अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 296, कुल 540 में से
संदर्भ में पढ़ें| २१४ | अभिज्ञानशाकुन्तलम् |
|---|
भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥१९॥
गौतमी--जादे परिहीअदि गमणवेला। णिवत्तेहि पिदरं। अहवा चिरेण वि पुणो पुणो एसा एव्वं मंतइस्सिदि। णिवत्तदु भवं। [ जाते परिहीयते गमनवेला। निवर्तय पितरम्। अथवा चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते। निवर्ततां भवान् । ]
अन्वयः--चिराय चतुरन्तमहीसपत्नी भूत्वा अप्रतिरथं दौष्यन्तिं तनयं निवेश्य तदर्पितकुटुम्बभरेण भर्त्रा सार्द्धं अस्मिन् शान्ते आश्रमे पुनः पदं करिष्यसि।
आश्रमविरहकातरां धर्मसुतां शकुन्तलां पुनराश्रमानयनायावसरं कथयितुं महर्षिः कण्वः कथयति--भूत्वेति। चिराय-चिरकालम्, चत्वारः = समुद्रा अन्तः =सीमा अवधयो यस्याः सा चतुरन्ता तस्या मह्याः = पृथिव्याः सपत्नी = समानभर्तृका इति चतुरन्तमहीसपत्नी भूत्वा न विद्यते प्रति = संमुखः रथं = स्यन्दनं यस्य स तमप्रतिरथम् = अप्रतियोगिनं जगदेकवीरं तनोति कुशलमिति तनयः तम् कुलविस्तारकं पुत्रं दौष्यन्ति = दुष्यन्तस्यापत्यं पुमान् दौष्यन्तिः तं दौष्यन्ति = दुष्यन्तात्मजं निवेश्य = महीभाररक्षणे नियोज्य यद्वा विवाहं कारयित्वा यस्मिन् पुत्रे अर्पितः = विन्यस्तः कुटुम्बस्य = पोष्यवर्गस्य राज्यं वा भरः = भारः येन स तेन तदर्पितकुटुम्बभरेण भर्त्रा = पत्या सार्द्धं = साकम् अस्मिन् = अत्र शान्ते = मनसः शान्त्योत्पादके आश्रमे = धर्मारण्ये, तपोवने पुनः = भूयः पदं = स्थानं करिष्यसि = विधास्यसि पुनराश्रमे त्वं वानप्रस्थयोग्ये काले समागत्य निवासं करिष्यतीत्यर्थः।
अर्थ भावः--वत्से ! इतः परं पतिगृहं गत्वा बहुदिनं चक्रवर्तिनो राजर्षेः दुष्यन्तस्य प्रधानमहिषीपदे स्थिता तत्र दिव्यान् राजभोगानुपभुञ्जाना यशस्विनमेकच्छत्रं पुत्रं प्रसूय तत्र राज्यभारं निवेश्य निश्चिन्तेन भर्त्रा दुष्यन्तेन सह चरमे वयसि विषयवासनासु विरतासु पुनः शान्त्येकनिकेतन तपोवने समागत्य वानप्रस्थं व्रतं पालयन्ती निवासं करिष्यसि।
अत्र मालादीपक-काव्यलिङ्गालङ्कारः वृत्तं च वसन्ततिलका ॥ १९ ॥
गौतमी--अनयोः ताततनयोः पुनः पुनः संलापेन गमनवेलातिक्रममाशङ्कमाना गौतमी महर्षि कण्वं शकुन्तलां च प्रतिवदति--जाते ! = पुत्रि ! गमनवेला = यात्रामुहूर्तः प्रयाणसमयः परिहीयते = अतिक्रामति गच्छति, पितरं = तातं महर्षि कण्वं निवर्तय = परावर्तय। अथवा = यद्वा एष एव विकल्पो वरीयान् चिरेणापि = चिरकालमपि पुनः
अधिक समय तक चारों समुद्रों से घिरी हुई पृथ्विी की सपत्नी = सौत होकर तथा असमान योद्धा अपने अजेय पुत्र दौष्यन्ति भरत को जन्म देकर उसके ऊपर राज्य का भार समर्पित कर अपने पति के साथ वृद्धावस्था में इस शान्त तपोवन में पुनः आवेगी ॥ १९ ॥
विशेष--प्राचीन काल के राजा लोग विषय सुख भोग लेने के बाद वृद्धावस्था में अपने योग्य पुत्र को राज्य का भार देकर स्त्री के साथ वन में निवास कर वानप्रस्थी का जीवन बिताते थे। इस नियम के अनुसार महर्षि कण्व ने शकुन्तला को अपने पति के साथ पुनः तपोवन में जाने का संकेत किया है।
गोतमी--हे बेटी, देख तेरी यात्रा का मुहूर्त बीत रहा है। अतः अब तो अपने पिताजी को छुट्टी दो (कण्व के प्रति) अथवा यह तो बहुत काल तक आपको जाने नहीं देगी, ऐसी ही कुछ न कुछ कहती ही रहेगी। अतः अब आप आश्रम को पधारिये।