भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 413, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 413

षष्ठोऽङ्कः ३३१

विदूषकः— किं विअ । [ किमिव ? ]

सानुमती— वणवासस्स सोउमारस्स अविणअस्स अ जं सरिसं भविस्सदि ।
[ वनवासस्य सौकुमार्यस्यविनयस्य च यत्सदृशं भविष्यति । ]

राजा—

कृतं न कर्णारर्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् ।
न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे ॥ १८ ॥

विदूषकः— किमिव = किं तत् अभिप्रेतं प्रसाधनम् ।

सानुमती— प्रसाधनमुद्दिश्य सानुमती चिन्तयति—वनवासस्य वने = विपिने वासः = वसतिः यस्य स तस्य वनवासस्य शकुन्तलाया आरण्यावस्थितेः सौकुमार्यस्य = अत्यन्त-मृदुलत्वस्य विनयस्य नम्रताया च सदृशं = अनुरूपं कन्यकाभावस्य सौकुमार्यस्य च समुचितं पुष्पधारणम् भविष्यति = स्यात् ।

अन्वयः— सखे ! कर्णार्पितबन्धनम्, आगण्डविलम्बिकेसरं शिरीषं न कृतम् वा स्तनान्तरे शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं न रचितम् ।

भवता शकुन्तलायाः किं प्रसाधनं कर्तव्यत्वेनाभिप्रेतमिति माढव्यस्य प्रश्नमुत्तरयन् राजा दुष्यन्तः चित्रे अकृतं प्रसाधनं वर्णयितुमुपक्रमते—कृतमिति । सखे = हे मित्र ! कर्णयोः = श्रवणयोः अर्पितं = दत्तं, बन्धनभागं वृन्तं यस्य तत् कर्णार्पितबन्धनम् = कर्णन्यस्तवृन्तम्, गण्डमभिव्याप्य विलम्बितुं शीलाः लम्बायमानाः केसराः किञ्जल्काः यस्य तत् आगण्डविलम्बिकेसरं = कपोलपर्यन्तलम्बमानकिञ्जल्कम् शिरीषं = शिरीषकुसु-मम् न कृतं नाऽत्रचित्रेऽर्पितं मया शकुन्तलातिप्रियत्वात्तद्दृश्यमत्रापणीयमितिभावः । वा = यद्वा किञ्च स्तनान्तरे = स्तनयोः मध्यावकाशस्थले, पयोधरयोरुत्सङ्गे शरच्चन्द्रस्य शशाङ्कचन्द्रस्य मरीचिवत् = ज्योत्स्नावत् कोमलं = सुकुमारं स्निग्धं = शुभ्रं मृणालसूत्रं = विसमरालिका न रचितं = मया न खचितम्, न लिखितम् ।

अर्थात् हे मित्र माढव्य ! मयाऽस्मिन् चित्रे प्रियायाः कर्णयोरुपरि शिरीषकुसुमस्य वृन्तं नोपन्यस्तं, यस्य किञ्जल्काः कपोलप्रदेशपर्यन्तं विलम्बमानाः कर्णयोः कपो-लयोश्च कामप्यपूर्वां शोभां जनयन्ति तथा पीवरयोरपि स्तनयोर्मध्ये शारदशशाङ्क-धवला अतिकोमला विससूत्रमालिकाऽपि नोपन्यस्ता, या परस्परसंलग्नयोः पीवरयोः पयोधरयोः शोभां विदग्धशोभते इदमेवात्र मम प्रियायाः शकुन्तलायाः प्रसाधनमव-शिष्टमस्तीति भावः ।

अत्रोपमासमुच्चयालङ्कारौ, वंशस्थं वृत्तं च ॥ १८ ॥


विदूषक— वह कैसा आभूषण ?

सानुमती— वनवास, सुकुमारता, तथा सुशीलता के जो अनुरूप होगा ।

राजा— मित्र ! कान में लगा हुआ वृन्तवाला, गालों तक लटकते हुए केसरवाला शिरीष का फूल नहीं बनाया गया है और स्तनों के बीच में शरद्कालीन चन्द्रमा की किरणों की तरह कोमल नाल का हार नहीं बनाया गया है ॥ १८ ॥