भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 305, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 305

पञ्चमोऽङ्कः

२२३

( ततः प्रविशति कञ्चुकी )

कञ्चुकी—अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।

आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता प्रस्थानविकलवगतेरवलम्बनार्था ॥ ३ ॥

( अथागमिष्यत्पात्रप्रवेशसूचनावसरं सम्पादयितुं कञ्चुकीप्रवेशमाह—ततः = तदनन्तरं कञ्चुकिः कञ्चुकः = वारवाणोऽस्यास्तीति कञ्चुकिः = सौविदल्लः प्रविशति = रङ्गभूमावाविर्भवति )

'कञ्चुको वारवाणः स्यात्' इत्यमरसिंहः । कञ्चुकिलक्षणं चाह भ्रातृगुप्तः—

'ये नित्यं सत्यसम्पन्नाः कामदोषविवर्जिताः ।
ज्ञान विज्ञानकुशलाः कञ्चुकीयास्तु ते स्मृताः ॥'

अपि च—

'अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः ।
सर्वकामार्थकुशलः कञ्चुकीत्यभिधीयते ॥'

जरावैकलव्ययुक्तेन शरीरेण सम्पन्नः कञ्चुकी रङ्गभूमौ प्रविश्य संस्कृतभाषयैवाभिधत्ते । तद्यथा—

'जरावैकलव्ययुक्तेन विशेद् गात्रेण कञ्चुकी ।
विदुषां संस्कृतभाषा मन्त्रिकञ्चुकिनामपि ॥'

कञ्चुकी—महर्षेः कण्वस्यादेशेन शकुन्तलामादाय हस्तिनापुरमुपस्थाय च राजमन्दिरं प्रविष्टानां शार्ङ्गरवादीनां सन्देशं राज्ञो दुष्यन्तस्यान्तिके प्रापयिष्यन् कञ्चुकी वार्द्धक्यक्लिष्टमात्मानमनुशोचति—अहो नु खलु = हा, ईदृशीं एतादृशीम् वयःकृतां विसदृशीं अवस्थां = दशाम् प्रतिपन्नः = आपन्नः, अहं प्राप्तः अस्मि । वार्द्धक्यातिशयेन विसदृशीं जरावस्थां विवृणोति—आचार इति ।

अन्वयः— राज्ञः अवरोधगृहेषु अवहितेन मया आचार इति या वेत्रयष्टिः गृहीता सैव बहुतिथे काले गते प्रस्थानविकलवगतेः मम अवलम्बनार्था जाता ।

वार्द्धक्याद् वेपमानकलेवरः कञ्चुकी नैजीवस्था विमृशन् हस्तेन धृतां यष्टिकां विलोक्य ब्रूते—आचार इतीति । राज्ञः=महाराजस्य दुष्यन्तस्य अवरोधगृहेषु = अन्तःपुरेषु अवहितेन = अप्रमत्तेन सावधानेन सता मया = कञ्चुकिना आचार इति = परम्परा गता राजभृत्यमर्यादेयमिति हेतोः अन्तःपुराधिकृतेन रक्षाधिकारिणा पुरुषेण हस्ते सदा वेत्र-यष्टिः गृहीतव्या इत्याचारदित्यर्थः । या वेत्रयष्टिः = वेतसदण्डं गृहीता = हस्ते सदा


( इसके बाद रंगमंच पर कञ्चुकी का प्रवेश )

कञ्चुकी—हाय, ऐसी हालत में पहुँच गया हूँ।

मैंने राज के महलों में सावधान होकर जिस छड़ी को केवल नियम पालन करने के लिए धारण किया था, वही छड़ी अधिक दिन बीत जाने पर अब तो सहारा देने वाली एक आवश्यक वस्तु हो गई है ॥ ३ ॥

विशेष—लम्बा चोंगा पहने हुए राजा के रनिवास के वृद्ध दर्बारी व्यक्ति को कञ्चुकी कहते हैं जो नियमानुसार हाथ में छड़ी लिए रहता है । कञ्चुकी सोचता है कि पहले जब शरीर में कुछ शक्ति थी तब छड़ी की जरूरत नहीं थी, केवल नियमानुसार कायदे का पालन करने के लिए लिया