अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 333, कुल 540 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः २५१
राजा—( शकुन्तलां निर्वर्ण्य आत्मगतम् ) ।
इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्न ^१वेति व्यवस्यन् । भ्रमर इव ^२विभाते कुन्दमन्तस्तुषारं न च खलु परिभोक्तुं नैव शक्नोमि ^३हातुम् ॥ १९ ॥
राजा—( शकुन्तलां = कण्वदुहितरं निर्वर्ण्य = निपुणं विलोक्य, सावधानम् अङ्ग-प्रत्यङ्गानि विलोक्येत्यर्थः । आत्मगतं = स्वगतम् )
शकुन्तलाया एवंविधावलोकनेन झटिति संजातमनोविक्रिये, राजा विमृशति—इदमिति ।
अन्वयः--एवम् उपनतम् अक्लिष्टकान्तिम् इदं रूपं प्रथमपरिगृहीतं स्यान्नवा इति अध्यवस्यन् ( अहम् ) विभाते भ्रमरः अन्तस्तुषारं कुन्दमिव सपदि नैव हातुं न च परिभोक्तुं शक्नोमि ।
अथ मुनिकुमाराभ्यां सह कुलपतिना कण्वेन प्रेषितां स्वसमीपे समागतां शकुन्तला-मवलोक्यापि दुर्वाससः शापकारणेन तिरोहितस्मृती राजा दुष्यन्तः संजातमनोविकारो विमृशति—इदमुपनतमिति । एवं = इत्थम्, उपनतं = अप्रयत्नप्राप्तम् अक्लिष्टकान्ति—न क्लिष्टा = म्लाना कान्तिः लावण्यं यस्य तत् अक्लिष्टकान्ति = परिपूर्णलावण्यम्, निर्दोष-सौन्दर्यम्, इदं = पुरोवर्ति रूपं = आकृतिः प्रथमं = पूर्वं परिगृहीतं गान्धर्वविवाहविधिना पत्नीत्वेन स्वीकृतमिति प्रथमपरिगृहीतम् स्यात् = भवेत्, न वा = अथवा न परिगृहीतं वा स्यात् इति = इत्थं अध्यवस्यन् = वितर्कयन् अन्यतरपक्षत्वेन निश्चयम् भजमान इत्यर्थः । अहं विभाते = प्रभाते भ्रमरः मधुपः अन्तस्तुषारं अन्तः = अभ्यन्तरे तुषारः = हिमं यस्य तत् अन्तस्तुषारं = नीहारगर्भम् कुन्दमिव = निशिविकाशि कुन्दाख्यपुष्पमिव सपदि = सहसा नैव हातुं = नैव परिहातुं न च भोक्तुं = नच स्वीकारपूर्वकमुपभोगं कर्तुं शक्नोमि = समर्थोऽस्मि खलु निश्चयेन । पूर्वमियं ललना कदाचित् मया उपभुक्ता न वेति विचारयन् तुषारजडं कुन्दपुष्पम् भ्रमर इवाहं परिभोक्तुं त्यक्तुं वा न शक्नोमि ।
अर्थात् अनवद्याङ्गी परमसुन्दरीयं ललना प्राक् मया पत्नीत्वेन स्वीकृता न वेति संशयानोऽहं निश्चेतुमशक्तः । यथा राजन्यां पतितं तुषारपरिपूर्णं विकसितं कुन्दपुष्पं
राजा—( शकुन्तला को अच्छी तरह नीचे ऊपर देखकर मन ही मन )—इस उज्ज्वल कान्ति और लावण्य एवं सौन्दर्य से सम्पन्न स्वयमुपस्थित ऐसी मनोमोहक सुकुमार अङ्गों वाली हृदयग्राहिणी कान्ता को यह मुझसे कभी विवाहित हुई है या नहीं ऐसा सन्देह करना मैं इसे उसी प्रकार न तो मैं शीघ्रता से छोड़ ही सकता हूँ, न सहसा इसका उपभोग ही कर सकता हूँ जिस प्रकार माघ के महीने में होने वाले ओस कण से भरे हुए कुन्द पुष्प को प्रातःकाल में भ्रमर न तो छोड़ ही देता है, न उसके मकरन्द रस का पान ही कर सकता है ॥ १९ ॥
विशेष—शकुन्तला के अद्वितीय सौन्दर्य पर मुग्ध होते हुए राजा दुष्यन्त धर्म बन्धन में पड़कर उसके स्वीकार करते हिचक रहे हैं। जैसे ओस से भींगे और ठण्डे रहने के कारण भौंरा प्रातःकाल में कुन्दपुष्परसों का न तो आस्वाद ही कर पाता है, और न उसके मधुर रस के लोभ से
पाठ०—१. वेत्यध्यवस्यन् ! २. निशान्ते । ३. न खलु सपदि भोक्तुं । ४. भोक्तुम् ।