भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 297, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 297

चतुर्थोऽङ्कः २१५

कण्वः--वत्से ! उपरुध्यते 'तपोऽनुष्ठानम् ।

शकुन्तला--(भूयः पितरमाश्लिष्य) तवच्चरणपीडिदं तादसरोरं । ता मा अदिमत्तं मम किदे उक्कंठिदुं [ तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं मम कृत उत्कण्ठितुम् । ]

कण्वः--( सनिःश्वासम् ) ।

शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् । उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ २० ॥

पुनः = भूयो भूय एषा = इयं शकुन्तला एवं—इत्थं पूर्वोक्तवत् मन्त्रयिष्यते = तपोवन-विरहस्य भवद्विरहस्य असह्यत्वं वक्ष्यति । भवान् = भवानेव संलापमोहं परित्यज्य इतः स्थानात् निवर्तताम् = परावर्तताम् ।

कण्वः—गौतमीवचनमनुमन्यमानो महर्षिः प्राह-वत्से !=पुत्रि ! तपसः = तपस्याया अनुष्ठानम् = आचरणमिति तपोऽनुष्ठानम् उपलक्ष्यते = बाधितं भवति । एवं भूयो भूयः संल्लापप्रवर्तनेन मम तपोऽनुष्ठानस्य कालातिपातो भवेत् । अतः परावर्ते इति भावः ।

शकुन्तला—तपोऽनुष्ठानशब्दमाकर्ण्य तपःकृशं कण्वस्य कलेवरं सस्नेहं निरीक्षमाणा शकुन्तला महर्षि संश्लिष्य कथयति-तपश्चरणपीडितम् = तपश्चरणेन नित्यानुष्ठानेन, मदर्थं सोमतीर्थे यात्रया वा पीडितं = कृशं, दुर्बलम् तत् अतिमात्रं = अत्यन्तं मम कृते = मन्निमित्तम् उत्कण्ठितुं मा = न योग्यम् । कृशशरीरस्य तातस्य मदर्थं पुनः प्रयासप्रसङ्गो दुःसहो भवेदिति भावः ।

कण्वः—शकुन्तलोक्तौ कण्वः = काश्यपः ( सनिःश्वासं = निःश्वासपूर्वकं सशोकम् ) कथयति-शममेष्यतीति

अन्वयः—वत्से ! त्वया रचितपूर्वं उटजद्वारविरूढं नीवारबलिं विलोकयतः मम शोकः कथं नु शमम् एष्यति ।

शकुन्तलाविरहदुःखस्य निरन्तरमविस्मरणीयत्वं कथयन् महर्षिः कण्वो ब्रवीति-शममेष्यतीति । वत्से ! = हे धर्मतनये शकुन्तले ! त्वया = भवत्या रचितपूर्वं = पूर्वं रचितं रचितपूर्वं तादृशं—प्राक्प्रकीर्णम् उटजस्य = पर्णशालायाः द्वारे = प्रतिहारे प्रवेशमुखे विरूढं = संजातमिति उटजद्वारविरूढं = पर्णशालाप्रवेशमार्गेऽङ्कुरितम् नीवारः बलिं नीवार-बलिम् = पर्णशालायाः प्रवेशद्वारे त्वया भूतबलिरूपेण प्रकीर्णानां नीवाराणां जलसम्पर्केण उद्भूताङ्कुरानित्यर्थः । विलोकयतः = गमनागमनावसरे भूयो भूयोऽवलोकयतः मम कण्वस्य शोकः = त्वद्विरहजन्या पीडाविशेषः कथं नु = केन प्रकारेण शममेष्यति = शान्तिं गमिष्यति ।


कण्व—बेटी, तप-कार्य में बाधा हो रही है।

शकुन्तला (पुनः पिता के गले से लिपटकर) पिता जी, आपका शरीर तप अनुष्ठान से अधिक पीड़ित है। अतः मेरे लिए अधिक उत्कण्ठा मत कीजिएगा।

कण्व—(दीर्घ निःश्वास लेकर) बेटी, तेरे द्वारा बलि के रूप में दिए गये नीवार, जो कुटी के द्वार के आगे उग आये हैं, उन्हें देख तुझे स्मरण करके मेरा शोक तो बढ़ता ही जायेगा ॥ २० ॥

पाठ०--तपोवनानुष्ठानम् ।