अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 330, कुल 540 में से
संदर्भ में पढ़ें२४८ | अभिज्ञानशाकुन्तलम्
सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥ १७ ॥
**राजा—**किं चात्रभवती मया परिणीतपूर्वा ?
**अन्वयः—**ज्ञातिकुलैकसंश्रयां भर्तृमतीं सतीमपि जनः अन्यथा विशङ्कते । अत स्वबन्धुभिः प्रिया अप्रिया वा प्रमदा परिणेतुः समीपे इष्यते ।
तमेव लोकव्यवहारं निर्दिशति—सतीमपीति। ज्ञातिकुलैकसंश्रयां भर्तृमतीं सतीमपि जनः अन्यथा विशङ्कते । अतः स्वबन्धुभिः प्रिया अप्रिया वा प्रमदा परिणेतुः समीपे इष्यते ज्ञातिकुलं = पितृकुलं बान्धवगोत्रमेव एकः = केवलः संश्रयो यस्याः सा ज्ञातिकुलैकसंश्रयां = पितृगृहमात्रवासशीलां, बान्धवगृहवासिनीं वा भर्तृमतीं = सभर्तृकां, विद्यमानधवां, सधवां सुवासिनीम् सतीमपि पतिव्रतां साध्वीमपि जनः = लोकः अन्यथा = अन्यप्रकारेण असतीमिति विशङ्कते = सम्भावयति । अतः = अस्मादेव खलु कारणात् लोकापवादभयात् स्वबन्धुभिः = वधूबन्धुभिः प्रिया = भर्तुरभिमता अप्रिया भर्तुरनभिमता वा प्रकृष्टो मदः = तारुण्यमदो यस्यां सा प्रमदा = स्त्रीमात्रम् परिणेतुः = वोढुः, पत्युः समीपे = निकटे, सन्निधौ इष्यते = वाञ्छ्यते प्रार्थ्यते । यत एवमतो लोकापवादभीरुणा गुरुणा त्वयोपेक्षिता साध्वी तव धर्मपत्नीयं शकुन्तला त्वत्समीपं प्रापिता तदिदानीं धर्माचरणाय प्रतिगृह्यताम्।
अर्थात् तपोवननिवासिनो वयं न सम्यक् लोकवृत्तमवगच्छामः । राजन् ! युवतीनां चारित्र्यं सर्वदा भवति संशयास्पदम् । यदि काचिदपि सधवा सती स्त्री पितृगेहं तिष्ठेत्तदा साधारणोऽपि जनः तत्र सन्दिहानोऽसती तां सम्भावयति । अतो लोकापवादभिया वयं तव सन्निधौ इमामानीतवन्तः । यदिदं तव परिणीता प्रिया पत्नी चेत्तदा मां गृहिणीं मत्वा गृहाण, अन्यथा दासीवत् परिपालनीया । यतो हि भवन्तमन्तरा अस्या नान्या कापि गतिरिति तात्पर्यम् अत्राप्रस्तुतप्रशंसा काव्यलिङ्गानुप्रासालङ्कारा वंशस्थवृत्तञ्च ॥ १७ ॥
**राजा—**कण्वान्तेवासिनः शार्ङ्गरवस्योक्त्या तदर्थमवगच्छन् राजा पृच्छति—मया = दुष्मन्तेन अत्रभवती = मान्येयं तापसदुहिता पूर्वं परिणीता = परिणीतपूर्वा = प्राक्कृतो-
जिसका पति मौजूद है, ऐसी युवती स्त्री यदि हमेशा पिता या बन्धु-बान्धवों के ही घर पर रहे तो, चाहे वह कितनी सती क्यों न हो, परन्तु लोग तो उसके विषय में अनेक प्रकार की विपरीत शङ्काएँ करने लगते ही हैं। अतः युवती स्त्री को चाहे वह पतिप्रिया हो या न हो, तो भी बन्धु-बान्धव उसे पति के घर ही छोड़ना चाहते हैं ॥ १७ ॥
**विशेष—**यदि कोई विवाहिता स्त्री अपने पिता के यहाँ रह जाती है तो लोग उसके सम्बन्ध में अनेक शङ्काएँ उठाते रहते हैं। कोई कहता है कि यह अमुक युवक से फँसी हुई है अतः पति के घर रहना नहीं चाहती है; तो कोई कहता है कि यह दुश्चरित्रा है अतः इसका पति इसे अपने यहाँ नहीं रखता है परन्तु वास्तविक बात कोई नहीं जानता। अतः भारतीय शास्त्रों में पति के जीवित रहते स्त्रियों का अपने पति के घर रहना उचित है, पिता के घर रहना अनुचित बतलाया गया है। देखिए पद्मपुराण का भी कहना है—
कन्या पितृगृहे नैव सुचिरं वास मर्हति ।
लोकापवादः सुमहान् जायते पितृवेश्मनि ॥
**राजा—**तो, क्या मैंने इस श्रीमती से कभी विवाह किया है ?