भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 392, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 392

३१० | अभिज्ञानशाकुन्तलम्

**विदूषकः—**चिट्ठ दाव। इमिण दंडकट्ठेण कंदप्पवाहिं णासइस्सं। [ तिष्ठ तावत्। अनेन दण्डकाष्ठेन कन्दर्पव्याधिं नाशयिष्यामि। ] ( इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति )।

राजा— ( सस्मितम् ) भवतु दृष्टं ब्रह्मवर्चसम्। सखे ! क्वोपविष्टः प्रियायाः किंचिदनुकारिणीषु लतासु दृष्टिं विलोभयामि।


स्मृतिविलोपिना तमसा = अज्ञानेन यदैव ममेदं मनः चित्तं मुक्तं त्यक्तम् च पुनः तदैव प्रहरिष्यता = प्रहर्तुमुद्यतेन मनसिजेन = कामेन धनुषि = स्वकार्मुके चूतशरः = आम्रमञ्जरी पञ्चाभ्यधिकः बाणः निवेशितः = नियोजितश्च, मम प्रियावियोगानुस्मरणं वसन्तकालश्च सममेव प्रादुरभूत्।

अयम्भावः — सखे माधव्य ! यावदहं शकुन्तला विवादवृत्तान्तं नास्मार्षं तावत् सुखित एवासम्। परमङ्गुलीयकदर्शनानन्तरं तत्प्रतिरोधेन मोहेन मुक्तं मामकीनं मनः तां स्मारं स्मारं समुत्कण्ठते। अपि च अकारणवैरिणा कन्दर्पेण स्वकीयपञ्चबाणाभ्यधिकः षष्ठ आम्रमञ्जरी रूपात्मको बाणः संयोजित अतः वसन्ताविर्भावात् प्रबुद्धमदनसन्तापोऽहं, पूर्वापेक्षया सविशेषं क्लेशमनुभवामि अत्राप्रस्तुतप्रशंसा-समुच्चय-काव्यलिङ्गालङ्काराः, द्रुतविलम्बितं वृत्तं च ॥ ९ ॥

विदूषकः—अथ माधव्यो प्रौढिमालम्ब्याह—तिष्ठ तावत् = सन्तापं मा कृथाः दण्ड-काष्ठेन = अनेन लगुडेन कन्दर्पं एव = काम एव व्याधिः रोगः यस्मात् तं कन्दर्पव्याधि = कामपीडाम्, आम्रमञ्जरीमेव नाशयिष्यामि = पातयिष्यामि ( इति = एवमुक्त्वा, ततः दण्डकाष्ठं = लगुडम् उद्यम्य = उत्थाप्य चूताङ्कुरं = आम्रपल्लवम् पातयितुमिच्छति = कामयते।

राजा—( सस्मितं = ईषद्वहास्ययुक्तम् ) भवतु = अस्तु कन्दर्पव्याधिनाशनकथया दृष्टं = अवलोकितम्, ब्रह्मवर्चसं = ब्राह्मं तेजः सर्वानर्थपरिहारसामर्थ्यं तवास्त्येवेति भावः। सन्तापशान्त्युपायं पृच्छति—सखे = मित्र ! क्व = कुत्र उपविष्टः = स्थितः सन् प्रियायाः = दयितायाः शकुन्तलाया किञ्चित् = ईषत् अनुकारिणीषु = सादृश्यशालिनीषु लतासु = वल्लरीषु दृष्टिः = लोचनं चक्षुःविलोभयामि = नन्दयामि विरहिणां हि प्रियजनसदृश्यानु-भवादयो विनोदा भवन्ति।


वियोग तथा वसन्त दोनों त्रिपत्तियाँ हैं—वियोग विपत्ति के रहते वसन्तविपत्ति आ पहुँची। यहाँ शकुन्तला आलम्बन विभाव और वसन्त उद्दीपन विभाव हैं। अंगूठी देखते ही दुष्यन्त का मोह दूर हो गया। उसे शकुन्तला के साथ की गई एक-एक बातें याद आने लगीं। अतः उसका मन वियोगाग्नि में झुलसने लगा। इसी समय वसन्त ऋतु का आगमन हो आया। आम्रमञ्जरी लोगों के मन को उत्कण्ठित करने लगी। यही है काम का दुष्यन्त के ऊपर धनुष चढ़ाना।

**विदूषक—**जरा ठहरिए, इस दण्डे से काम के बाण = आम्रमञ्जरी को विनष्ट कर देता हूँ ( ऐसा कहकर डण्डे से आम्रमञ्जरी को गिरा देना चाहता है )

राजा—( मुस्कराकर ) जाने दो, बस करो, देख लिया आपका ब्रह्मतेज। मित्र ! कहाँ बैठकर प्रिया का कुछ अनुकरण करनेवाली लताओं पर आँख को लगाकर आनन्दित करूँ ?

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित) · पृष्ठ 392, कुल 540 में से · BharatKosha