अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 324, कुल 540 में से
संदर्भ में पढ़ें२४२ | अभिज्ञानशाकुन्तलम्
पुरोहितः— (पुरो गत्वा) एते विधिवदर्चितास्तपस्विनः। कश्चिदेषामुपाध्याय-संदेशः। तं देवः श्रोतुमर्हति।
राजा— अवहितोऽस्मि।
ऋषयः— (हस्तानुद्यम्य) विजयस्व राजन्।
राजा— सर्वानभिवादये।
ऋषयः— इष्टेन युज्यस्व।
राजा— अपि निर्विघ्नतपसो मुनयः?
वक्षसि कृत्वा = विधाय आत्मगतं = स्वगतम् विचारयति—हे हृदय ! = हे अन्तःकरण ! किं = कथं, एवं = अनेन प्रकारेण वेपसे = कम्पसे अनिष्टाशङ्कयाऽवधीरणाभयाद्वा हृदयस्य कम्पः। आर्यपुत्रस्य = स्वामिनः भावं = प्रेम अवधार्य = विचार्य धीरं = धैर्ययुतं तावत् भव = एधि। तादृशी प्रीतिर्न विकल्पते। अतश्चिन्ता न कार्येत्यर्थः।
पुरोहितः— पुरोधाः सोमरातः (पुरो गत्वा = अग्रे राज्ञः समीपे उपस्थाय) ब्रवीति-एते पुरोवर्तिनः तपस्विनः = तापसाः विधिवत् = यथाशास्त्रम्, अर्चिताः = पूजिताः सत्कृताश्च, कश्चित् = कोऽपि एषाम् = अमीषाम् उपाध्यायस्य सन्देशः उपाध्यायसन्देशः आचार्यमहर्षिकण्वस्य सन्दिष्टम् विद्यते तं = वाचनिकं देवः—महाराजः अर्हति श्रोतुम् = आकर्णयितुम्।
राजा— अवहितोऽस्मि = पूज्यस्य महर्षेः कण्वस्य सन्देशं भवन्मुखेभ्यः श्रोतुं सावधानोऽस्मि।
ऋषयः— (हस्तान् = करान्, उद्यम्य = उत्थाय) अब्रुवन्—राजन् = महाराज ! विजयस्व, विजयं लभताम् सर्वोत्कर्षेण वर्तस्वेति भावः।
राजा— सर्वान् = शार्ङ्गरवं शारद्वतं पुरोहितं गौतमी च सकलान् अभिवादये = प्रणमामि।
ऋषयः— ते ऊचुः = इष्टेन = अभिलषितेन फलेन युज्यस्व = युक्तो भव।
राजा— अपि = किम्, निर्विघ्नतपसः-निर्विघ्नानि तपांसि तपस्या येषां ते निर्विघ्न-तपसः = तपश्चरणेषु विघ्नरहिताः मुनयः = ऋषयः सन्ति वा न वा?
पुरोहित— (आगे आकर) महाराज का कल्याण हो। हे महाराज ! इन तपस्वियों को शास्त्रोक्त विधि से पूजा कर दी गई है, और इनके पास इनके गुरु जी महर्षि कण्व का कुछ सन्देश है, उसको आप सावधान होकर सुनें।
राजा— मैं सुनने के लिए सावधान हूँ, कहिए।
ऋषिगण— (हाथ उठाकर) हे राजन् ! आपकी हमेशा विजय हो, आप विजयी बनें।
राजा— मैं आप सबको प्रणाम करता हूँ, और आशीर्वाद की याचना करता हूँ
ऋषिगण— महाराज का कल्याण हो।
राजा— आपलोगों की तपस्या में किसी प्रकार का कोई विघ्न तो नहीं है, न?