अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 384, कुल 540 में से
संदर्भ में पढ़ें३०२ अभिज्ञानशाकुन्तलम्
उभे—सुदं रट्टिअमुहादो जाव अंगुलीअदंसणं। [ श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् । ]
कञ्चुकी—( आत्मगतम् ) तेन ह्यल्पं कथयितव्यम् । ( प्रकाशम् ) यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला मोहात्प्रत्यादिष्टेति तदाप्रभृत्य्येव पश्चात्तापमुपगतो देवः । तथा हि—
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्गमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा
गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥ ५॥
उभे—अङ्गुलीयकदर्शनं यावत् = मुद्रिकाप्राप्तिपर्यन्तम्, सर्वं राष्ट्रियमुखात् = राजश्यालकमुखात् श्रुतम् = आकणितम् ।
कञ्चुकी—( आत्मगतं वदति ) तेन = अतः हि = निश्चयेन अल्पम् = अल्पमात्रं कथयितव्यम् = कथनीयं वक्तव्यं स्यात् पुनः प्रकाशं ब्रूते—यदैव = यस्मिन् क्षणे एव खलु = निश्चयेन स्वाङ्गुलीयकदर्शनात् = निजमुद्रिकावलोकनात् देवेन = महाराजेन अनुस्मृतम् = सत्यम् । वस्तुतः रहसि = एकान्ते ऊढपूर्वा-पूर्वमूढा इत्यूढपूर्वा = पूर्वं विवाहिता तत्रभवती = माननीया या मोहात् = अज्ञानात् मतिभ्रमात् । न मे त्वं पत्नीति मया प्रत्यादिष्टा = प्रत्याख्याता, अनङ्गीकृता इति तदाप्रभृत्य्येव = तत् आरम्यैव देवः = महाराजः पश्चात्ताप = अनुशयं परितापम् उपगतः = प्राप्तः ।
अन्वयः—रम्यं द्वेष्टि यथा पुरा प्रकृतिभिः प्रत्यहं न सेव्यते, उद्विघ्न एव शय्याप्रान्तविवर्तनैः क्षपा विगमयति, यदा दाक्षिण्येन अन्तःपुरेभ्यः उचितां वाचं ददाति तदा गोत्रेषु स्खलितः ( सन् ) चिरं व्रीडाविलक्षो भवति ॥ ५ ॥
अङ्गुलीयकदर्शनात् शकुन्तला गान्धर्वविवाहं स्मृत्वा अनुतप्यमानस्य नृपतेः दुष्यन्तस्य तात्कालिकीमवस्थां वर्णयति कञ्चुकी—रम्यमिति । स राजा रम्यं = स्रक् चन्दनचन्द्रचन्द्रिकागीतवाद्यादिकं लोके यद्यदाह्लादकरं भोग्यं वस्तु तत्तत् द्वेष्टि =
दोनों दासियाँ—हाँ, राजश्यालक मित्रावसु के मुख से ही अंगूठी के मिलने तक की बात तो हमलोग सुन चुकी हैं।
कञ्चुकी—( मन ही मन ) तब तो थोड़ा ही कहना होगा । ( प्रकट में ) जब से उस अंगूठी को देखकर महाराज को यह बात याद आई कि मैंने आश्रम में गुप्तरूप से संभावनीया शकुन्तला के साथ सचमुच ही गान्धर्व विवाह किया था और अज्ञानवश उसका परित्याग कर दिया तब से ही शकुन्तला के परित्याग के लिये महाराज बहुत ही पश्चात्ताप कर रहे हैं।
वे मनोहर वस्तुओं को देखना भी पसन्द नहीं करते । पहले की तरह अब प्रजाजनों को प्रतिदिन दर्शन नहीं देते । जागते हुए भी पलंग के किनारों पर करवटें बदल कर रातों को बिताते हैं । जब शिष्टता के कारण अन्तःपुर की स्त्रियों को उचित उत्तर देते हैं तब नामोच्चारण में गलती कर देने पर बहुत देर तक लज्जावश व्याकुल हो जाते हैं ॥ ५ ॥
विशेष—प्राचीन समय में कुछ समय तक राजा लोग सभा में बैठते थे, साहित्यिक परिचर्चाएँ, विद्वानों का शास्त्रार्थ आदि चलते रहते थे, प्रजावर्ग राजा का दर्शन करता था। अपनी