भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 385, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 385

षष्ठोऽङ्कः ३०३

सानुमती—पिअं मे। [ प्रियं मे। ]

उद्वेजकत्वात् चक्षुषापि न पश्यति यथा पुरा = पूर्ववत् प्रकृत्यादिभिः = अमात्य-पुरोहितादिभिः प्रत्यहं = प्रतिदिनम् न सेव्यते = नान्वास्यते, चित्तस्य पारवश्यात् प्रकृति-भिर्मन्त्रणादिकं राजकार्यं राजा न यथावदनुतिष्ठतीति भावः।

किञ्च अनिद्रः = उत्क्रान्ता निद्रा यस्य स अनिद्रः = गतनिद्रः, जाग्रदेव शय्याप्रान्त-विवर्तनैः शय्यायाः तल्पस्य प्रान्तेषु विवर्तनैः = परिलुठनैः = शयनीयपर्यन्तभागपरि-वर्तनादिभिः क्षपाः = रात्रीः विगमयति = अतिवाहयति, न तु अन्तःपुरविदग्धकामिनी सुरतसेवनं कुरुते इत्यर्थः। एवं विवर्तनपरो मट्टिभिः यदा = यस्मिन् काले दाक्षिण्येन = उदारतया अत्यन्तानुरोधेन न तु रागाभिनिवेशेन अन्तःपुरेभ्यः = अन्तःपुरस्थललनाभ्यः उचितां = तत्कालोपयोश्याम्, अभ्यस्तां, प्रार्थनानुरूपां वा वाचं ददाति = प्रश्नानुरूपं प्रत्युत्तरं ददाति शकुन्तलासक्तमना अपि दाक्षिण्येन स्वाकारं निह्नुवानोऽन्तःपुर-कान्ताभ्यो वाचं उच्चारयतीत्यर्थः परं यदा गोत्रेषु = नामसु—'गोत्रं च नाम्नि च' इत्यमरः स्खलितः = विपर्यस्तः अन्यनामग्रहणावसरे अन्यनामग्रहणं कुर्वन् सन् यदा वसुमती नामोच्चारणावसरे शकुन्तलानामोच्चारयति तदा चिरं = चिरकालाय व्रीडाविलक्षः = व्रीडया = लज्जया विलक्षः = विस्मयान्वितो भवति—'विलक्षो विस्मयान्वितः' इत्यमरः। गूढस्य स्वाशयस्य शकुन्तलागतस्य प्रकाशनादपत्रपान्वितो भवतीत्याशयः। .चित्तव्याक्षेप-निमित्तको मुखभावभेदो वैलक्ष्यम्। तथा चोक्तम्—

आत्मनः स्खलिते सम्यग्ज्ञातेऽन्यैर्यस्य जायते।
अपत्रपाति महति स विलक्ष इति स्मृतः॥

अयं भावः—अङ्गुलीयकदर्शनात् शकुन्तला परिणयं स्मृतवतः प्राङ्मतिभ्रमात् कृतं तन्निराकरणं विचिन्त्य वाढमनुतप्यमानस्य परित्यक्तसर्वसुखोपभोगस्य राज्ञो दुष्यन्तस्य दुरवस्थां वर्णयितुं न शक्यते। इति भावः। अत्र पर्यायोक्ति-काव्यलिङ्ग-समुच्चया-लङ्काराः शार्दूलविक्रीडितं च वृत्तम्॥ ५॥

सानुमती—राज्ञो दुष्यन्तस्य तादृशीमवस्थामवधार्य सानुमती सहर्षं स्वगतं विमृशति—प्रियं मे = अत्यन्तं अभीष्टं मम सम्पन्नम्। एतावता दृढं शकुन्तलायामनु-रागवानित्याशयः।


फरियाद सुनाता था, पर राजा का मानसिक धरातल उलझा हुआ था उसे कुछ अच्छा नहीं लगता था। अतः सभा में बैठना, प्रजा को दर्शन देना अच्छा नहीं लगता था। उस समय शकुन्तला राजा के सिर पर नाच रही थी। दिलदिमाग सब कुल शकुन्तलामय हो गया था। रानियों के साथ बातचीत के प्रसंग में उनके नामों को ले लेकर उत्तर देते समय शकुन्तला का नाम ले लेनेपर रानियां अवाक् होकर उसके मुख को देखने लगती थी तब अपनी गलतियों का भान हो जानेपर वह लज्जित हो जाता था और अन्त में कुछ देर के लिए झेंप जाता था। इस प्रकार उस समय उसकी अवस्था प्रमादभरी-सी हो जाती थी।

सानुमती—मेरी प्रिय बातें हुई। अर्थात् शकुन्तला के प्रति उत्कट अनुराग के सूचक ये बातें मुझे बहुत ही प्रिय लग रही हैं।