भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 332, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 332

२५० अभिज्ञानशाकुन्तलम्

**राजा—**कुतोऽयमसत्कल्पनाप्रश्नः ।
शार्ङ्गरवः—

मूर्च्छन्त्यमी विकाराः १प्रायेणैश्वर्यमत्तेषु ॥ १८ ॥

**राजा—**विशेषेणाधिक्षिप्तोऽस्मि ।
**गौतमी—**जादे मुहुत्तअं मा लज्ज । अवणइस्सं दाव दे ओउंठणं । तदो तुमं भट्टा अहिजाणिस्सदि । [ जाते मुहूर्तं मा लज्जस्व । अपनेष्यामि तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्त्ताभिज्ञास्यति । ] ( इति यथोक्तं करोति । )


राजा—शार्ङ्गरवोक्तिमसहमानो राजा मध्ये एव सामर्षं पृच्छति—कुतोऽयमिति ।
कृतः = कथम् आपद्यते अयं = पूर्वोक्तः असत् कल्पना प्रश्नः = असताम् = अविद्यमानानां कृतकार्यद्वेषादीनां कल्पनया प्रश्नः, कृतकार्यद्वेषादीन् मयि आरोप्य कुत एवं पृच्छ्यते ? भवादृशानामिदमनुचितम् तस्माद् भवतां कथमयमुपालम्भः ?
शार्ङ्गरवः—राजोक्तमसत्कल्पनामुत्तरार्द्धेन शार्ङ्गरवो निरस्यति—मूर्च्छन्त्यमीति ।
**अन्वयः—**ऐश्वर्यमत्तेषु प्रायेण अमी विकारा मूर्च्छन्ति ॥ १८ ॥
ऐश्वर्येण = प्रभुत्वेन मत्तानां = उन्मत्तानां प्रभुत्वमदोन्मत्तानाम् सदसद्विवेकहीनानां प्रायेण = बाहुल्येन अमी विकाराः = उक्ता विकृतयः, कृतकार्यद्वेषविज्ञादयो दोषा मूर्च्छन्ति = समुद्भवन्ति वर्द्धन्ते । ऐश्वर्येण मत्त एव भवान् कृतकार्यद्वेषं कृतावज्ञादिकं वाऽस्माकमवज्ञां वा किं करोतीत्याशयः । अत्रार्थान्तरन्यासोऽलङ्कार आर्या छन्दश्च ।
**राजा—शार्ङ्गरवोक्तिमाकर्ण्य नृपो वदति-विशेषेण=**अत्यर्थं सुतराम् अतिक्षिप्तोऽस्मि= तिरस्कृतोऽस्मि । = भर्त्सितोऽस्मि, लाञ्छितोऽस्मि ऐश्वर्यमदमत्तत्वकथनात् ।
गौतमी—राजानं दुष्यन्तं प्रत्याययितुमारभमाण गौतमी शकुन्तलामाह—जाते ! पुत्रि ! मा लज्जस्व = लज्जां न कुरु तावत्ते = तव अवगुण्ठनं = मुखावरणम् अपनेष्यामि = दूरीकरिष्यामि ततः = तत्पश्चात् भर्ता = स्वामी त्वां भवतीं अभिज्ञास्यति = परिचेष्यति ( इति = एवमुक्तम् = नातिक्रम्य यथोक्तं = अवगुण्ठनापनयनं करोति = विदधाति ) ।


गये हैं, वहाँ उनका चरित्र निकृष्ट कोटि का माना गया है । पर यहाँ कविवर कालिदास ने दुर्वासा के शाप की कल्पना कर दुष्यन्त के चरित्र को अत्यन्त ऊँचा उठा दिया है, जो एक आदर्श चरित्रवान् राजा में होना चाहिए । यही भारतीय राजाओं का उज्ज्वल आदर्शमय चरित्र है इसी के कारण कोई पराई स्त्री पर नजर नहीं उठाता ।
**राजा—**इन मिथ्या कल्पनाओं का अवसर ही क्या है ? अर्थात् मैंने इससे विवाह ही नहीं किया है ।
**शार्ङ्गरव—**प्रायः इस प्रकार के विकार ऐश्वर्य आदि से उन्मत्त लोगों में होते हुए प्रायः देखे जाते हैं ॥ १८ ॥
**राजा—**यह तो मेरे ऊपर कलङ्क और मिथ्या दोषों का स्पष्ट ही आरोप है ।
गौतमी—( शकुन्तला के प्रति ) हे पुत्रि ! थोड़ी देर के लिए लाज छोड़, मैं तेरा घूंघट हटाती हूँ, तब तुम्हारा पति तुझे अवश्य पहचान लेगा । ( यह कह गौतमी शकुन्तला का घूँघट हटाती है ) ।


पाठा०—१. प्रायेणैश्वर्यमत्तानाम् ।