अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 314, कुल 540 में से
संदर्भ में पढ़ें२३२ | अभिज्ञानशाकुन्तलम्
अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् ॥ ८ ॥
रक्षणाय कल्पसे, विभवेषु अतनुषु (सत्सु) ज्ञातयः नाम सन्तु प्रजानां बन्धुकृत्यं तु त्वयि परिसमाप्तम्।
राज्ञो लोकोत्तरं कर्तव्यं तथाविधं च तत्फलं वर्णयन्नाह—द्वितीयो वैतालिकः—
नियमयसीति। आत्तः = गृहीतो दण्डः = दुष्टमनाधिकारः शासनं येन स आत्तदण्डः यथापराधदण्डेनेत्यर्थः, कुमार्गे प्रस्थितान् कुमार्गे = धर्मशास्त्रादिविरुद्धे मार्गे प्रस्थितान् = प्रस्थातुमुद्यतान् नियमयसि = निरुध्य पुनः सुमार्गे स्थापयसि। यथा गोपालने परक्षेत्रेषु सस्यादिभक्षणप्रवृत्तानां गवां वारणं क्रियते तथैव गृहीतदण्डेन भवतापि दुर्वृत्ते प्रवृत्तान् वारयसीति भावः। तथा चोक्तं राज्ञा दण्डविषये—
'तदर्थं सर्वभूतानां गोप्तारं धर्ममात्मजम्।
ब्रह्मतेजोमयं दण्डमसृजत् परमेश्वरः ॥
स्वराष्ट्रे न्यायवृत्तिः स्यादुग्रदण्डश्च शत्रुपु ।
सुहृत्सु तिलस्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥'
विवादं = परस्परकलहं प्रशमयसि = वारयसि ये भूयो भूमिदाराद्रव्यादिषु विषयेषु विवादं विदधते तेषां विवादं धर्मज्ञैः सह व्यवहारदर्शनात् प्रशमयसीति भावः। रक्षणाय = प्रजानां परिपालनाय कल्पसे प्रभवसि, दैवीः मानुषीर्वाऽपदो निवारयन् प्रजानां परिपालनं कुरुषे। विमवेषु = धनादिषु अतनुषु = बहुलेषु ज्ञातयः = बान्धवाः सन्तु = भवन्तु नाम तु = परन्तु प्रजानां = जनानां बन्धुकृत्यं = बान्धवकर्तव्यम् त्वयि = भवति परिसमाप्तं = निष्पन्नं भवति। प्रजासु धनिनां धनस्य बान्धवा धनाधिकारिणो भवन्तु नाम तासां प्रजानां बन्धुकृत्यं = पालनावेक्षणादिकं तु भवानेव करोतीत्यहो ! भवतो निष्कारणोपकारप्रवणता।
अयं भावः—विभवे सत्येव ज्ञातयो बन्धुभावं दर्शयन्ति स्ववैभवमुपभुञ्जते च परं भवांस्तु प्रजानां वैभवमनपेक्ष्य तासां विनेतृत्वात् पिता, कलहशमनात् सुहृद्, रक्षणात् पुत्रश्चासीति सत्यमेव प्रजानां वास्तविको बन्धुरसीति भावः।
अत्र—काव्यलिङ्ग-कारकदीपक व्यतिरेकालङ्काराः मालिनी वृत्तं च ॥ ८ ॥
शासन करते हैं, उनका झगड़ा शान्त करते हैं और प्रजा की रक्षा के लिए सदा सन्नद्ध ही रहते हैं। जिनके पास अधिक धन है, ऐसे लोगों के लिए उनके बन्धु-बान्धव भले ही काम आते हों, किन्तु साधारण जनता के बन्धु-बान्धवों का कर्तव्य = रक्षा आदि तो केवल आप ही से होता है ॥ ८ ॥
विशेष—हिन्दू धर्मशास्त्रों में राज-व्यवस्था के अनुसार कुमार्गगामी व्यक्ति राष्ट्र का शत्रु माना गया है। उसके प्रति राजा का उग्रदण्ड से उसका नियमन करना राजधर्म बतलाया गया है—'उग्रदण्डश्च शत्रुपु'। अधिक धन रहने पर पराये भी अपना बन जाते हैं और निर्धन होने पर अपने भी पराये बन जाते हैं, किन्तु राजा प्रजा का सच्चा बन्धु हैं, वह हमेशा कारणनिरपेक्ष होकर प्रजा का पालन-पोषण करता है। बन्धु का कार्य है विपत्ति में सहायता पहुँचाना, आपस में उत्पन्न कलह को निपटाना तथा असन्मार्ग पर जाने से रोकना आदि। द्वितीय चारण का कहना है कि महाराज ! आपके द्वारा प्रजाओं के बन्धुओं के समस्त कार्य सम्पन्न होते हैं। भाई-बन्धु तो पैसे वालों के साथी होते हैं, किन्तु आप तो जनता के सच्चे भाई-बन्धु हैं।