अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 326, कुल 540 में से
संदर्भ में पढ़ें२४४
अभिज्ञानशाकुन्तलम्
ऋषयः— स्वाधीनकुशलाः सिद्धिमन्तः। स भवन्तमनामयप्रश्नपूर्वकमिदमाह।
राजा— किमाज्ञापयति भगवान्।
शाङ्गंरवः— ^१यन्मिथः समयादिमां मदीयां दुहितरं ^२भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम्। कुतः—
त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुन्तला ^३मूर्तिमती च सत्क्रिया।
समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः ॥ १५ ॥
मनुवचनानुसारं राजा महर्षेः कुशलं पृच्छति—अथ = किम् भगवान् = श्रीमान् लोकानुग्रहाय = जनकल्याणै कुशली = सकुशलः काश्यपः = महर्षिः कण्वः त्रिभुवनानुग्राह-कत्वेन महर्षेः लोकोत्तराः तपःसिद्धिः, परोपकारनियत्तत्वं च ध्वन्यते।
ऋषयः— स्वाधीनकुशलाः-स्वाधीनं = आत्मायत्तं कुशलं = कुशलता येषां ते स्वाधीन कुशलाः = स्वतन्त्रसुखा आत्माराम्रा वा सिद्धिमन्तो = अलौकिकशक्तियुक्ताश्च महर्षयो भवन्ति। तत्र महर्षि कण्वः, सिद्धिमन्, अतः स्वाधीनकुशल इत्यर्थः। स महर्षिः कण्वः भवन्तं - त्वाम्, अनामयप्रश्नपूर्वकम् = अनामयस्य प्रश्नः पूर्वं यस्मिन् कर्मणि तत् अनामयप्रश्नपूर्वकम् = आरोग्यप्रश्नपुरःसरम् अपि अनामयः असि इति प्रथमं पृष्ट्वेत्यर्थः। इदं = वक्ष्यमाणम् आह = उक्तवान्।
राजा— भगवान् = श्रीमान् कण्वः किम् आज्ञापयति = किं वदति ?
शाङ्ग्ररवः— उक्तवान्-यत् भवान् = त्वम् मिथः समयात् = परस्परसङ्केतात, अन्योन्यानुरागेण 'गान्धर्वः समयान्मिथ' इति याज्ञवल्क्योक्ते गान्धर्वेण विवाहेनेत्यर्थः, इमां = पुरो निधीयमानां मदीयां = मामकीनां दुहितरम् उपायंस्त = परणीतवान् तत् = इदमनुचितमपि स्वेच्छाचरितमुपयमनरूपं तव कायंम् प्रीतिमता = प्रसन्नेन मया कण्वेन युवयोः = वाम् उभयोः अनुज्ञातं = अनुमतं, स्वीकृतम्, कुतो = मयानुज्ञातमित्यत आह—त्वमहंतामिति ।
अन्वयः— त्वं नः अर्हतां प्राग्रसरः स्मृतोऽसि, शकुन्तला च मूर्तिमती सत्क्रिया। तुल्यगुणं बन्धुवरं समानयन् प्रजापतिः चिरस्य वाच्यं न गतः।
अथ कुलपतेः कण्वस्य सन्देशं निवेदयन् तदीयशिष्यः शार्ङ्गरवो नृपतिं दुष्यन्तमाह—त्वमहंतामिति। त्वं = भवान् नः = अस्माकम्, अर्हतां = पूज्यानां प्राग्रसरः प्रकर्षण
ऋषिगण— हे राजन् कण्व सदृश योगसिद्धिशाली महात्मा लोग तो हमेशा ही सकुशल रहते हैं। तपस्या के प्रभाव से उनकी तो कुशलता सर्वथा सिद्ध है। हाँ हमारे गुरुजी ने पहले आपकी आरोग्यता का प्रश्न करके पुनः यह सन्देश आपसे कहा है। मिलने पर ब्राह्मणों से कुशलता और क्षत्रियों से निरोगता पूछना चाहिए। 'ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्'
राजा— कहिए, महर्षि कण्व ने मुझको क्या आज्ञा दी है ?
शाङ्ग्ररव— भगवान् कण्व ने आपसे कहा है कि हे राजन् ! आपने परस्पर की अभिलाषा से ही गान्धर्व विधि से ही स्वेच्छापूर्वक मेरी अनुमति के बिना ही इस कन्या शकुन्तला के साथ जो विवाह कर लिया है, तुम दोनों की स्वेच्छा से किये हुये उस गान्धर्व विवाह को मैंने प्रसन्नता पूर्वक स्वीकार कर लिया है, क्योंकि—
आप राजा होने के कारण हम आदरणीयों में श्रेष्ठ समझे जाते हैं और यह शकुन्तला भी
पाठा०—१. यन्मिथःसमवायादिमां। २. भवानुपयेमे। ३. मूर्तिमतीव सत्क्रिया।