भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 291, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 291

चतुर्थोऽङ्कः | २०९

कथं वा गौतमी मन्यते ।
गौतमी—एत्तिओ बहूजणस्स उवदेसो। जादे एवं खु सव्वं ओधारेहि ।
[ एतावान्वधूजनस्योपदेशः । जाते एतत्खलु सर्वमवधारय । ]
कण्वः—वत्से ! एहि परिष्वजस्व मां सखीजनं च ।


भाग्योपनतेषु महादेवीपदलाभादिषु सत्सु अनुत्सेकिनी = अभिमानगर्वाविरहिता ईर्ष्यादि-विरहिता निरभिमाना, अगर्विता च भव । एवं = उक्तप्रकारेण वर्तमाना युवतयः = स्त्री-मात्रम्-गृहिणीपदं = गृहिणीपदाधिकारं यान्ति = प्राप्नुवन्ति, वामाः = प्रतोपवर्तिन्यः इतो विरुद्धा पत्युर्विरुद्धाचरणाः स्त्रियः कुलस्य, पत्युः पित्रोः वंशस्य च आधयः = व्याधिवत् पीडाकारिण्यो भवन्ति ।

अयं भावः—वत्से ! त्वं मत्सकाशात् पतिगेहमुपगता प्रत्यहं श्वश्रू श्वसुरं च पाद-संवहनव्यजनोद्धूलनादिना परिचरन्ती तेषामाश्रवा भव। तस्मिन् पतिगृहे बह्वयः सपत्न्यो भवेयुः तासु प्रियसखीवद् व्यवहर्तव्यम् । भर्त्रा अपमानितापि ईर्ष्यावशात् कथमपि न पत्युर्वि-रुद्धमाचरणीयम्, भृत्यवर्गे चाभीष्टसम्पादनद्वारा उपकारभारं प्रकटयन्ती तत्रानुरागिणी भव, सौभाग्यात् कदापि गर्वं मावह, हर्षविषादयोः चित्तवृत्तेः समत्वं सम्पादनीयम् । इत्थं विद-धाना नार्यः गृहिण्यो भवन्ति । प्रतीपमाचरन्त्यो भर्तृकुलस्य, पितृवंशस्य च दुर्यशो जन-कत्वाद् क्लेशजनिका एव जायन्ते । अतस्त्वं गुरुजनशुश्रूषादिना शीघ्रमेव महादेवीपदं प्राप्स्यसि । अत्राप्रस्तुतप्रशंसा काव्यलिङ्ग-रूपक-कारकदीपकालङ्काराः शार्दूलविक्रीडितं च छन्दः ॥ १७ ॥

स्वोक्तेऽर्थे कुलगौरवाया गौतम्याः सम्मतिमिच्छन्नाह—महर्षिः-कथं = किम्बा गौतमी मन्यते = परामृशति । मदुक्तं गौतमी सम्भाव्यते न वा ?

गौतमी--एतावान् = एतन्मात्रमेव वधूजनस्य = वधूनां कृते उपदेशः = शिक्षा । जाते ! = पुत्रि ! एतत् = इदं खलु निश्चयेन सर्वं = सकलं कण्वोक्तम् अवधारय = गृहाण । उपदेशममूं सावधानतया सर्वदा स्मरेति भावः ।

कण्वः—वत्से ! = पुत्रि शकुन्तले ! मां = कण्वं सखीजनं = आलीवृन्दं च परिष्वजस्व = आलिङ्गयस्व ।


करने वाली वस्तुएँ अभिमान राग, द्वेष, ईर्ष्या आदि दोषों के वशीभूत होकर कुलकलङ्किनी बन जाती हैं और परिवारों के लिए सिरदर्द हो जाती हैं ।

मेरा तो तेरे को यही उपदेश है, गौतमी का क्या परामर्श है ? जैसा गौतमी कहे, वही ठीक है ।

गौतमी—ठीक है, नव-वधुओं के लिए इतना ही उपदेश यथेष्ट है और यही शिक्षा उचित भी है । बेटी, इस उपदेश को सदा याद रखना, इसे मत भूलना, इससे तू सदा सुखी रहेगी अतः इसे गांठ बांध लो ।

कण्व—बेटी, आ, मुझसे और अपनी प्रिय सखियों से गले मिल लो ।

विशेष—पिता से गले मिलने की प्रथा सम्भवतः पहले होगी, पर आज कल कहीं नहीं दीख पड़ती, किन्तु विदाई के अवसर पर या आने-जाने के समय गले मिलने की प्रथा स्त्रियों में आज भी देखी जाती है और वह स्नेहाधिक्य का सूचक है।

14 १४ शाकु०

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित) · पृष्ठ 291, कुल 540 में से · BharatKosha