भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 350, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 350

२६८ अभिज्ञानशाकुन्तलम्

आजन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य । परातिसंधानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥ २५ ॥

राजा— भोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिरेवम् । कि पुनरिमोमभि- संधाय लभ्यते ।


अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् । शर्मिष्ठाऽतिवृत्तास्मि दुहित्रा वृषपर्वणः ॥

अन्वयः— यः आजन्मनः शाठ्यमशिक्षितः तस्य जनस्य वचनम् अप्रमाणम् यैः परातिसंधानं विद्येति अधीयते ते आप्तवाचः सन्तु किल ।

अथ दुष्यन्तोक्तं निशम्य तस्यासत्यवादित्वं निश्चिन्वन् शाङ्गरव राज्ञे किमप्यनुक्त्वा शारद्वतादीन् प्रति कथयति—आजन्मन इति । यः = मुनिजनः शकुन्तला वा आजन्मनः = जन्मनः जनुषः आरभ्य जन्मप्रभृति शाठ्यं = खलतां परवञ्चना चातुर्यं परातिसंधान-रूपम् धैर्यम् अशिक्षितः = स्वेन अन्येन शिक्षां न ग्राहितः अबोधितः अनध्यापितः तस्य जनस्य मुनिकन्यारूपस्य वचनं = कथनम् वाणी अप्रमाणं विश्वासानानर्हम्, यैः = राजनीति-कोविदैः सर्वथा मृषा व्यवहारतत्परैः त्वादृशैः राजादिभिः परातिसंधानं = परवञ्चनं तत्प्रतिपादकं कौटिल्याद्यर्थशास्त्रमेव विद्येति ज्ञानमिति अधीयते = इयं नः कुलविद्येति मत्वा विद्यारूपेण अधीयते पठ्यते न शिक्ष्यते ते तथा तादृशाः राजलोकाः आप्ता श्रामणिका वाक् वचनं येषां ते आप्तवाचः = प्रमाणभूताः सन्तु = भवन्तु किल = संभावनायाम् खलु 'किल शब्दस्तु वार्तायां सम्भाव्यानुनयार्थयोः' इति विश्वः । अत्र अदृष्टकैतव शकुन्तला वचोऽप्रमाणं दुष्यन्तोक्तं तु प्रमाणमिति अहो प्रमाणप्रमेयभावव्यवस्थेति राज्ञः असूया प्रकटिता । या हि शकुन्तला जन्मत एव धूर्त्यं न जानाति तस्याः कथनमविश्वसनीयम्, यस्तु त्वं स्वकुलोवधामिव परवञ्चनमेव नियमपूर्वकंमधीषे तस्य ते मृषाव्यवहारिणो वचनं प्रामाणिकं विश्वसनीयं च तस्मात् परवञ्चका राजानो न प्रामाण्यवचना भवितुमर्हन्तीति भावः । अज्ञातप्रस्तुतप्रशंसा-वक्रोक्ति-रूपानुप्रासा अलङ्कारा छन्दश्चोपजातिः ॥ २५ ॥

राजा—शाङ्गरवेणाधिक्षिप्तो राजा सरोषमाह—भो सत्यवादिन् ! तथ्यभाषिन् ! अभ्यु-


जो लोग जन्म से ही छल-कपट से बिलकुल अपरिचित हैं, उनकी बात तो अप्रामाणिक झूठी है । और जो दूसरों को ठगने को एक कला समझ कर रात दिन उसका ही अभ्यास किया करते हैं वे ही लोग आप्त वाक्य = सच्चे प्रामाणिक बन रहे हैं । वाह ! क्या अच्छा न्याय है ॥ २५ ॥

विशेष— पद्य का पूर्वार्द्ध शकुन्तला के लिये और उत्तरार्द्ध दुष्यन्त के लिए आया है । तपोवनों के आश्रमों में जन्म से लेकर अन्त तक शठता की शिक्षा नहीं दी जाती जब कि राजनीति में दूसरे को धोखा देने की शिक्षा भरी पड़ी है । जब शठता की शिक्षा से रहित व्यक्ति को झूठा कहा जाय तथा पर-वञ्चकता की कला में प्रवीण को सत्यवादी माना जाय तब तो कहना ही क्या है । इसलिए कपट-वञ्चना से रहित मुनिकुमारी शकुन्तला का ही वचन प्रामाणिक और दूसरों को ठगना एवं झूठा बोलने वाले राजनीति आपका कहना अप्रामाणिक है ।

राजा—हे सत्य बोलने वाले महात्माओं ! हम यह मान लेते हैं कि हम ऐसे ही झूठ, ठग,

पाठा०—१. मभिसंधाय ।

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित) · पृष्ठ 350, कुल 540 में से · BharatKosha