अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 288, कुल 540 में से
संदर्भ में पढ़ें२०६ अभिज्ञानशाकुन्तलम्
कण्वः—
अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन- स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ १६ ॥
**कण्वः—**मद्वचनात्–इत्यादिनोक्तं विवृण्वन् महर्षिः कण्वो ब्रवीति--अस्मानिति ।
**अन्वयः—**अस्मान् संयमधनान् अस्मान् आत्मनः उच्चैः कुलं च, त्वयि अस्याः कथ-मपि अबान्धवकृतां तां स्नेहवृत्तिं च साधु विचिन्त्य इयं दारेषु सामान्यप्रतिपत्तिपूर्वकं दृश्या । अतः परं भाग्यायत्तम्, तत् बन्धुभिः न वाच्यं खलु ।
राज्ञे दुष्यन्ताय सन्देष्टव्यमर्थं विवृण्वन् महर्षिः कण्वः कथयति--अस्मानिति । अस्मान् = नः संयमः = आत्मदमनात्मकं तपः एव धनं = सर्वस्वं येषां ते तान् संयमधनान् = तपोधनान् अस्याः शकुन्तलाया पितृत्वेन सम्बन्धिनं मां = कण्वम् साधु = सम्यक् विचिन्त्य = विचार्य आत्मनः = स्वस्य उच्चैः = आभिजात्यविभूत्यादिभिः श्रेष्ठम्, उन्नतं सततोदितं कुलं = पौरवान्वयं च साधु विचिन्त्य तादृशकुलोत्पन्नस्य तवालीकप्रतारणं न योग्य-मित्यर्थः, त्वयि = भवति सर्वदा = सर्वप्रकारेण कमनीये राजनि अस्याः = त्वयैकशरणा-याः शकुन्तलायाः कथमपि = केनापि प्रकारेण साक्षात् परम्परया परोक्षं वा अबान्धवकृताम् बान्धवैः कन्यादानाधिकारिभिरस्माभिर्विनाकृतां विहिताम् प्रक्रान्ताम् = अतिशयितां स्वाभाविकीं स्नेहवृत्तिं = रागाधिक्यं च साधु विचिन्त्य त्वया = भवता, त्वं स्वकर्तव्यं स्वय-मेव जानासि तथापि मदुपदेशोऽयं दुहितृवात्सल्यादिति भावः । इयं = अस्मद्धर्मदुहिता तव धर्मदाराः शकुन्तला दारेषु पूर्वगृहीतपुरन्ध्रीषु, भार्यासु सामान्यप्रतिपत्तिपूर्वकं-सामान्या = इतरदारसाधारणी या प्रतिपत्तिः बहुमानः तत्पूर्वकं = तत्पुरस्कारेण दृश्या दर्शनीया, गणनीया अन्यतमत्वेनावेक्षणीया । अर्थात्त्वामात्मनः सत्कुलसंभूतत्वम् अस्माकं महत्त्वम्, अस्यां स्नेहप्रवाहस्याकृत्रिमत्वं साधु विचार्य बहुमानपुरःसरमियं शकुन्तला पालनीयेत्यर्थः । विशेषः कुतो नाभ्यर्थ्यते इत्यत आह—अतः परं = उक्तादतिरिक्तं भाग्यायत्तम् वध्वाः सौभाग्याधीनम्, अतः तत् वधूवन्धुभिः = पितृभ्रातृप्रभृतिभिः कन्यापक्षीयैः आप्तजनैः न वाच्यं = न वक्तव्यम् प्रधानमहिषीपदं तु भाग्यायत्तम् वात्सल्यमीप्सितमपि प्रार्थना-मात्रेणालभ्यत्वान्नैव प्रार्थनीयम् । अतो नोच्यते इति भावः ।
**अर्थ भावः—**राजन् ! पूर्वोक्तं सर्वं साधु विचार्य मुग्धाया अस्याः शकुन्तलाया
**कण्व—**हे राजन् ! संयम धन = इन्द्रिय निग्रही और तपस्यापरायण हमारी प्रतिष्ठा एवं मान-मर्यादा को भली-भांति ध्यान में रखते हुए तथा अपने उच्चकुल पौरववंश की ओर देखते हुए तथा अपने में शकुन्तला की बन्धु-बान्धवों से न कराई हुई स्वाभाविक इस अनिर्वचनीय विशिष्ट प्रेम प्रवृत्ति को भी देखते हुए इस शकुन्तला को अपनी और स्त्रियों के बराबर ही समझना, यही हमारा कहना है । इससे अधिक = इसे ही महारानी बनाना, यह मैं नहीं कहना चाहता हूँ, क्योंकि पति के विशेष स्नेह, अनुराग और महारानी पद की प्राप्ति तो अपने भाग्य और गुणों के ही अधीन है । अतः उसके लिए हमारा कुछ भी कहना व्यर्थ ही है ॥ १६ ॥
विशेष—चतुर्थ अङ्क के उत्तम श्लोकों में यह तीसरा श्लोक है । अपनी कन्या के कल्याण