भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 325, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 325

पञ्चमोऽङ्कः २४३

ऋषयः—

कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
तमस्तपति घर्मांशौ कथमाविर्भविष्यति ॥ १४ ॥

राजा—( आत्मगतम् ) अर्थवान् खलु मे राजशब्दः । ( प्रकाशम् ) अथ भगवाँ-ल्लोकानुग्रहाय कुशली काश्यपः ।


ऋषयः— मुनयो निर्विघ्नतां वर्णयन्ति—कुत इति ।
अन्वयः— त्वयि रक्षितरि ( सति ) सतां धर्मक्रियाविघ्नः कुतः ? घर्मांशौ तपति ( सति ) तमः कथमाविर्भविष्यति ।
अथ मुनय आत्मतपसो निर्विघ्नतां वर्णयितुमुपक्रमन्ते—कुत इति । त्वयि भवति महाराजे दुष्यन्ते रक्षितरि = पालयितरि प्रजापालके, रक्षाकर्मकुर्वति सति सतां = सज्जनानां धार्मिकाणां धर्मक्रियाविघ्नः धर्मक्रियासु = धर्माचरणेषु विघ्नः = अन्तरायः धर्मानुष्ठान-विघ्नः कुतः = कस्माद्वा स्यात् संभवेत् । भवति रक्षके विद्यमाने सतां क्रियामात्रविघ्नोऽपि न सम्भाव्यते इति सुतरां धर्मक्रियाविघ्न इति भावः । तत्र दृष्टान्तमाह—घर्मांशो = सूर्ये तपति सति, पूर्णबलेन प्रकाशमाने सति तमः = अन्धकारः कथं = केन प्रकारेण आविर्भवति = प्रकाशमागमिष्यति । अतश्च हे राजन् ! त्वयि रक्षके। जागरूक्रे सति कथं धर्मक्रियानुष्ठाने विघ्नस्य शङ्कापि सम्भवतीति भावः । अर्थात्—राजन् ! सावधानेन मनसा प्रजापालनकर्म कुर्वति भवति जागरूक्रे समेषां सामान्यक्रियामात्रेऽपि न कश्चनान्तरायः सम्भवति, धर्मानुष्ठानविघ्नस्योपस्थितः कथैव का ? अतो वयं निश्चिन्ता सन्तः स्वेषु स्वेषु कर्मसु प्रवर्तामहे । यथा दिवाकरे उदीयमाने तमः स्वयमेव दूरीभवति । तथैव सूर्यसदृशस्य तेजस्विनोर्भवतो व्यवस्थयाऽस्माकं सर्वं यज्ञानुष्ठानादिकं सम्यक् सततं प्रचलति न तत्रास्ति कोऽप्यन्तराय इति भावः ।
अत्र दृष्टान्तः प्रतिवस्तूपमा वालङ्कारः, अनुष्टुप् छन्दश्च ॥ १४ ॥
राजा—अर्थवान् = सार्थकः खलु=निश्चयेन मे = मम राजशब्दः = राजा इति पदम् । सुष्ठु प्रजापरिपालनेन जनानुञ्जनादन्वर्थः राजशब्दः-राजते दीयते, रञ्जयतीति च राजशब्दव्युत्पत्तिः ।

'ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागत्य शूद्रमारोग्यमेव च ॥ २ । १२७ ॥


ऋषिगण— हे राजन ! सज्जनों के रक्षक आपके रहते हमारी तपस्या में विघ्न हो ही कैसे सकता हैं ! क्योंकि प्रचण्ड किरण वाले भास्कर के रहते अन्धकार का आविर्भाव ही कैसे हो सकता है ? ॥ १४ ॥

राजा—( मन ही मन ) मेरा राजा कहलाना आज सर्वथा सार्थक हुआ जबकि ये तपस्वी लोग इस प्रकार विघ्न बाधाओं से रहित होकर तपश्चर्या कर रहे हैं। ( प्रकट में ) महातपस्वी महर्षि कण्व जी प्रसन्न एवं कुशल पूर्वक हैं, न !

विशेष— राजकुल में उत्पन्न होने से तो सभी राजा कहे जाते हैं, किन्तु वस्तुतः वही राजा है जो लोकरञ्जन करे, मानो निरन्तर प्रजाओं का कल्याण करें । जो प्रजा की शुभाशंसा में निरत रहता हैं और हमेशा प्रजाओं का कल्याण करता रहता है, सच्चे अर्थ में वही राजा है । 'लोकान् रञ्जयतीति राजा' यह व्युत्पत्ति लोकरञ्जक राजा में ही घटती है ।

CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA