा नु भूयस्तपोवनं प्रेक्षिष्ये ।:] कण्वः—श्रूयताम् ।


मधेयाङ्कितेऽङ्गुलीयके दर्शिते प्रत्यभिज्ञा भवेदिति गूढ-प्रकाशोभयार्थं साधारणं रहस्यमवबोधितम् ।

शकुन्तला—अनेन = अमुना भवतीभ्यामुक्तैन वां = युवयोः सन्देहेन = वाचिकेनोपदेशेन शङ्कया आकम्पिता = भीता अस्मि ।

सख्यौ—प्रियम्वदा अनसूया च समाश्वासयतः-मा भैषीः = भयभीता भव, स्नेहः = अनुरागः, पापम् = अमङ्गलं आशङ्कते तच्छील इति पापशङ्की = अनिष्टसन्देहवान् भवति । भयं मा कुरु आवाभ्यां स्नेहदयाय माशङ्क्य एवमुक्तवत्यावित्यर्थः ।

शाङ्ग्रवः—कालातिक्रममाशङ्क्य प्रस्थानाय प्रेरयत् ब्रवीति--सविता = भगवान् सूर्यः युगं = युगपरिमाणम् अन्तरम् इति युगान्तरम् = अवकाशम् हस्तचतुष्कविधगगन-प्रदेशम् अधिरूढः, प्राच्या दिश अग्रमागतः । 'युगं हस्तचतुष्केऽपि' इति विश्वकोश-प्रामाण्यात् सूर्यः उदयादेहंस्तचतुष्कप्रमाणं यावत् उन्नतमण्डलो जातः । अतः दिनस्यैकः प्रहरोऽभूदित्याशयः । अत्र भवती = पूज्या त्वरताम् = शीघ्रताम् करोतु । गमने त्वरा विधेया ।

शकुन्तला—अथ तपोवनस्नेहपरवशा सती शकुन्तला कण्वं परिपृच्छति तात ! = पितः ! कदा = कस्मिन् काले नु भूयः = पुनः तपोवनम् = आश्रमं प्रेक्षिष्ये = द्रक्ष्यामि । कदा नु पुनरत्र प्रत्यागमनं मे भवेदित्यर्थः ।

कण्वः—पुत्रि ! श्रूयताम् = त्वया आकर्ण्यताम् वार्धके पत्या सह भूयः त्वमत्र भूयः समेष्यसीत्याह--भूःवेति ।


राजर्षि दुष्यन्त तेरे को पहचानने में कुछ आना-कानी करें तो उनके नाम से अङ्कित यह अँगूठी तू परिचय के लिए उन्हें दिखला देना ।

शकुन्तला—अरी सखियों ! तुम्हारे इस सन्देह से तो मेरा हृदय अनिष्ट की आशंका से काँप उठा है ।

दोनों सखियाँ—हे सखि ! डरो मत, स्नेह सदा पाप को आशंका किया करता है । अतः हमने आशङ्कावश यों ही तुमसे कह दिया । इसमें भय की कोई बात नहीं ।

शाङ्ग्रव—भगवान् सूर्य चार हाथ ऊँचे चढ आये हैं । अर्थात् एक पहर दिन निकल गया है । अतः आप जल्दी करें ।

शकुन्तला—( आश्रम की ओर देखकर ) पिताजी, अब मैं इस तपोवन को पुनः कब देखूँगी । अर्थात् आप यहाँ मुझे कब बुलायेंगे ?

कण्व—हे पुत्री ! सुनो—


पाठा०—१. ( भूयः पितुरङ्कमाश्रिष्य ) ।

२१४अभिज्ञानशाकुन्तलम्

भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥१९॥

गौतमी--जादे परिहीअदि गमणवेला। णिवत्तेहि पिदरं। अहवा चिरेण वि पुणो पुणो एसा एव्वं मंतइस्सिदि। णिवत्तदु भवं। [ जाते परिहीयते गमनवेला। निवर्तय पितरम्। अथवा चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते। निवर्ततां भवान् । ]


अन्वयः--चिराय चतुरन्तमहीसपत्नी भूत्वा अप्रतिरथं दौष्यन्तिं तनयं निवेश्य तदर्पितकुटुम्बभरेण भर्त्रा सार्द्धं अस्मिन् शान्ते आश्रमे पुनः पदं करिष्यसि।

आश्रमविरहकातरां धर्मसुतां शकुन्तलां पुनराश्रमानयनायावसरं कथयितुं महर्षिः कण्वः कथयति--भूत्वेति। चिराय-चिरकालम्, चत्वारः = समुद्रा अन्तः =सीमा अवधयो यस्याः सा चतुरन्ता तस्या मह्याः = पृथिव्याः सपत्नी = समानभर्तृका इति चतुरन्तमहीसपत्नी भूत्वा न विद्यते प्रति = संमुखः रथं = स्यन्दनं यस्य स तमप्रतिरथम् = अप्रतियोगिनं जगदेकवीरं तनोति कुशलमिति तनयः तम् कुलविस्तारकं पुत्रं दौष्यन्ति = दुष्यन्तस्यापत्यं पुमान् दौष्यन्तिः तं दौष्यन्ति = दुष्यन्तात्मजं निवेश्य = महीभाररक्षणे नियोज्य यद्वा विवाहं कारयित्वा यस्मिन् पुत्रे अर्पितः = विन्यस्तः कुटुम्बस्य = पोष्यवर्गस्य राज्यं वा भरः = भारः येन स तेन तदर्पितकुटुम्बभरेण भर्त्रा = पत्या सार्द्धं = साकम् अस्मिन् = अत्र शान्ते = मनसः शान्त्योत्पादके आश्रमे = धर्मारण्ये, तपोवने पुनः = भूयः पदं = स्थानं करिष्यसि = विधास्यसि पुनराश्रमे त्वं वानप्रस्थयोग्ये काले समागत्य निवासं करिष्यतीत्यर्थः।

अर्थ भावः--वत्से ! इतः परं पतिगृहं गत्वा बहुदिनं चक्रवर्तिनो राजर्षेः दुष्यन्तस्य प्रधानमहिषीपदे स्थिता तत्र दिव्यान् राजभोगानुपभुञ्जाना यशस्विनमेकच्छत्रं पुत्रं प्रसूय तत्र राज्यभारं निवेश्य निश्चिन्तेन भर्त्रा दुष्यन्तेन सह चरमे वयसि विषयवासनासु विरतासु पुनः शान्त्येकनिकेतन तपोवने समागत्य वानप्रस्थं व्रतं पालयन्ती निवासं करिष्यसि।

अत्र मालादीपक-काव्यलिङ्गालङ्कारः वृत्तं च वसन्ततिलका ॥ १९ ॥

गौतमी--अनयोः ताततनयोः पुनः पुनः संलापेन गमनवेलातिक्रममाशङ्कमाना गौतमी महर्षि कण्वं शकुन्तलां च प्रतिवदति--जाते ! = पुत्रि ! गमनवेला = यात्रामुहूर्तः प्रयाणसमयः परिहीयते = अतिक्रामति गच्छति, पितरं = तातं महर्षि कण्वं निवर्तय = परावर्तय। अथवा = यद्वा एष एव विकल्पो वरीयान् चिरेणापि = चिरकालमपि पुनः


अधिक समय तक चारों समुद्रों से घिरी हुई पृथ्विी की सपत्नी = सौत होकर तथा असमान योद्धा अपने अजेय पुत्र दौष्यन्ति भरत को जन्म देकर उसके ऊपर राज्य का भार समर्पित कर अपने पति के साथ वृद्धावस्था में इस शान्त तपोवन में पुनः आवेगी ॥ १९ ॥

विशेष--प्राचीन काल के राजा लोग विषय सुख भोग लेने के बाद वृद्धावस्था में अपने योग्य पुत्र को राज्य का भार देकर स्त्री के साथ वन में निवास कर वानप्रस्थी का जीवन बिताते थे। इस नियम के अनुसार महर्षि कण्व ने शकुन्तला को अपने पति के साथ पुनः तपोवन में जाने का संकेत किया है।

गोतमी--हे बेटी, देख तेरी यात्रा का मुहूर्त बीत रहा है। अतः अब तो अपने पिताजी को छुट्टी दो (कण्व के प्रति) अथवा यह तो बहुत काल तक आपको जाने नहीं देगी, ऐसी ही कुछ न कुछ कहती ही रहेगी। अतः अब आप आश्रम को पधारिये।

चतुर्थोऽङ्कः २१५

कण्वः--वत्से ! उपरुध्यते 'तपोऽनुष्ठानम् ।

शकुन्तला--(भूयः पितरमाश्लिष्य) तवच्चरणपीडिदं तादसरोरं । ता मा अदिमत्तं मम किदे उक्कंठिदुं [ तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं मम कृत उत्कण्ठितुम् । ]

कण्वः--( सनिःश्वासम् ) ।

शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् । उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ २० ॥

पुनः = भूयो भूय एषा = इयं शकुन्तला एवं—इत्थं पूर्वोक्तवत् मन्त्रयिष्यते = तपोवन-विरहस्य भवद्विरहस्य असह्यत्वं वक्ष्यति । भवान् = भवानेव संलापमोहं परित्यज्य इतः स्थानात् निवर्तताम् = परावर्तताम् ।

कण्वः—गौतमीवचनमनुमन्यमानो महर्षिः प्राह-वत्से !=पुत्रि ! तपसः = तपस्याया अनुष्ठानम् = आचरणमिति तपोऽनुष्ठानम् उपलक्ष्यते = बाधितं भवति । एवं भूयो भूयः संल्लापप्रवर्तनेन मम तपोऽनुष्ठानस्य कालातिपातो भवेत् । अतः परावर्ते इति भावः ।

शकुन्तला—तपोऽनुष्ठानशब्दमाकर्ण्य तपःकृशं कण्वस्य कलेवरं सस्नेहं निरीक्षमाणा शकुन्तला महर्षि संश्लिष्य कथयति-तपश्चरणपीडितम् = तपश्चरणेन नित्यानुष्ठानेन, मदर्थं सोमतीर्थे यात्रया वा पीडितं = कृशं, दुर्बलम् तत् अतिमात्रं = अत्यन्तं मम कृते = मन्निमित्तम् उत्कण्ठितुं मा = न योग्यम् । कृशशरीरस्य तातस्य मदर्थं पुनः प्रयासप्रसङ्गो दुःसहो भवेदिति भावः ।

कण्वः—शकुन्तलोक्तौ कण्वः = काश्यपः ( सनिःश्वासं = निःश्वासपूर्वकं सशोकम् ) कथयति-शममेष्यतीति

अन्वयः—वत्से ! त्वया रचितपूर्वं उटजद्वारविरूढं नीवारबलिं विलोकयतः मम शोकः कथं नु शमम् एष्यति ।

शकुन्तलाविरहदुःखस्य निरन्तरमविस्मरणीयत्वं कथयन् महर्षिः कण्वो ब्रवीति-शममेष्यतीति । वत्से ! = हे धर्मतनये शकुन्तले ! त्वया = भवत्या रचितपूर्वं = पूर्वं रचितं रचितपूर्वं तादृशं—प्राक्प्रकीर्णम् उटजस्य = पर्णशालायाः द्वारे = प्रतिहारे प्रवेशमुखे विरूढं = संजातमिति उटजद्वारविरूढं = पर्णशालाप्रवेशमार्गेऽङ्कुरितम् नीवारः बलिं नीवार-बलिम् = पर्णशालायाः प्रवेशद्वारे त्वया भूतबलिरूपेण प्रकीर्णानां नीवाराणां जलसम्पर्केण उद्भूताङ्कुरानित्यर्थः । विलोकयतः = गमनागमनावसरे भूयो भूयोऽवलोकयतः मम कण्वस्य शोकः = त्वद्विरहजन्या पीडाविशेषः कथं नु = केन प्रकारेण शममेष्यति = शान्तिं गमिष्यति ।


कण्व—बेटी, तप-कार्य में बाधा हो रही है।

शकुन्तला (पुनः पिता के गले से लिपटकर) पिता जी, आपका शरीर तप अनुष्ठान से अधिक पीड़ित है। अतः मेरे लिए अधिक उत्कण्ठा मत कीजिएगा।

कण्व—(दीर्घ निःश्वास लेकर) बेटी, तेरे द्वारा बलि के रूप में दिए गये नीवार, जो कुटी के द्वार के आगे उग आये हैं, उन्हें देख तुझे स्मरण करके मेरा शोक तो बढ़ता ही जायेगा ॥ २० ॥

पाठ०--तपोवनानुष्ठानम् ।

२१६ अभिज्ञानशाकुन्तलम्

गच्छ शिवास्ते पन्थानः सन्तु । ( निष्क्रान्ता शकुन्तला सहयायिनश्च ) ।
सख्यौ--( शकुन्तलां विलोक्य ) हद्धी हद्धी । अन्तलिहिदा सउंदला वणराइए [ हा धिक् । हा धिक् । अन्तर्हिता शकुन्तला वनराज्या । ]
कण्वः--( सनिःश्वासम् ) अनसूये गतवती वां सहधर्मचारिणो । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् ।
उभे--ताद सउंदलाविरहिदं सुण्णं विअ तवोवणं कहं पविसावो । [ तात शकुन्तलाविरहितं शून्यमिव तपोवनं प्रविशावः । ]
कण्वः--स्नेहप्रवृत्तिरेवंदर्शिनी । ( सविमर्शं परिक्रम्य ) हन्त भोः ! शकुन्तलां पतिकुलं, विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः—


अर्थात्--त्वया प्रत्यहं पर्णशालायाः प्रवेशप्रतिहारे भूतबलिरूपेण विकीर्णानां नीवाराणां जलसम्पर्के संजातानङ्कुरितान् अवलोकयतो मम त्वद्विरहजन्या शांकः कथं शान्तिमेष्यति । अत्रानुप्रास काव्यालिङ्ग-परिकरा अलङ्कारा आर्याछन्दश्च ॥ २० ॥

ततः शकुन्तलाया गमनमनुमन्यमानो महर्षिः कण्व आशिषं प्रयुङ्क्ते गच्छ = व्रज, पतिकुलं व्रज = याहि, ते=तव पन्थानः=मार्गाः शिवाः=मङ्गलमयाः कल्याणप्रदाः, सन्तु=भवन्तु । ( शकुन्तला सहयायिनः = अनुगन्तारश्च निष्क्रान्ताः रङ्कभूमितः बहिर्निर्गताः )

सख्यौ—शकुन्तलाया अदर्शने विरहवेदनापीडिते प्रियम्वदानसूये सनिर्वेदमाहतुः--हा धिक् ! हा धिक् ! प्रियसखी शकुन्तला वनराज्या = वनपङ्क्त्या अन्तर्हिता = गोपायिता व्यवहिता चक्षुगोचरमतिक्रान्ता

कण्वः—शकुन्तला स्नेहपरवशत्या महर्षिः कण्वोऽपि सखेदं तदेवानुवदति—( सनिःश्वासम् = निश्वासपूर्वकम् ) हे अनसूये ! वां = युवयोः तवं प्रियम्वदायाश्च सहधर्मचारिणी सखी मदनुशासनेन युवाभ्यां सह चरितधर्मा । गतवती = गता, शोकं = विरहवेदनाम् निगृह्य = अवरुध्य वशीकृत्य प्रस्थितं = प्रयातं मां = तातम् अनुगच्छतम् = अनुसरतम् मत्पृष्ठे भूत्वा आश्रमं प्रति मया सहैव युवाभ्यां समागच्छतमित्यर्थः ।

उभे—ते शकुन्तलाविरहितयोरात्मनोः तपोवनप्रवेशस्याशक्यतां प्रतिपादयन्त्यां आहतुः—तात ! = हे पितः ! शकुन्तलया विरहितं शकुन्तलाविरहितं = शकुन्तलाशून्यं प्रियसख्या शकुन्तलाया अभावेन शोभारहितं शून्यमुदासीनं तपोवनम् = आश्रमम् कथं = केन प्रकारेण प्रविशावः = अन्तर्गच्छावः ।


अच्छा, हे पुत्रि ! अब तू जा, तेरे ये मार्ग कल्याणकारी व सुखप्रद हों । ( शकुन्तला के साथ गौतमी, शार्ङ्गरव एवं शारद्वत जाते हैं )

दोनों सखियाँ=-( शकुन्तला को देखकर ) हाय, हाय, अरण्य-पंक्ति से शकुन्तला ओट में हो गई । अब वह हमारी आँखों से ओझल हो गई ।

कण्व-( निःश्वास लेकर ) हे अनसूये ! हे प्रियम्वदे ! साथ धर्म का आचरण करने वाली तुम दोनों की सखी तो अब पतिगृह को चली गई । अब शोक रोककर तुम दोनों मेरे पीछे आओ, आश्रम को चलें ।

दोनों सखियाँ-हे तात ! शकुन्तला के बिना यह तपोवन तो अब शून्य-सा मालूम हो रहा है, हम लोग कैसे प्रवेश करें ।

चतुर्थोऽङ्कः २१७

अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः ।
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ २१ ॥

( इति निष्क्रान्ताः सर्वे )
इति चतुर्थोऽङ्कः ।


कण्वः— सख्योरुक्तौ शून्यत्वप्रतिपत्तिहेतुं प्रदर्शयन् महर्षिः कण्व अवरहितस्नेहस्य = प्रेम्णः प्रवृत्तिः = प्रवाहः इति स्नेहप्रवृत्तिः = स्नेहानुबन्धः, एवं द्रष्टुं शीलं यस्याः सा एवं दर्शिनी = इत्थं विचारा तपोवनस्य शून्यत्वमासिका शकुन्तलायां युवयोः स्नेहातिशयात् तद्विरहे तपोवनमिदं शून्यमिव मासते इति भावः । ( सविमर्शं-विमर्शन = चिन्तया सह सविमर्शं परिक्रम्य = मण्डलाकारमुटजाङ्गुणे परिभ्रम्य सविमर्शमभिनीय ) आबाल्यात् पालितायाः शकुन्तलायाः पतिगृहे प्रेषणेनात्मनः कृतकृत्यतामनुभवन् महर्षिः ससन्तोषं वदति—हन्त भोः ! अहो ! शकुन्तलां = स्वधर्मपुत्रीम् पतिकुलं = दुष्यन्तसमीपं, विसृज्य = संप्रेष्य इदानीम् = अधुना स्वास्थ्यं = निश्चिन्तत्वेन प्रकृतिस्थत्वं प्रकृतावस्थानम् मनो-निवृत्तिः सुखम् लब्धं = प्राप्तम् । तदेव विवृणन्नाह—अर्थो हि—

अन्वयः— हि कन्या परकीय एवार्थः तामद्य परिग्रहीतुः संप्रेष्य अयं मम अन्तरात्मा प्रत्यर्पितन्यास इव प्रकामं विशदः जातः ।

अथ केनापि विश्वस्तेन पुंसा स्वान्तिके न्यासीकृतं धनं भूयः स्थापकाय प्रत्यर्पणे हृदये वैशद्यमिवाद्यात्मीयमपि कस्यारत्नरूपं धनमुद्वोढुः समीपे संप्रेष्य ममान्तरात्मा नितरां प्रसन्ने जात इति कथयति महर्षिः कण्व कन्येति । हि = निश्चये कन्या = स्वकीयापि दुहिता परकीया एव, परस्यायं परकीयः परसम्बन्धी एव अर्थः = धनम् उत्पत्त्यनन्तरमेव कन्या-रूपोऽर्थः परकीयत्वेनैव ज्ञातः । अतः तां = कन्याम् अद्य = इदानीम् परिग्रहीतुः—परिणे-तुर्वरस्य राजर्षेः दुष्यन्तस्य पार्श्वे संप्रेष्य = प्रस्थाय अयम् = एषः मम=मुनेः अन्तरात्मा=आभ्यन्तर मनः प्रत्यर्पितः = स्थापकाय प्रदत्तः न्यासः = पूर्वविश्वासेन स्थापितः द्रव्यादि-रूपः निक्षेपः येन स प्रत्यर्पितन्यास इव=यथा प्रकामं = अत्यधिकम् विशदः = चिन्तात्याग-मनेन निर्मलः जातः = अभूत् । अत्रोपमा-काव्यलिङ्गोत्प्रेक्षालङ्काराः छन्दश्चोपजाति-रस्ति ॥ २१ ॥

कण्व— स्नेह के कारण से ही तुम्हें ऐसा मालूम पड़ता है ( विचार करते हुए चल कर ) अहा, शकुन्तला को अपने पति के घर भेजकर मैंने आज स्वास्थ्य प्राप्त किया। अर्थात् मुझे चित्त को शान्ति मिली, क्योंकि—

कन्यारूपी धन तो दूसरे ( पति ) का ही है। आज उसको उसके पाणिग्रहीता पति के पास भेजकर मैं उसी प्रकार प्रसन्नचित्त तथा चिन्तामुक्त ( निश्चिन्त ) हो गया हूँ जिस प्रकार बहुत दिनों से अपने पास रखे हुए दूसरे की धरोहर को उसके स्वामी को वापस सौंपकर मनुष्य प्रसन्न तथा चिन्ता मुक्त हो जाता है ॥ २१ ॥

( सभी रंगमंच से बाहर चले जाते हैं )
॥ चतुर्थ अङ्क समाप्त ॥


पाठा०— १. तामेवं-।

पञ्चमोऽङ्कः (प्रत्याख्यान - राजसभा में शकुन्तला अस्वीकार)

पञ्चमोऽङ्कः

( ततः प्रविशत्यासनस्थो राजा विदूषकश्च )

विदूषकः--( कर्णं दत्त्वा ) भो वअस्स संगीदसालंत्तरे अवधाणं देहि। कल-विसुद्धाए गोदीये सरसजोओ सुणीअदि। जाणे तत्तहोदी हंसवदिआ वण्ण-परिअअं करेदि त्ति। [ भो वयस्य संगीतशालान्तरेऽवधानं देहि। कलविशुद्धायागीतेः स्वरसंयोगः श्रूयते। जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति। ]


पूर्वस्मिन् चतुर्थेऽङ्के शकुन्तलायाः पतिगृहप्रयाणस्य प्रकारः प्रदर्शितः। अत्र पञ्च-मेऽङ्के च शेषभूतमिति वृत्तं वर्णयिष्यते।

( चतुर्थस्याङ्कस्यान्ते दुष्यन्तस्य तन्नर्मसचिवस्य विदूषकस्य चावसरोचितं प्रवेशमाह— ततः = तदनन्तरम् आसनस्थः = सिंहासनस्थः राजा = दुष्यन्तः विदूषकः = माधव्यश्च प्रविशति = रङ्गभूमा आविर्भवति । )

महर्षेदुर्वाससः शापेन विस्मृतशकुन्तलाविषयः राजधान्यां हस्तिनापुरे यथावत् राजकार्याणि कुर्वाणो विश्रान्त्यवसरे राजा दुष्यन्तः सङ्गीतशालायां प्रवृत्तं गीतमाकर्ण्य सहोपपविष्टेन माधव्येन तथाविधं गीतमाकर्णयितुमनुरुध्यते—भो वयस्य !

विदूषकः—अये माधव्य ! ‘नृत्यं गीतं च वाद्यं च त्रयं सङ्गीतमुच्यते ।’ तदर्था शाला सङ्गीतशाला तस्या अभ्यन्तरे मध्ये संगीतशालाभ्यन्तरे = गानवाद्यादिगृहाभ्यन्तरे अव-धानं = ध्यानं देहि = मनोयोगपूर्वकं सावधानमाकर्णय । कला = मधुरास्फुटध्वनियुक्ता विशुद्धा = शङ्कितभीतादिदोषरहिता, ग्रामरागजनिका चेति कलविशुद्धा तस्याः कल-विशुद्धायाः निर्दोषाया गीतेः = गानस्य स्वराणां = षड्जादीनां संयोगः = यथालक्षणं सम्बन्धः = गीतिसम्बन्धीस्वरालापः श्रूयते = आकर्ण्यते । सङ्गीतभेदो यथा—

‘गीतयः पञ्च शुद्धाख्या भिन्ना गौडा निवेसरा । साधारणी विशुद्धा स्याद्वक्रैललितैः स्वरैः ॥’

जाने = प्रतीयते तत्रभवती आदरणीया हंसपदिका = काचित्प्रधाननर्तिका देवीष्वेका वा वर्णपरिचयं करोति = स्थाप्यारोह्यावरोह्यात्मकगानक्रियाभ्यासं कुरुते । तथा हि भरतः ।

‘या देवविषया गीतिर्देववाणिस्तु सा भवेत् । मनुष्यविषया सैव वर्णनाम्ना प्रकाशते ॥ गानक्रियोच्यते वर्णः सः चतुर्धा निरूपितः । स्थाप्यारोह्यावरोही च सञ्चारी…………॥’


( इसके बाद सिंहासन पर विराजमान राजा और विदूषक का प्रवेश )

विदूषक—( कान लगाकर ) हे मित्र ! संगीतशाला = संगीतभवन की ओर जरा ध्यान दो मधुर और अस्फुट ध्वनिवाले शुद्ध संगीत का स्वरसंयोग = स्वरालाप सुनाई पड़ता है । मालूम पड़ता है कि आदरणीया महारानी हंसपदिका गाना = सरगम सीख रही हैं ।

पञ्चमोऽङ्कः

२१९

राजा—तूष्णीं भव। यावदाकर्णयामि। ( आकाशे गीयते )

अहिणवमहुलोलुवो भवं तह परिचुंबिअ चूअमंजरिं ।
कमलवसइमेत्तणिव्वुदो महुअर विम्हरिओ सि णं कहं ॥ १ ॥
[ अभिनवमधुलोलुपो भवांस्तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिर्वृत्तो मधुकर ! विस्मृतोऽस्येनां कथम् ॥ १ ॥ ]

राजा—गीताकर्णनेऽहमवहितोऽस्मि तावत्तूष्णीं भवेत्याह—तूष्णीम् = मौनी भव यावत् अहम् आकर्णयामि = शृणोमि ( आकाशे गीयते ) ।

अथ हंसपदिका राज्ञो दुष्यन्तस्य स्वमहादेव्या उपेक्षाया भ्रमरस्योपालम्भनव्याजेन गीतिकां गायति—अभिनवेति

अन्वयः—हे मधुकर ! अभिनवमधुलोलुपः भवान् तथा चूतमञ्जरीं परिचुम्ब्य कमल-वसतिमात्रनिर्वृत्तः ( सन् ) एनां कथं विस्मृतः असि ।

सङ्गीतशालाभ्यन्तरे राज्ञा दुष्यन्तेन कृतां महादेव्यो वसुमत्या उपेक्षामाधारीकृत्य मधुकरोपालम्भपूर्वकं हंसपदिकया गीयमानां गीतिकामाकर्णयति–अभिनवेति । हे मधुकर ! = मधुरसास्वादलम्पटत्यान्वर्थनामधेय, पक्षान्तरे नित्यनवाङ्गेनोपभोगकामुकां राजन् ! अभिनवे = नूतने मधुनि पुष्परसविशेषे लोलुपः = सतृष्णः इति अभिनवमधुलोलुपः तथा = तेन प्रकारेण यथानुभूतं चूतमञ्जरीं = अभिनवरसाम् आम्रमञ्जरीम् परि-चुम्ब्य = परितः समन्तात् चुम्बित्वा सर्वाङ्गीणं रसमास्वाद्येत्यर्थः । कमलं = पद्ममेव वसतिः = वासः सा एव कमलवसतिमात्रम् तेन निर्वृत्तः सुखितः इति कमलवसतिनिर्वृत्तः पक्षान्तरे कवलवसतिः = पद्मिनी, कामशास्त्रोक्तगुणविशिष्टा वराङ्गना तन्मात्रेण = तदां स्वादनमात्रेण निर्वृतः सुखामिमानी तथाभूतः सन् एनां = चूतमञ्जरीं कथं = केन प्रकारेण विस्मृतः असि = विस्मर्तुं न योग्यम् । विस्मरणे किञ्चित्कारणं न पश्यामीत्युपालम्भः ।

अयं भावः—प्रत्यहमभिनवनायिकोपभोगकामुक ! आम्रमञ्जर्याः रसमास्वाद्य मधु-


राजा—अच्छा, थोड़ा तुम चुप रहो, तो मैं भी जरा सुनूँ ( आकाश में = नेपथ्य से पृथक् किसी स्थान में गीत गाया जा रहा है ) ।

हे मधुकर = भंवर ! आप तो मधु = नये-नये पुष्पो के रस के ही लोभी हो, आपने आम की नई मञ्जरी का ( मेरा ) प्रेम से रस का उपभोग करके अब कमल को पाकर ( कमला नामक दूसरी नई नवेली नायिका को पाकर ) उसके आनन्द में विभोर होकर इस सुरस आम्र की मञ्जरी को ( मुझको ) अब कैसे भूल गये हो ? हे भ्रमर ! कभी तो इसकी भी ( मेरी भी ) कुछ सुध लिया करो ॥ १ ॥

विशेष—यहाँ हंसपदिका का तात्पर्य है—जिसका पैर या पद = शब्द हंस के समान हो । हंसपदिका एक नर्तकी है या दुष्यन्त की रानियों में से एक है, जिसे कभी प्यार करके दुष्यन्त अब उससे विरत हो गये हैं, उस व्यवहार से खिन्न होकर वह नवोढा इस पद्य में वह भाव व्यक्त कर रही है—जिस प्रकार भ्रमर नई आम्रमञ्जरी का उपभोग कर कमल पर जाकर मग्न हो जाता है उसी प्रकार आपने मेरी नई जवानी का उपभोग कर अन्य नारियों में विभोर हैं । वस्तुतः इस पद्य से शकुन्तला का स्मरण दिलाया गया है । यहाँ राजा दुष्यन्त भ्रमर कहे गये हैं, शकुन्तला आम्र की मञ्जरी कही गई है, अन्तःपुर की रानिया कमल के समान मानी गई है। राजा दुष्यन्त ने कण्व के आश्रम पर शकुन्तला से प्रेम कर राजधानी आकर उसे भूल गये थे । राजा को शकुन्तला का भूल जाना यह सूचित करता है कि महर्षि दुर्वासा जी का शाप राजा पर पूर्णरूप से प्रभावकारी है । उसी की स्मृति में यह पद्य निर्मित है ।

२२०अभिज्ञानशाकुन्तलम्

राजा— अहो रागपरिवाहिनी गीतिः।
विदूषकः— किं दाव गीदीए अवगओ अक्खरत्थो। [किं तावद् गीतेः अवगतो-ऽक्षरार्थः]।
राजा— (स्मितं कृत्वा) सकृत्कृतप्रणयोऽयं जनः। तस्या देवीवसुमतीमन्तरेण मदुपालम्भमवगतोऽस्मि। सखे माढव्य! मद्वचनादुच्यतां हंसपदिकानिपुणमुपा-लब्धोऽस्मीति।
विदूषकः— जं भवं आणवेदि। (उत्थाय) भो वअस्स गहीदस्स ताए परकी-एहिं हत्थेहिं सिहंडए ताडीअमाणस्स अच्छराए वीदराअस्स विअ णत्थि दाणि

कर इव स्नेहातिशयां महादेवीं वसुमतीं गाढं परिचुम्ब्य कथमेनां विस्मृतवानसि। सद्य एवैनां सम्भावय। मधुव्रते मधुकरः कार्मुकेऽपि प्रंकीर्तितः।' इति विश्वः। पताकास्थानकम् इदमाक्षेपनामकम् अङ्गं च। तदुक्तं धनञ्जयेन दशरूपके—

'गर्भबीजसमुद्भेद्यादाक्षेपः परिकीर्तितः।'

अत्राप्रस्तुतप्रशंसालङ्कारः, अपरवक्त्रं च छन्दः॥ १॥

राजा— हंसपदिकया गीयमानस्य गानस्य प्रशंसां कुर्वन् राजा = ब्रवीति—अहो! = आश्चर्यम्। रागपरिवाहिनी—रञ्जनं रागः तस्य परिवाहः = निष्पन्दः सोऽस्ति यस्यां सा रागपरिवाहिनी गीतिः = गानम्।

विदूषकः— पृच्छति राजानम्? किं तावत् = साकल्येन गीतेः = गानस्य अथ रागाणां = स्वरावष्टम्भनभूतानामर्थः = निगूढोऽभिसन्धिरित्यक्षरार्थः, बाह्यार्थस्तु मादृशेनाप्यवगन्तुं सुशकः गूढोऽर्थः किं भवता ज्ञातः इति प्रश्नः।

राजा— (स्मितं कृत्वा = ईषद्विहस्य) मया ज्ञातं रहस्यार्थं त्वन्निबन्धनेन कथया-मीति मन्दहासः। रहस्यार्थं कथयति—सकृत् = एकवारं कृतः = विहितः प्रणयः = रति-क्रीडापरिचयः यस्मिन् स सकृत्कृतप्रणयः अयं जनः = अहमित्यक्षरार्थः। तस्याः हंस-पदिकायाः देवीवसुमतीं = महादेवीं वसुमतीं = अन्तरेण = प्रति मदुपालम्भम् = मत्सबन्ध-मुपालम्भम् अवगतः = ज्ञातवान् अस्मि = अहम्। सखे माढव्य! = वयस्य माढव्य! मद्वचनात् = मम सन्देशात् हंसपदिक! उच्यताम् = कथ्यताम् निपुणं = सुष्ठु मधुकर-व्याजेन कृतत्वात् शत्रुर्यम् उपालब्धः = उपालम्भनगोचरीकृतः अस्मि।

विदूषकः— यद् भवान् आज्ञापयति (उत्थाय) भो वयस्य! = हे मित्र! भवदा-ज्ञया तया करणे औचित्यानौचित्यचिन्ता मम नास्ति यथाज्ञासामहमनुतिष्ठामि। तया =


राजा— रागिनियों से युक्त या अनुराग से भरा हुआ यह गान बड़ा ही मधुर है। अर्थात् यह गान मधुर अनुराग प्रवाहित कर रहा है।

विदूषक— हे वयस्य! क्या, आपने इस गान के अर्थ पर भी ध्यान दिया है?

राजा—(हँसकर) हमने कभी इससे अनुराग किया था, जिसे हम अब भूल गये हैं? यही इन अक्षरों का अर्थ है। अब हम इस हंसपदिका से दूर रहते हैं। इसीलिए भ्रमर के ब्याज से हमको उलाहना दिया गया है। अतः हे मित्र माढव्य! (मधुपुरी = मथुरा के चौबे जी) तुम मेरी ओर से जाकर रानी हंसपदिका से कहो कि वाह, तुमने तो हमें खूब उलाहना दिया?

विदूषक— आपकी जैसी आज्ञा (उठाकर) परन्तु हे मित्र! जैसे अप्सरा के द्वारा पकड़े गये

पञ्चमोऽङ्कः २२१

मे मोक्खो । [ यद्भवानाज्ञापयति । भो वयस्य गृहीतस्य तया परकीयेर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ]

राजा—गच्छ नागरिकवृत्त्या ^१संज्ञापयेनाम् ।

विदूषकः—का गई । [ का गतिः । ] ( इति निष्क्रान्तः । )

हंसपदिकया परकीयैर्हस्तैः दासीहस्तैः शिखण्डके = शिखायां काकपक्षे गृहीत्वा स्वस्थानीकृतस्य ताड्यमानस्य मम अप्सरसा = देवाङ्गनया गृहीतस्य वीतरागस्य निस्पृहस्य तपस्विनः इव यथा मे = मम विदूषकस्य तदानीमधुना मोक्षः = मुक्तिः नास्ति ।

अयं भावः—यथा इन्द्रनिर्देशेन देवकार्यं सम्पादयितुं कयाचिदप्सरसा हावभावनृत्यगीतादि-द्वारा स्ववशीकृतस्य कस्यचित् निस्पृहस्य तपस्विनः स्वस्थानच्युतेः पुनः मोक्षः = अपवर्गो न भवति तथैव भवद्दर्शनं सम्पादयितुं हंसपदिकया शिखां गृहीत्वा दासीद्वारा ताड्यमानस्य मम तत्सकाशात् मुक्तिः=मोचनं न भवेत् । अतस्तत्र भवदागमनमावश्यकम् । यदि भवान् नागच्छेत् तदा मदुपरि महत् सङ्कटं समापतेदिति भावः ।

राजा—तत्रोपायमुपदिशति—नागरिकवृत्त्या = नागरिकस्य = अग्राम्यस्य विदग्धस्य वृत्त्या = व्यवहारेण, वैदग्ध्येन एनां = हंसपदिकां संज्ञापय = सूचय, कथय यथा सा अन्यापदेशेन मामुपलभते तथा त्वमपि सहजां ग्रामीणवृत्तिं परित्यज्य मत्सचिव्यसमुचितां नागरिकवैदग्धीमाश्रित्य सापदेशं भङ्ग्या तामुपालमस्व । एवं कृते त्वं तया परिभूतो न भविष्यसीत्यर्थः ।

विदूषकः—का गतिः ? = कः उपायः ? त्वदादेशोल्लङ्घने त्वदेकावलम्बस्य मम न कोऽप्यवलम्बः स्यात् । अतो गमिष्यामि यद्वा नागरिकवैदग्धीमजानतो बुद्धिहीनस्य मम अस्मिन् कर्मणि कोऽभ्युपायस्तथापि केवलं भवदादेशानुसारमेव गच्छामीत्यर्थः ( इति = एवं कथयित्वा निष्क्रान्तः = रङ्गभूमितो बहिर्गतः ) ।

वीतराग तपस्वी की मुक्ति नहीं होती उसी प्रकार दासियों के हाथों पकड़े गये केशपाश वाले मेरी मुक्ति नहीं है । अर्थात् हंसपदिका मेरी खूब खबर लेगी, अपनी यह विपत्ति आपने मेरे शिर पर डाल दी ।

विशेष—यहाँ माढव्य नामक विदूषक का कहना है कि जिस प्रकार रागरहित तपस्वी को अप्सरा नहीं छोड़ती, उसको वह तपोभ्रष्ट कर देती है, उसी प्रकार यह हंसपदिका भी मुझे नहीं छोड़ेगी, अपनी दासियों से मेरे शिर के बाल पकड़वा कर मेरी खूब दुर्गति बनायेगी, यह सोचकर कि इसी ने मुझसे राजा को विरक्त कर दिया है । बड़े-बड़े ऋषि-महर्षियों को अप्सरायें तपोभ्रष्ट कर ही देती हैं । जैसे वीतराग, त्यक्तगृह वनवासी मुनि के पीछे कोई अप्सरा = दिव्य स्त्री लग जाय तो उसकी समाधि को भंगकर उसके मोक्षमार्ग में बाधा उपस्थित कर ही देती है—अर्थात्—जब कोई दिव्य अप्सरा किसी वीतराग तपस्वी को किसी प्रकार फँसा लेती है तब उस बेचारे तपस्वी की मुक्ति दुर्लभ हो जाती है, वह भ्रष्ट होकर अपने वास्तविक लक्ष्य से च्युत हो जाता है । हे राजन् ! प्रेमरस से शून्य मेरे पीछे भी आपने हंसपदिका रूपी चुड़ैल की आफत लगा दी है, जिससे मेरा बचना कठिन है ।

राजा—जाओ, नागरिक वृत्ति = अपनी चतुराई से शिष्टतापूर्वक उसे सन्देश सुनाना, ग्रामीण की तरह नहीं ।

विदूषक—तो क्या उपाय है, जाना ही पड़ेगा ( जाता है ) ।


पाठ०—१. शान्तयैनाम् ।