भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 401, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 401

षष्ठोऽङ्कः ३१९

सानुमती—जइ अण्णहत्थगदं भवे सच्चं एव्वं सोअणिज्जं भवे । [ यद्यन्यहस्त-गतं भवेत्सत्यमेव शोचनीयं भवेत् । ]

विदूषकः—भो इमं णाममुद्दा केण उग्घादेण तत्तहोदोए हत्थाव्भासं पाविदा । [ भो इयं नाममुद्रा केनोद्घातेन तत्रभवत्या हस्ताभ्याशं प्रापिता । ]

सानुमती—मम वि कोदूहलेण आआरिदो एसो । [ ममापि कौतूहलेनाकारित एषः । ]

राजा—श्रूयताम् स्वनगराय प्रस्थितं मां प्रिया सवाष्पमाह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यति इति ।

विदूषकः—तदो तदो । [ ततस्ततः । ]


निपत्य मत्स्योदरं विलीना। तन्मन्ये शकुन्तलाहस्ताद् यत् पतितमसि तन्नूनं त्वमपि अहमिवाल्पपुण्यमेव नितरां शोच्यमसि। अत्रोपमानुमानसमासोक्तिकाव्यलिङ्गालङ्कारा, पुष्पिताग्रा वृत्तं च ॥ ११ ॥

सानुमती—अथाङ्गुलीयकमिदानीमत्युच्चस्थानास्थितमतो न शोच्यम्—यदि = चेत् अन्यहस्तगतं भवेत् = दुष्यन्तं विहाय अन्यस्य कस्यचित् हस्तगतं = करोपगतं भवेत्तर्हि सत्यमेव = नूनमेव वस्तुतः, अवश्यं शोचनीयं भवेत्–अमविष्यत्।

विदूषकःभोः = शृणु, कथय इयं = एषा मुद्रयतेऽनयेति मुद्रा नाम्नो मुद्रानाम-मुद्रा उत्कीर्णनामाक्षरं मवन्नामाङ्कितमङ्गुलीयकम् केन उद्घातेन समुपक्रमेण उद्देश्येन अभिप्रायेण 'उद्घातः कथ्यते धीरैः संवलिते समुपक्रमे' इति धरणिः। तत्रभवत्या माननीयायाः शकुन्तलायाः हस्ताभ्यासं शकुन्तलाकरसंयोगहस्तनैकट्यम् प्रापिता = भवता। त्वया तस्यै किमर्थं दत्तेति भावः।

सानुमतीममापि कौतूहलेन जिज्ञासाया—आकारितः = आहूतः प्रेरित अङ्कुरित इव ममापि एतच्छ्रवणे कौतूहलमासीत्, तदनेन पृष्टमिति भावः।

राजाश्रूयतां = आकर्ण्यताम् स्वनगराय निजराजधान्यै प्रस्थितं = प्रचलितं मां = दुष्यन्तं प्रिया = दयिता शकुन्तला सवाष्पं साश्रु आह = पृष्टवती कियच्चिरेण = कियता विलम्बेन कतिभिः दिवसैः आर्यपुत्रः = स्वामी प्रतिपत्ति = प्रवृत्तिं वार्ता = सन्देशम् 'प्रतिपत्तिः प्रवृत्तौ स्यात्' इति धारामिः दास्यति = प्रेषयिष्यति इति ।

विदूषकःततः तत्पश्चात् किं जातम् ?


सानुमती—यदि दूसरे के हाथ में पड़ती तो वस्तुतः शोक का विषय होती, किन्तु राजा के हाथ में आ जाने से यह शोचनीय नहीं रह गई है।

विदूषक—हे मित्र ! आपके नामाक्षरों से युक्त इस अंगूठी को आपने किस उद्देश्य से श्रीमती शकुन्तला के हाथ में पहिना दिया था।

सानुमती—हाँ, यही कौतूहल तो मुझे भी हो रहा था। अतः यह तो मेरे ही मन की बात मानो पूछ रहा है।

राजा—वयस्य ! सुनो, जब मैं आश्रम से नगर को वापिस आने लगा, तब मेरी प्रिया शकुन्तला ने मुझसे कहा था कि हे प्राणनाथ ! अब आप मेरा स्मरण कब तक (कितने दिनों में) करेंगे ?

विदूषक—हाँ, तब फिर क्या हुआ ?