भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 316, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 316
२३४अभिज्ञानशाकुन्तलम्

किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं धर्मारण्यचरेषु केनचिदुत प्राणिश्वसच्चेष्टितम् । आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधा- मित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥ ९ ॥

महर्षिकण्वद्वारात्मनः समीपे मुनीनां प्रेषणं कारणं सम्भावय राजा-विचारयति— किं तावदिति ।

अन्वयः— उपोढतपसां व्रतिनां तपः विघ्नैः दूषितं किं तावत् ! उत धर्मारण्यचरेषु प्राणिषु केनचित् असत् चेष्टितम्, आहोस्वित् वीरुधां प्रसवः मम अपचरितैः विष्टम्भितः ? इति आरूढबहुप्रतर्कं मे मनः अपरिच्छेदाकुलम् ( अस्ति ) ।

कुलपतेः कण्वस्य सन्देशमादाय समागतानां सस्त्रीकानां मुनीनामागमनं निशम्य किमर्थमेते ऋषयः समागता—इति निश्चेतुमपारयन् राजर्षिः दुष्यन्तो विकल्पयति—किं तावदिति । उपोढानि = अधिकानि तपांसि = तपस्याः ये ते तेषाम् उपोढतपसां = अतिप्रवृद्धतपोऽनुष्ठानानां यज्ञादिषु दीक्षितानां व्रतिनां = यमनियमवतां मुनीनाम् तपः = तपोव्रतादिकमं विघ्नैः = विघ्नकर्तृभिः राक्षसादिभिः दूषितं = विघ्नितम्, किं तावत् = किमु ? उत = अथवा धर्म्याणि = धर्मार्थानि धर्मकर्मसम्पादनार्थानि अरण्यानि = वनानि तत्र चरन्ति वर्तन्ते इति धर्मारण्यचरेषु = तपोवनविहारिषु प्राणिषु जीवेषु, मृगादिषु श्वापदेषु केनचित् = पामरेण असत् = अनुचितम्, चेष्टितम् = आचरितम् किम् ? आहोस्वित् = किस्वित् अथवा यद्वा मम = अपचरितैः = ममाज्ञातैः कुकृत्यैः वीरुधां = लतादीनां प्रसवः = प्रजननम्पत्, फलोत्पादनशक्तिः पत्रपुष्पफलादिसमुत्पत्तिश्च विष्टम्भितः = अवरुद्धः किम् ? आरूढाः = आकलिताः बहवः = अनेके प्रतर्काः = आशङ्का यस्मिन् तत् आरूढ-बहुप्रतर्का = नानातर्काकुलितं मे = मम मनः = मानसं वर्तते । राज्ञामनाचारेण तद्राज्ये-ऽनेका उपद्रवा जायन्त इत्यत्र शास्त्रमेव परमं प्रमाणमस्ति । तथा चोक्तम्—

'राज्ञोपचारात् पृथिवी स्वल्पसस्या भवेत् किल । अल्पायुषः प्रजाः सर्वाः दरिद्रा व्याधिपीडिताः ॥'

अर्थात्— पूर्वोक्तैर्बहुभिर्विकल्पैः व्याकुलो राजा दुष्यन्तः चिन्तयति यन्न जाने


क्या तपस्या में निरन्तर संलग्न इन ऋषियों की तपस्या किसी प्रकार के विघ्नों से दूषित हो गई है ? धर्मारण्य = आश्रमवासी ऋषि, मुनि, हरिण, मयूर आदि किन्हीं प्राणियों के प्रति-किसी दुष्ट ने कोई अनुचित आचरण किया है ? अथवा मेरे किसी अज्ञात कारण से वनस्पति लता एवं गुल्मों की फसल ही खराब हो गई है ? इस प्रकार मन में उठने वाले तर्क-वितर्कों से और शङ्काओं से तथा अनिश्चय से मेरा मन व्याकुल हो रहा है ॥ ९ ॥

विशेष— यहाँ विघ्न शब्द का तात्पर्य विघ्न करने वाले राक्षस हैं। धर्म-कार्य होने के कारण तपस्वियों के तपोवन को धर्मारण्य कहते हैं। उसकी रक्षा करना राजा का उत्तरदायित्व माना गया है। हिन्दू-शास्त्रों का निर्देश है कि राजा के कुकृत्य = अधर्म से प्रजा को कष्ट होता है—एवं उन पर विविध प्रकार की विपत्तियाँ आती हैं। इसलिए प्रजा की विपत्तियों का कारण राजा का पाप है। राजा के पापों से प्रजा अल्पायु, दरिद्र और रोगी होती हैं तथा उपज की कमी हो जाती है। जैसे—

राज्ञोपचारात् पृथिवी स्वल्पसस्या भवेत् किल । अल्पायुषः प्रजाः सर्वाः दरिद्रा व्याधिपीडिताः ॥