भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 391, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 391

षष्ठोऽङ्कः

३०९

कञ्चुकी— ^१यदाज्ञापयति देवः ! ( इति निष्क्रान्तः ) ।
**विदूषकः—**किदं भवदा णिम्मच्छिअं । संपदं सिसिरातवच्छेद रमणीए इमस्सिं पमदवणुद्देसे अत्ताणं रमइस्ससि । [ कृतं भवता निर्मक्षिकम् । सांप्रतं शिशिरातपच्छेद-रमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यति । ]
**राजा—**वयस्य ! रन्ध्रोपनिपातिनोऽनर्था इति यदुच्यते ^२तदव्यभिचारि वचः । कुतः ?

मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः ।
मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥ ८ ॥

**कञ्चुकी—**देवः = महाराजः यत् आज्ञापयति = आदिशति तथा क्रियते इति = एव-मुक्त्वा निष्क्रान्तः = रङ्गमञ्चाद्बहिर्गतः ।
**विदूषकः—**प्रतिहारिकञ्चुकिनोर्निष्क्रमणे विदूषको वदति—भवता = त्वया निर्मक्षिकं = मक्षिकाणामभावो, निर्जनम् एकान्तः, इतरे जना भवता अपसारिताः सम्प्रति = इदानीम् अस्मिन् शिशिरातपच्छेदरमणीये—शिशिरः शीतः आतपः = ग्रीष्म इति शिशिरातपौ तयोः छेदाः = अन्तरालमिति शिशिरातपच्छेदः तस्मिन् रमणीये = पुष्प-पल्लवोद्गममनोहरे प्रमदवनोद्देशे = आनन्दोद्यानस्थले रमयिष्यसि = विनोदयिष्यसि, पुष्पाणि पल्लवानि च वीक्ष्य सुखितो भविष्यसीति भावः ।
**राजा—**नृपो वसन्तस्याविर्भवेन प्रबुद्धमदनतापो वदति—रन्ध्रोपनिपातिनः रन्ध्रे = छिद्रे उपनिपतन्ति तच्छीला रन्ध्रोपनिपातिनः = छिद्रोपसर्पिणः अनर्थाः = उप-द्रवा इति = इदं यत् उच्यते = कथ्यते वचः = वचनम् अव्यभिचारि = सत्यमेव, छिद्रेष्वनर्था बहुली भवन्ति । इति नीतिः । कुतः = यतः ।
अन्वयः— (सखे ! पश्य ) मुनिसुता प्रणयस्मृतिरोधिना तमसा मम इदं मनः मुक्तं च प्रहरिष्यता मनसिजेन धनुषि चूतशरः निवेशितश्च ॥ ८ ॥
'छिद्रेष्वनर्था बहुली भवन्ती'ति स्ववृत्तान्तेन सत्यतां समर्थयन् राजा प्राह—मुनिसुतेति । हे सखे माधव्‍य ! पश्य मुनिसुतायां = शकुन्तलायां यः प्रणयः = अभिलाषः तस्य या स्मृतिः स्मरणं तां रुणद्धि तच्छीलं तेन मुनिसुताप्रणयस्मृतिरोधिना = शकुन्तलास्नेह-


**कञ्चुकी—**महाराज की जैसी आज्ञा। ( यह कहकर बाहर निकल जाता है )
**विदूषक—**आपने इस समय पूर्ण एकान्त कर दिया । अब शीत-ठण्ड एवं गर्मी के अभाव के कारण इस मनोहर प्रमदवन में अपने को रमाइए ।
**राजा—**मित्र ! 'क्षते प्रहारा निपतन्त्यभीक्ष्णम्, छिद्रेष्वनर्था बहुलीभवन्ति' 'रन्ध्रोपनिपातितो-ऽनर्थाः' अर्थात् विपत्तियाँ विपत्तियों में आती हैं। यह जो कहावत है वह सर्वथा सत्य है । क्योंकि—
मुनि की पुत्री शकुन्तला के प्रति प्रणय की याद के अवरोधक = बाधक मोह ने = अज्ञान ने मेरे मन को अब छोड़ दिया है तथा प्रहार करने वाले कामदेव ने अपने धनुष पर आम्रमञ्जरी रूप बाण को भी चढ़ा लिया है ॥ ८ ॥
**विशेष—**राजा ने दरबार में अपने पास आने पर अपनी परिणीता पत्नी के रूप में न मान कर मुनि की कन्या-मात्र माना था। उस तरफ सङ्केत के लिए यहाँ मुनिसुता पद है। स्मरण आने और कामदेव के बाण चढ़ाने की घटनाएँ एक साथ हुई है यह बताने के लिए दोप प्रयुक्त है।


पाठा०—१. तथा । २. तदव्यभिचारि । पश्य-।