अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 415, कुल 540 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः । ३३३
एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता।
प्रतिपालयति ¹मधुकरी न खलु ²मधु विना त्वया पिबति ॥ १९ ॥
सानुमती—अज्ज अभिजादं खु एसो वारिदो। [ अद्याभिजातं खल्वेष वारितः। ]
विदूषकः—पडिसिद्धा वि वामा एषा जादी। [ प्रतिषिद्धापि वामैषा जातिः। ]
राजा—एवं भोः, न मे शासने तिष्ठति। श्रूयतां तर्हि संप्रति—
अन्वयः—अनुरक्ता एषा मधुकरी तृषिता कुसुमनिषण्णा सती अपि भवन्तं प्रतिपालयति त्वया विना न खलु मधु पिबति ॥ १९ ॥
चित्रेऽङ्किता मधुकरीमुद्दिश्य राजा मधुकरं वारयितुमुपक्रममाण आह—एषेति। अनुरक्ता त्वयि अनुरागिणी=प्रेमवती एषा=पुरो दृश्यमाना मधुकरी = भवद्दयिता भ्रमरी तृषिता = पिपासिता, अभिलाषवती कुसुमनिषण्णा = पुष्पोपविष्टा सती विद्यमाना अपि भवन्तं त्वां प्रतिपालयति = प्रतीक्षते त्वया विना = त्वां विहाय न खलु = निश्चयेन मधु = मकरन्दं पिबति = आस्वादयति । अस्याः स्नेहः त्वया मानयितव्यः । अतोऽत्रैव गच्छ । अर्थात् हे मधुकर व्यर्थं मे प्रियाया मुखमभिकलङ्कयसे न त्वं प्रियायां मुखमधुरसमास्वादयितुं शक्नोषि अतस्त्वं कुसुमितां लतामेव गच्छ । मकरन्दरसास्वादनाम कुसुमोपरिउपविष्टा तव प्रिया प्रौढा मधुकरी त्वया विना मधु न पिबति । अतस्तत्रैव गच्छ तामेव प्रौढां भ्रमरीमेवानुसर त्वं नात्र मम प्रियावदने ते मनोरथपूर्तिर्भविष्यी अतः अजातकामां मुग्धामेनां बालां मम वल्लभाया क्लेशयेति भावः । अत्र समासोक्त्यलङ्कारः आर्या छन्दश्च ॥ १९ ॥
सानुमती—अद्य—अधुना उन्मादावस्थायामपि अथवा प्रियापरिमवेऽपि अभिजातम् = कुलीनतानुरूपं अनुरूपम् न्यायानुमोदितेन यथा समुचितं यथा स्यात्तथा खलु = निश्चयेन एषः = अयं भ्रमरः वारितः = निषिद्धः । इतो वारणमपि भ्रमरस्यास्य सुखदमेवास्तीत्याशयः । 'अभिजातः स्मृतो न्याय्य' इति विश्वः ।
विदूषकः—राजा वारितोऽप्येष न विरमतीत्याह—एषा = तिर्यग्जातिः, भ्रमर जातिः, प्रतिषिद्धापि = निवारितापि वामा = प्रतिकूला विपरीताचकरणा विरुद्धमार्गगामिनी । निषिद्धोऽपि अयं न निवर्तते । एष त्वदाज्ञां न मनुते इति भावः ।
राजा—प्रतिषिद्धमपि विरोधमाचरन्तं भ्रमरं प्रति क्रुद्ध आह—एवं=अनेना विधिना प्रियाभिमुखमेव धावन् मे शासने = निदेशे, आज्ञायाम् न तिष्ठसि = न वर्तसे तर्हि श्रूयतां मदाज्ञोल्लङ्घनस्य मया दास्यमानो दण्ड आकर्ण्यताम् । संप्रति हि = इदानीं श्रोतव्यमाह ।
आप पर अनुरक्त यह भ्रमरी प्यासी होकर फूलपर बैठी हुई भी आपकी प्रतीक्षा कर रही । तुम्हारे बिना पुष्प-रस को नहीं ही पी रही है ॥ १९ ॥
सानुमती—इस समय यह भ्रमर राजा के द्वारा बहुत शिष्ट ढंग से रोका गया है।
विदूषक—रोकने पर भी यह भ्रमर जाति विपरीत ही काम करने वाली होती है।
राजा—अच्छा ऐसी बात है, तू मेरे आदेश में नहीं हो तो अब सुन लो—
पाठ०—१. भ्रमरी । २. मधु त्वां बिना पिबति ।