भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 411, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 411

षष्ठोऽङ्कः

३२९

विदूषकः—(आत्मगतम्) एसो अत्तभवं णदिं अदिककमिअ मिअतिण्हिआं संकंतो। (प्रकाशम्) भो ! अवरं किं एत्थ लिहिदव्वं ? [ एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः। भो अपरं किमत्र लिखितव्यम् ? ]

सानुमती—जो जो पदेसो सहीए मे अहिरूवो तं तं आलिहिदुकामो भवे। [ यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालिखितुकामो भवेत्। ]

राजा—श्रूयताम्—

कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः। शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥ १७ ॥

विदूषकः—राजोक्तं सत्यमिति समर्थयन् माधव्यः स्वगतमाह—एषः = अयम् अत्र भवान् = माननीयो राजा दुष्यन्तः नदीं = सरितम् शकुन्तलाम् अतिक्रम्य = उल्लङ्घ्य मृगतृष्णिकाम् = मृगमरीचिकाम् सङ्क्रान्तः = प्राप्तः। प्रकाशं=स्पष्टम्। भो=अये वयस्य ! अपरं = अन्यत् किम् अत्र = अस्मिन् चित्रपटे लिखितव्यम् = अङ्कितव्यम् ? अस्मिन् चित्रे भवान् किमन्यल्लिखितुमिच्छसीत्याशयः।

सानुमती—सानुमती स्वगतं वदति मे = मम सख्याः = शकुन्तलायाः अभिरूपः = रम्यः, ‘अभिरूपो बुधे रम्ये’ इति विश्वमेदिन्यौ। प्रदेशः = स्थानम् तं तं प्रदेशम् आलिखितुं = चित्रेऽर्पितुं कामः = इच्छा यस्य स आलिखितुं कामः राजा भवेत् = स्यात्। ममाली शकुन्तला येषु येषु स्थानेषु रमते तानि तानि स्थानानि राज्ञा चित्रेऽस्मिन् लिखितुमिष्टानीत्यर्थः।

राजा—अथ प्रगाढोन्मादो राजा शकुन्तलाचित्रनिर्माणशेषं पूरयितुमुपक्रममाणो विदूषकप्रश्नमुत्तरयति श्रूयताम्—कार्येति

अन्वयः—सैकतलीनहंसमिथुना स्रोतोवहा मालिनी कार्या, तामभितः निषण्णहरिणा गौरीगुरोः पावनाः पादा कार्याः शाखालम्बितवल्कलस्य तरोरधः कृष्णमृगस्य शृङ्गे कण्डूयमानां च मृगीं निर्मातुमिच्छामि ॥ १७ ॥

मित्र ! चित्रं किमन्यल्लेखनीयमिति पृच्छन्तं माधव्यं ब्रवीति राजा दुष्यन्तः—कार्येति। सैकते = सिकतामये पुलिने = तटे लीनं = सुखासीनं हंसमिथुनं = हंसयोः मिथुन मरालयुगलं यस्याः सा सैकतलीनहंसमिथुना स्रोतांसि वहतीति स्रोतोवहा = नदी मालिनी = मालिनी नाम्नी कार्या = रचयितव्या तां = मालिनीमभितः = समीपे निषण्णाः = उप-


विदूषक—(मन ही मन) यह श्रीमान्‌जी नदी पार करके मृगतृष्णिका में प्रविष्ट हो गये हैं (प्रगट) अजी और क्या इसमें लिखना है।

**सानुमती—**जो जो स्थान हमारी सखी शकुन्तला को पसन्द हैं उसको-उसको वह चित्रित करने के इच्छुक हो सकते हैं।

**राजा—**सुनो, जिसके बालुकामय तट पर सुखपूर्वक हंस की जोड़ी बैठी हुई है, ऐसी मालिनी नदी बनानी है। उसके दोनों ओर हिमालय के पवित्र तलहटी के प्रदेश बनाने हैं। जिनमें हरिण