भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 340, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 340

१५८ | अभिज्ञानशाकुन्तलम्

शकुन्तला—होदु जइ परमत्थदो परपरिग्गहसंकिणा तुए एव्वं वत्तुं पउत्तं ता अहिण्णाणेण इमिणा तुह आसंकं अवणइस्सं। [ भवतु यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं वक्तुं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि। ]

राजा—^८उदारः कल्पः।

शकुन्तला—( मुद्रास्थानं परामृश्य ) हद्धी अंगुलीअअसुण्णा मे अंगुली। [ हा धिक अङ्गुलीयकशून्या मेऽङ्गुलिः। ] ( इति सविषादं गौतमीमवेक्षते। )


शकुन्तला—कण्वाश्रमात् प्रस्थानकाले सखीसन्दिष्टं स्मृत्वाऽभिज्ञानाङ्गुलीयकदर्शनेन राज्ञः शङ्कामपनेतुं शकुन्तला ब्रवीति—भवतु = अस्तु आस्तां तावदियं कथा यदि = चेत् परमार्थतः = वस्तुतः परस्य = अन्यस्य परिग्रहः = कलत्रं पत्नीयमिति शङ्कते = आशङ्कते इति परपरिग्रहशङ्की तेन परपरिग्रहशङ्किना = परस्य पत्नीयमिति शङ्काकुलेन त्वया एवं वक्तुं प्रवृत्तं = इत्थमभिहितम् तत् = तर्हि अनेन = अमुना = अभिज्ञायतेऽनेनेति अभिज्ञानं तेन अभिज्ञानेन = परिचायकचिन्हेन मुद्रिकया तव = भवतः आशङ्कां सन्देहं अपनेष्यामि = दूरीकरिष्यामि। पुरस्क्रियमाणेण प्रस्थानकाले त्वद्दत्तेन मम करतलगतत्वात् साम्प्रतं मदधीनेन।

राजाउदारः कल्पः = मुख्यो न्यायः, यद्वा उदारो महान् कल्पः सङ्कल्पः, महान् विश्वासो वा उदारः विदग्धो वा कल्पः। साधुरेव प्रस्तावो यदभिज्ञानेन शङ्कामपनेष्यसीतिभावः। 'कल्पः स्यात् प्रत्यये न्याये' इति विश्वकोशः 'उदारो महति ख्याते दानशौण्डविदग्धयोः' इति च वैजयन्ती।

शकुन्तला—( मुद्रास्थानं = मुद्रयतेऽनयेति मुद्रा = उत्कीर्णवर्णमङ्गुलीयकं तस्याः स्थानं = अङ्गुलिमूलं परामृश्य = स्पृष्ट्वा) शकुन्तला ब्रवीति—हा धिक् ! हन्त दैवं धिक्। अहो मे दैववैपरीत्यमित्यर्थः अङ्गुलीयकेन = मुद्रया शून्या = रहिता मे = मम अङ्गुलिः = करशाखा। इति = एवमुक्त्वा विषादेन सहितं सविषादं सखेदम् गौतमीम् अवेक्षते = अवलोकयति। कथमेतदभूदितितदभिप्रायः।


शकुन्तला—अच्छा, यदि सचमुच मुझे दूसरे की स्त्री समझकर ही यह सब कह रहे हो, तो किसी चिह्न को दिखाकर मैं तुम्हारी शङ्का को दूर कर देती हूँ।

विशेष—शकुन्तला को यह विश्वास नहीं था कि महाराज दुष्यन्त आश्रम में परस्पर अनुराग से सम्पन्न गान्धर्व विवाह जैसे स्मरणीय वस्तु को भूल गये हैं। इसलिए अपनी बात की पुष्टि करने के निमित्त प्रमाण देने को प्रस्तुत हो गई।

राजा—हाँ; यह उपाय सबसे उत्तम है। कोई ऐसा चिह्न दिखाओ, जिसमें मेरा तुमसे विवाह होना सिद्ध हो सके।

शकुन्तला—( अंगूठी पहनने की जगह को टटोल कर ) हाय, हाय, मेरी अंगुली में तो अंगूठी नहीं है? ( विषाद एवं शोक के साथ गौतमी का मुख देखती है )।

विशेष—विषाद के साथ गौतमी को देखने का तात्पर्य यह है कि देवी, अनर्थ हो गया, अब क्या करूँ ?


पाठ० ८—प्रथमः कल्पः।