भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 414, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 414
३३२अभिज्ञानशाकुन्तलम्

विदूषकः—भोः! किं णु तत्तहोदी रक्तकुवलअपल्लवसोहिणा अग्गहत्थेण मुहं ओवारिअ चइदचइदा विअ ठिआ। आ एसो दासीएपुत्तो कुसुमरसपाडच्चरो तत्तहोदाए वअणं अहिलंघेदि महुअरो। (सावधानं निरूप्य दृष्ट्वा) [भो किं नु तत्र भवती रक्तकुवलयपल्लवशोभिनाऽग्रहस्तेन मुखमपवार्य चकितचकितेव स्थिता। आः एष दास्याः पुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या वदनमभिलङ्घति मधुकरः।]

राजा—ननु वार्यतामेष धृष्टः।

विदूषकः—भवं एव्व अविणीदाणं सासिदा इमस्स वारणे पहविस्सदि [भवानेवाविनीतानां शासितास्य वारणे प्रभविष्यति।]

राजा—युज्यते। अयि भोः कुसुमलताप्रियातिथे किमत्र परिपतनखेदमनुभवसि।


विदूषकः—(माधव्यः सावधानं निरूप्य = ध्यानेन दृष्ट्वा पृच्छति—) मोः=अये, तत्रभवती = मान्या शकुन्तला रक्तं च तत् कुवलंयं रक्तकुवलंयं तस्य पल्लवः तद्वत् शोभिना यद्वा रक्तो यो कुवलयपल्लवौ तद्वत् शोभिनेति रक्तकुवलयपल्लवशोभिना = रक्तोत्पलदलसदृशश्रो जुषा, अरुणकमलपलमनोहरेण हस्तस्याग्रम् अग्रहस्तः तेन अग्रहस्तेन = करपल्लवेन मुखं = वदनम् अपवार्य = विधाय आच्छाद्य चकितचकितेव = भीतभीते किन्नु स्थिता = कस्मात् स्थिता? आः, एषः = अयं दास्याः पुत्रः = दुर्विनीतः नीचः कुसुमपाटच्चरः = पुष्पमधुचोरः मधुकरः = दुष्टो भ्रमरः तत्रभवत्याः = पूज्यायाः वदनं = मुखम् अतिलङ्घति = मुखमभिलक्ष्य धावति।

राजा--चित्रगतामपि शकुन्तलां साक्षात् प्रियामेव मन्वानो नृप आह—ननु = एवं तर्हि एषः = अयं धृष्टः = उच्छृङ्खलो भ्रमरः वार्यताम् = प्रतिषिध्यताम्।

विदूषकः--चित्रगतस्य भ्रमरस्य वारयितुमशक्यत्वं विचिन्त्य राजानं सोलुण्ठनमाह—भवानेव = त्वमेव, अविनीतानां = उद्दण्डानाम् शासिता = शासकः, विनेता अतः भवानेव अस्य = एतस्य भ्रमरस्य वारणे = रोधने प्रभविष्यति = समर्थो भविष्यति।

राजा--नृपोऽपि तादृग्बुद्धधैवोत्तरायति--युज्यते = युक्तमेव अहमेवैनं वारयिष्ये। अथ भ्रमरमभिमुखीकृत्य शकुन्तलामुखाद्दूरीकर्तुमुपक्रमते-अयि भोः!=शृणु कुसुमलता=पुष्पवल्लरी एव प्रिया = दयितेति कुसुमलताप्रियः तस्या अतिथिः तत्सम्बुद्धौ हे कुसुमलताप्रियातिथे! = हे पुष्पलता प्रणयिन्! अत्र वदनकमले = प्रिया शकुन्तलाकपोले परिपतनस्य = उड्डयनस्य खेदं = संचरणश्रमं आक्रमणक्लेशं किं = कथम् अनुभवसि = किमिति कुरुषे, नालं तव कमलमधुसुलभम्। कुसुमलता समुपस्थितं त्वां सत्करिष्यन्ति। अतस्तामेवाभिसरेतिभावः सेवनाचितं स्थानं निर्दिशति--एषेति।


विदूषक—(सावधानी से विचार कर और देखकर) अजी, क्या बात है कि आदरणीया शकुन्तला लाल कमल के पत्तों की तरह शोभायमान हाथ के अगले हिस्से से मुख को ढककर अत्यन्त घबराई हुई सी खड़ी है। ओह, यह राण का बेटा, फूलों के रस का चोर भौंरा इन श्रीमती शकुन्तला के मुख कमल पर आक्रमण कर रहा है।

राजा—तो, इस ढीठ भौंरे को रोको।

विदूषक—आप ही दुष्टों के शासक हैं। अतः आप ही इसके निवारण में समर्थ होंगे।

राजा—ठीक है, हे पुष्पलता के प्रिय अतिथि! तुम इस शकुन्तला के मुख-कमल के चारों ओर चक्कर काटने का कष्ट क्यों उठा रहे हो?