भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 353, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 353

पञ्चमोऽङ्कः

२७१

गौतमी— ( स्थित्वा ) वच्छ संगरव ! अणुगच्छदि इमं खु णो करुणपरिदेविणी सउंदला पच्चादेसपरुसे भत्तुणि किं वा मे पुत्तिआ करेदु । [ वत्स शाङ्गंरव ! अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला । प्रत्यादेशपरुषे भर्त्तरि किं वा मे पुत्रिका करोतु । ]

शाङ्गंरवः—( सरोषं निवृत्य ) किं पुरोभागे ! स्वातन्त्र्यमवलम्बसे । ( शकुन्तला भीता वेपते )

शाङ्गंरवः—शकुन्तले !

यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया ।
अथ तु वेत्सि शुचि व्रतमात्मनः ¹पतिकुले तव दास्यमपि क्षमम् ॥ २७ ॥


**गौतमी—**अनुप्रतिष्ठमानां शकुन्तलां वीक्ष्य स्थित्वा गौतमी ब्रूते—वत्स ! शाङ्गंरवो करुणं = आर्तं परिदेवयते = विलपति या सा करुणपरिदेविनो करुणं विलपन्ती विलापः परिदेवनम्, इत्यमरसिंहः, इयम् = एषा शकुन्तला नः = अस्मान् अनुगच्छति खलु निश्चयेन प्रत्यादेशपरुषे = प्रत्यादेशेन = प्रत्याख्यानेन निराकृत्य परुषैः = कठोरैः स्वभार्यात्वेन तामस्वीक्रियमाणे सति भर्तरि = पत्यौ मे मम पुत्रिकावात्सल्यभाजन पुत्री किंवा करोतु अनुगमनादन्यत् किं विदधातु ममानुकम्पनीया या अस्याः कन्यकाया अनन्यशरणत्वेनानुगमनादन्यः कश्चनोपायो नास्तीति भावः ।

**शाङ्गंरवः—**गौतमीवचनं श्रुत्वा शाङ्गंरवः सरोषं निवृत्य शकुन्तलामाह पुरोभागे- पुरः = अग्रे भजते = हठात् सेवते या सा पुरोभागा तत्सम्बुद्धौ हे पुरोभागे = दोषदर्शिनि ! दुष्टे किं = किमर्थं स्वातन्त्र्यं = स्वच्छन्दतां अवलम्बसे = आश्रयसि अस्मदाज्ञां विने वास्माननुगच्छसि, मास्माननुगच्छेतिभावः । शास्त्रेषु स्त्रीणां स्वातन्त्र्यं निषिद्धमस्ति । तथाहि—पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रश्च स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति । ( शकुन्तला भीता वेपते कम्पते ) ।

**शाङ्गंरवः—**शकुन्तले ! शाङ्गंरवः शकुन्तलाया पतिगृहवासमेव समर्थयति—यदीति ।

**अन्वयः—**क्षितिपः यथा वदति यदि त्वं तथा असि, उत्कुलया त्वया पितुः किमु ? अथ तु आत्मनो व्रतं शुचि वेत्सि पतिकुले दास्यमपि तव क्षमम् ॥ २७ ॥


गौतमी—( रुककर ) बेटा, शार्ङ्गरव ! हृदय पिघलाने वाला विलाप करती हुई यह शकुन्तला हम लोगों के पीछे-पीछे आ रही है । पति के निष्ठुरतापूर्वक परित्याग कर देने पर बेचारी मेरी प्यारी बिटिया अब क्या करें ?

शार्ङ्गरव—( मुड़कर क्रोध के साथ ) अरी ढीठ, क्या स्वातन्त्र्य का अवलम्बन कर रही हो, ( शकुन्तला भय के मारे काँपती हैं ) ।

**विशेष—**प्राचीन भारतीय सिद्धान्त के अनुसार स्त्रियों को स्वतन्त्रता नहीं हैं। वे अविवाहिता की स्थिति में पिता के, जवानी की स्थिति में अपने पति के तथा वृद्धावस्था में पुत्र के संरक्षण में रहती है—

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रश्च स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥

शार्ङ्गरव—शकुन्तले ! राजा जैसा कह रहे हैं, यदि तुम वैसी ही हो तब तुझ कुलटा से पिता


पाठा०—१. पतिगृहे ।